| YouTube Channel

योनिकन्दः (yonikandaH)

 
शब्दकल्पद्रुमः
Sanskrit
योनिकन्दः,
पुं,
(योनौ कन्द इव ।) योनिरोग-विशेषः तस्य निदानं यथा, --“दिवास्वप्नादतिक्रोधाद्व्यायामादतिमैथुनात् ।क्षताच्च नखदन्ताद्यैर्व्वाताद्याः कुपिता यथा
वाताद्याः कुपिता यथा यथा निदानकुपितावाताद्याः रूपमाह ।‘पूयशोणितसङ्काशं लकुचाकृतिसन्निभम् ।जनयन्ति यदा योनौ नाम्ना कन्दः योनिजः
’लकुचाकृतिसन्निभं लकुचाकाराकारम् ।गुडकमत्र विशेष्यं बोद्धव्यम्
*
वातजादि-भेदेन रूपभेदमाह ।‘रूक्षं विघर्णं स्फुटितं वातिकं तं विनिर्द्दिशेत् ।दाहरागज्वरयुतं विद्यात् पित्तात्मकन्तु तत्
तिलपुष्पप्रतीकाशं कण्डूयन्तं कफात्मकम् ।सर्व्वलिङ्गसमायुक्तं सान्निपातात्मकं भवेत्
’अस्य चिकित्सा योनिशब्दे द्रष्टव्या ।” इतिभावप्रकांशः