| YouTube Channel

योटक (yoTaka)

 
Spoken Sanskrit
English
योटक yoTaka
m.
combination of stars
योटक yoTaka
m.
constellation
Apte
English
योटकः [yōṭakḥ], A combination of stars.
Apte 1890
English
योटकः A combination of stars.
Monier Williams Cologne
English
योटक
m.
a combination of stars
&c.
, constellation,
L.
Monier Williams 1872
English
योटक योटक, अस्, m. a combination of
stars, &c., constellation.
शब्दकल्पद्रुमः
Sanskrit
योटकः,
पुं,
योटनम् मेलनमिति यावत् विवाहेराशियोटक-ग्रहयोटक-नक्षत्रयोटक-गणयोटक-वर्णयोटक-योनियोटक-वर्गयोटकभेदेन सप्तविधोयोटकः तत्र राशियोटके षडष्टकनवपञ्च-मद्विद्वादशविषमसप्तकयोगा निषिद्धाः तदाहश्रीपतिसंहितायाम् ।“षडष्टकं त्रिकोणञ्च द्बिद्बादशकमेव ।परस्परं जन्मराशेस्त्यक्त्वा कन्याकुमारयोः
षडष्टके भवेद्दोषो वैधव्यं मृत्युरेव वा ।त्रिकोणे पुत्त्रहानिः स्यात् धनहानिर्धनव्यये
पुरुषस्याष्टमे कन्या कन्यायाः षष्ठके पुमान् ।शुभं षडष्टकं ज्ञेयं नोद्बाहे दूषणं भवेत्
नवपञ्चमे ।पुंसो गृहात् सुतगृहे सुतहा कन्याधर्म्मे स्थिता सुतवती पतिवल्लभा ।द्बिद्वादशे धनगृहे धनहा कन्यारिप्फे स्थिता धनवती पतिवल्लभा
योटके सप्तके मेषतुलौ युग्महयौ तथा ।सिंहघटौ सदा वर्ज्यौ मृतिस्तत्राब्रवीच्छिवः
राजयोटकमाह दीपिकायाम् ।एकराशौ दम्पत्योः शुभं स्यात् समसप्तके ।चतुर्थदशके चैव तृतीयैकादशे तथा
”इति राशियोटकविचारः
*
ग्रहयोटके ग्रहशत्रुयोगो निषिद्धः कन्यावर-राश्यधिपग्रहयोः शत्रुत्वे ग्रहशत्रुयोगः तत्रविवाहे रोगादिः फलम् तदाह गर्गः मरणंभावविरोधे ग्रहरिपुभावे चाचिरेण रोगादिः ।इति ग्रहयोटकविचारः
*
अन्ये योटकाःप्रपञ्चभयान्न लिखिताः इति ज्योतिषम्
ग्रन्थान्तरे जोटकशब्दश्चवर्गतृतीयादिश्च
वाचस्पत्यम्
Sanskrit
योटक
त्रि०
युट--ण्वुल् मेलके विवाहमेलकश्च उप-यमशब्दे १२४८ पृ० दृश्यः