| YouTube Channel

योग्यानुपलब्धि (yogyAnupalabdhi)

 
वाचस्पत्यम्
Sanskrit
योग्यानुपलब्धि स्त्री योग्यस्य प्रत्यक्षादिना उपलब्धुमर्हस्या-नुपलब्धिरज्ञानम् न्यायाद्युक्ते अभावग्राहके साधन-भेदे तथाहि घटादिसत्त्वे तत्र घटाभावो नानुप-लभ्यते तस्य प्रतियोगिनो घटादेः सत्त्वेन तत्प्रत्यक्ष-कारणसामग्र्यसत्त्वेन तत्प्रत्यक्षस्याभावात् किन्तु घटा-स्याभावो गृह्यते पिशाचाद्यभावस्य तु प्रत्यक्षता तत्-प्रतियोगिपिशाचादेर्दर्शनायोग्यत्वात् वेदान्तिमते इयंप्रमाणान्तरम् वेदान्तप० प०