| YouTube Channel

योनिमुद्रा (yonimudrA)

 
Monier Williams Cologne
English
योनि—मुद्रा
f.
N.
of a partic. position of the fingers,
L.
Apte Hindi
Hindi
योनिमुद्रा
स्त्री*
योनिः-मुद्रा -
अंगुलियों द्वारा ऐसी विशिष्ट आकृति बनाना जो स्त्री की योनि से मिलती जुलती हो
शब्दकल्पद्रुमः
Sanskrit
योनिमुद्रा,
स्त्री,
(योन्याकृतिर्मुद्रा हस्तभङ्गी ।)भगवत्याः पूजायां प्रदर्शनीयाङ्गुलीरचितयोन्या-कारमुद्राविशेषः यथा, --“पञ्च प्रणामान् कृत्वाथ ओँ ह्रीँ श्रीमितिंमन्त्रकैः ।अन्येषां पुरतश्चैव अधिकाल्पा यथेच्छया ।योनिमुद्रां ततः पश्चात् दर्शयित्वा विसर्ज्जयेत्
द्वौ पाणी प्रसृतीकृत्य कृत्वा तूत्तानमञ्जलिम् ।अङ्गुष्ठाग्रद्बयं न्यस्य कनिष्ठाग्रद्बयोस्ततः
अनामिकायां वामस्य तत्कनिष्ठां पुरो न्यसेत् ।दक्षिणस्यानामिकायां कनिष्ठां दक्षिणस्य
अनामिकायाः पृष्ठे तु मध्यमे विनियोजयेत् ।द्बे तर्ज्जन्यौ कनिष्ठाग्रे तदग्रेणैव योजयेत्
योनिमुद्रा समाख्याता देव्याः प्रीतिकरी मता
त्रिवारं दर्शयेदग्रे मूलमन्त्रेण साधकः ।तां मुद्रां शिरसि न्यस्य मण्डलं विन्यसेत्ततः
”इति कालिकापुराणे ५३ अध्यायः
*
पारिभाषिकयोनिमुद्र यथा मन्त्रमुक्ता-वल्याम् ।“उपविश्यासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः ।षट्चक्रं चिन्तयेद्देवि ! प्राणायामपुरःसरम्
चतुर्द्दलं स्यादाधारं स्वाधिष्ठानन्तु षड्दलम् ।नाभौ दशदलं पद्मं सूर्य्यसंख्यदलं हृदि
कण्ठे स्यात् षोडशदलं भ्रूमध्ये द्बिदलन्तथा ।सहस्रदलमाख्यातं ब्रह्मरन्ध्रे महापथे
आधारे कन्दमध्यस्थं त्रिकोणमतिसुन्दरम् ।त्रिकोणमध्ये देवेशि ! कामबीजं सुलक्षणम्
कामबीजोद्भवं तत्र स्वयम्भुलिङ्गमुत्तमम् ।तस्योपरि पुनर्ध्यायेत् चित्कलां हंसमाश्रिताम्
ध्यायेत् कुण्डलिनीं देवीं स्वयम्भुलिङ्गवेष्टिताम् ।चित्कलया कुण्डलिनीं तेजोरूपां जगन्मयीम्
आधारादीनि पद्मानि भित्त्वा तेजःस्वरू-पिणीम् ।हंसेन मनुना देवीं ब्रह्मरन्ध्रं नयेत् सुधीः
सदाशिवेन देवेशि ! क्षणमात्रं रमेत् प्रिये ! ।अमृतं जायते देवि ! तत्क्षणात् परमेश्वरि !
तदुद्भवामृतं देवि ! लाक्षारससमोपमम् ।तेनामृतेन देवेशि ! तर्पयेत् परदेवताम्
षट्चक्रदेवतास्तत्र सन्तर्प्यामृतधारया ।आनयेत्तेन मार्गेण मूलाधारं पुनः सुधीः
ततस्तु परमेशानि ! अक्षमालां विचिन्तयेत् ।चित्रिणी विशतन्त्वाभा ब्रह्मनाडीगतान्तरा
तया संग्रथिता ध्येया साक्षाज्जाग्रत्स्वरूपिणी ।अनुलोमविलोमेन मन्त्रवर्णविभेदतः
मन्त्रेणान्तरितान् वर्णान् वर्णेनान्तरितं मनुम् ।कुर्य्याद्वर्णमयीं मालां सर्व्वमन्त्रप्रकाशिनीम्
चरमार्णं मेरुरूपं लङ्घनं नैव कारयेत् ।सबिन्दुं वर्णमुच्चार्य्य पश्चान्मन्त्रं जपेत् सुधीः
अष्टोत्तरशतं मूलमन्त्रं ज्ञानेन संजपेत् ।वर्गाणामष्टवर्गेण अष्टवारं जपेत् सुधीः
शा इत्येवञ्चाष्टवर्गकाः ।योनिमुद्रा महेशानि ! तव स्नेहात् प्रकाशिता
मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां वेत्ति यः ।शतकोटिजपेनापि तस्य सिद्धिर्न जायते
”इति शाक्तानन्दतरङ्गिणी
वाचस्पत्यम्
Sanskrit
योनिमुद्रा स्त्री योन्याकारा मुद्रा तन्त्रोक्ते देवताविशेष-पूजाङ्गे प्रदर्शनीये अङ्गुलीसन्निवेशविशेषे तल्लक्षणन्तु“मिथः कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके अनामि०कोर्ध्वसंश्लिष्टे दीर्घमध्यमयोरधः अङ्गुष्ठाग्रद्वयं न्यस्ययोनिमुद्रेयमीरिता” तन्त्रसा० मूलबन्धरूपे योने-र्बन्धभेदे तल्लक्षणमुक्तं पदार्थादर्शे “पार्ष्णिभागान् सु-संपीड्य योनिमार्गं तथा गुदम् अपानमूर्ध्वमाकर्षेत्मूलबन्धो निगद्यते गुदमेढ्रान्तरं योनिस्तामाकुञ्च्यप्रबन्धयेत् युवा भवति वृद्धोऽपि सततं मूलबन्धनात्” ।(योनिस्थानमुद्रणात् योनिमुद्रात्वमस्याः) “सेयं मयोक्ताखलु योनिमुद्रा बन्धश्च देवैरपि दुर्लभोऽस्य अनेनबन्धेन साध्यते यन्नास्त्येव तत्साधकपुङ्गवस्य”