| YouTube Channel

योग्येषु (yogyeSu)

 
कृदन्तरूपमाला
Sanskrit
1 {@“निवास आच्छादने”@} 2 अदन्तः।
3 अत्र धातौ ‘नि’ इत्युपसर्गविशिष्टस्यैव धातुत्वम्, इति क्षीरस्वामिमतम्।
‘पूर्वं धातुरुपसर्गेण युज्यते’ इति भाष्यमतेनैवमुक्तम्।
तन्मते निवासयित्वा इत्यत्र क्त्वाप्रत्ययस्योपपत्तिश्चिन्त्या।
वस्तुतस्तु ‘सङ्ग्राम, व्यय, वीर’ इत्यादिषु ‘सम्, वि’ इत्युपसर्गयोरिव अत्रापि ‘नि’ इत्युपसर्गविशिष्टस्यैव धातुत्वम्।
अत्र प्रकृतिप्रत्ययोपसर्गादिविभागरहितः ‘निवास’ इत्यानुपूर्वीक एव धातुरिति तत्त्वम्।
अन्यथा, ‘पूर्वं धातुः साधनेन युज्यते’ इति ‘सुट् कात् पूर्वः’ 4 इति सूत्रभाष्ये सिद्धान्तितस्य विरोधस्स्यात्।
अत एवाडागम- योग्येषु लकारेष्वपि अनिवासयिष्यत् इत्याद्येव रूपम्।]] निवासकः-सिका, निनिवासयिषकः-षिका
निवासयिता-त्री, निनिवासयिषिता-त्री
निवासयन्-न्ती, निनिवासयिषन्-न्ती
निवासयिष्यन्-न्ती-ती, निनिवासयिषिष्यन्-न्ती-ती
निवासयमानः, निनिवासयिषमाणः, निवासयिष्यमाणः, निनिवासयिषिष्यमाणः
5 सुनिवासू-सुनिवासौ-सुनिवासः
-- -- 6 निवासितम्-तः, निनिवासयिषितः-तवान्
निवासः, निनिवासयिषुः
निवासयितव्यम्, निनिवासयिषितव्यम्
निवासनीयम्, निनिवासयिष- णीयम्
निवास्यम्, निनिवासयिष्यम्
निवासयमानः, निनिवासयिषमाणः
ईषन्निवासः-दुर्निवासः-सुनिवासः
-- -- निवासः, निनिवासयिषः
निवासयितुम्, निनिवासयिषितुम्
निवासना, निनिवासयिषा
निवासनम्, निनिवासयिषणम्
निवासयित्वा, निनिवासयिषित्वा
प्रणिवास्य, प्रणिनिवासयिष्य
7 निवासम् २, निवासयित्वा २, निनिवासयिषम्
निनिवासयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(९५२)
02
=>
(१०-चुरादिः-१८८६। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(६-१-१३५)
05
=>
[[१। क्विपि, अदन्तत्वादस्य धातोरल्लोपस्य स्थानिवद्भावात् सकारस्य रुत्वविसर्गौ भवतः।]]
06
=>
[[B। ‘छिद्रं गवेषयितुमेव तु वासयन्ते ये ते निवासितधियो ह्यसुभिर्विभाज्याः।।’ धा। का। ३। ५६।]]
07
=>
[पृष्ठम्०८३०+ २९]