| YouTube Channel

योधयिता-त्री (yodhayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“युध सम्प्रहारे”@} 2 ‘सम्प्रहारः = हननम्।’ इति क्षीरस्वामी।
योधकः-धिका, योधकः-धिका, युयुत्सकः-त्सिका, योयुधकः-धिका
योद्धा-योद्ध्री, योधयिता-त्री, युयुत्सिता-त्री, योयुघिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकक्षुध्यतिवत् 3 ज्ञेयानि।
4 राजयुध्वा, 5 सहयुध्वा, 6 7 चापयोधी, 8 प्रतियोधी, 9 युध्यमानः, 10 11 योधः-यौधः, 12 आयुधम्, 13 युद्धम्, 14 ईषद्योधनः-दुर्योधनः-सुयोधनः, 15 ईषद्योधः- दुर्योधः-सुयोधः, 16 युयुधानः, 17 योधयन्-न्ती, 18 इत्यानच्प्रत्यये, तस्य कित्त्वेन गुणनिषेधे युधानः इति सिद्ध्यति।
युधानः = रिपुः।]] युधानः, 19 इति मक्प्रत्ययः।
युध्यतेऽस्मिन् राजेति युध्मः = शरत्कालः।]] युध्मः, 20 युयुत्सा, आयोधनम्, इत्यादीनि रूपाण्यस्माद् भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३५४)
02
=>
(४-दिवादिः-११७३। अक। अनि। आत्म।)
03
=>
(३१५)
04
=>
[[३। ‘राजनि युधिकृञः’ (३-२-९५) इति कर्मण्युपपदे क्वनिप्प्रत्ययः। राजानं योधितवान् राजयुध्वा। अत्रान्तर्भावितण्यर्थाद् धातोः सकर्मकत्वमिति बोध्यम्। ‘भूते’ (३-२-८४) इत्यधिकारे प्रत्ययस्यास्य विधानात् भूतकालिकत्वम्। स्त्रियाम्, ‘वनो हशः--’ (वा। ४-१-७) इति निषेधाद् ङीब्रेफौ न।]]
05
=>
[[४। ‘सहे च’ (३-२-९६) इत्यनेन सहशब्द उपपदे धातोः क्वनिप्। सह योधितवान् सहयुध्वा।]]
06
=>
[[C। ‘संवित्तः सहयुध्वानौ तच्छक्तिं खरदूषणौ।’ भ। का। ५। ३७।]]
07
=>
[[५। ‘बहुलमाभीक्ष्ण्ये’ (३-२-८१) इति णिनिः। चापयोधी = किरातादि-जातिविशेषः।]]
08
=>
[[६। गम्यादिषु (३-३-३) पाठात् भविष्यत्काल औणादिको णिनिः। प्रतियोधी = यः प्रतिद्वन्द्वितया युद्धं करिष्यति उच्यते।]]
09
=>
[[७। शानचि दिवादित्वाच्छ्यनि रूपमेवम्। युध्यति इत्यादिप्रयोगाणामुपपत्तिस्तु-- ‘सुप आत्मनः क्यच्’ (३-१-८) इति क्यजन्तत्वेन, दिवादेरवृत्कृतत्वेनाकृतिगण- त्वाद्वा साधुत्वमिति बोध्यम्।]]
10
=>
[पृष्ठम्१०८७+ ३१]
11
=>
[[१। प्रज्ञादिषु (५-४-३८) योधशब्दस्य पाठात् इगुपधलक्षणं कप्रत्ययं बाधित्वा, पचादिपाठपरिकल्पनेनाच्। स्वार्थे तद्धितेऽणि विकल्पेन प्रवृत्ते तु योधः--यौधः इति रूपद्वयस्योपपन्नत्वं ज्ञेयम्।]]
12
=>
[[२। आदाय युध्यन्तेऽनेनेति आयुधम्। ‘घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्य- र्थम्’ (वा। ३-३-५८) इति वचनात् घञर्थे करणे कप्रत्यये, कित्त्वेन गुणनिषेधे रूपमेवम्।]]
13
=>
[[३। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रयये धत्व-जश्त्वयोश्च रूपम्।]]
14
=>
[[४। ईषदाद्युपपदेषु, ‘भाषायां शासियुधि--’ (वा। ३-३-१३०) इति खलपवादो युच्प्रत्ययः। अत्रापि अन्तर्भावितण्यर्थाद्धातोः, विवक्षया वा सकर्मकत्वं बोध्यम्। कर्मणि प्रत्ययोऽयम्।]]
15
=>
[[५। ‘भाषायां शासियुधि--’ (वा। ३-३-१३०) इति युच् वा--इति प्रक्रियाकौ- मुदी। तन्मते युजभावपक्षे खल्प्रत्यये रूपाणामेषां सिद्धिर्बोध्या।]]
16
=>
[[६। ‘बाहुलकादानचि द्वित्वम्।’ इति मा। धा। वृत्तिः। बाहुलकादेव प्रत्ययस्य कित्त्वमपि बोध्यम्। तेन गुणः।]]
17
=>
[[७। ‘बुधयुध--’ (१-३-८६) इति कर्तृगामिन्यपि क्रियाफले ण्यन्तात् परस्मैपदमेव। “ये चात्राकर्मकाः, तेषाम्, ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इत्येव परस्मैपदे सिद्धे वचनमिदम्--अचित्तवत्कर्तृकार्थम्।।” इति काशिका (१-३-८६) अत्रानुसन्धेया।]]
18
=>
[[८। ‘युधिबुधिदृशिभ्यः किच्च’ [द। उ। ५-३३]
19
=>
[[९। ‘इषियुधि--’ [द। उ। ७-३१]
20
=>
[[आ। ‘युयुत्सारहितो रामं ममारापहरन् वने।।’ भ। का। ९। १२५।]]