| YouTube Channel

योगिनी (yoginI)

 
Spoken Sanskrit
English
योगिनी - yoginI -
f.
- witch
योगिनी - yoginI -
f.
- woman representing any goddess who is the object of adoration [ Buddhism ]
योगिनी - yoginI -
f.
- female demon or any being endowed with magical power
योगिनी - yoginI -
f.
- particular zakti
योगिनी - yoginI -
f.
- female demon
योगिनी - yoginI -
f.
- one who is in union with God
योगिनी - yoginI -
f.
- fairy
योगिनी - yoginI -
f.
- sorceress
Monier Williams Cologne
English
योगिनी a
f.
See next.
योगिनी b
f.
a female demon or any being endowed with magical power, a fairy, witch, sorceress (represented as eight in number and as created by Durgā and attendant on her or on Śiva
sometimes 60, 64 or 65 are enumerated),
Hariv.
Kathās.
&c.
(cf.
RTL.
188, 189)
N.
of Durgā,
L.
(with Tāntrikas) a partic. Śakti
(with Buddhists) a woman representing any goddess who is the object of adoration.
Hindi
Hindi
जो योग प्रथाओं (स्त्री)
Apte Hindi
Hindi
योगिनी
स्त्री*
- -
"जादूगरनी, अभिचारिका, ओझाइन, मायाविनी "
योगिनी
स्त्री*
- -
भक्तिनी
योगिनी
स्त्री*
- -
शिव या दुर्गा की सेविकाओं की टोली
Shabdartha Kaustubha
Kannada
योगिनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದುರ್ಗಾದೇವಿ
योगिनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮಾಟಗಾರ್ತಿ
योगिनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಧ್ಯಾನಾಸಕ್ತಳಾದ ಹೆಂಗಸು /ಯೋಗಾಭ್ಯಾಸ ಮಾಡಿದ ಹೆಂಗಸು
L R Vaidya
English
yoginI {% f. %} 1. A devotee
2. fairy, a witch
3. name of eight female attendants on Durgā.
भूतसङ्ख्या
Sanskrit
६४, कला, योगिनी, स्त्रीकला
Wordnet
Sanskrit
Synonyms:
तपस्विनी, योगिनी
noun
योगयुक्ता तपोयुक्ता वा स्त्री।
"गुहाप्रविष्टः सः शिवलिङ्गस्य पुरतः उपविष्टां श्वेतवस्त्रधारिणीं तपस्विनीम् अपश्यत्।"
अभिधानचिन्तामणिपरिशिष्टम्
Sanskrit
--source--
गौतमी कौशिकी कृष्णा तामसी बाभ्रवी जया ४७
कालरात्रिर्महामाया भ्रामरी यादवी वरा
बर्हिध्वजा शूलधरा परमब्रह्मचारिणी ४८
अमोघा विन्ध्यनिलया षष्ठी कान्तारवासिनी
जाङ्गुली बदरीवासा वरदा कृष्णपिङ्गला ४९
p{0003}
दृषद्वतीन्द्रभगिनी प्रगल्भा रेवती तथा
महाविद्या सिनीवाली रक्तदन्त्येकपाटला ५०
एकपर्णा बहुभुजा नन्दपुत्री महाजया
भद्रकाली महाकाली योगिनी गणनायिका ५१
हासा भीमा प्रकूष्माण्डी गदिनी वारुणी हिमा
अनन्ता विजया क्षेमा मानस्तोका कुहावती ५२
चारणा पितृगणा स्कन्दमाता घनाञ्जनी
गान्धर्वी कर्वरी गार्गी सावित्री ब्रह्मचारिणी ५३
कोटिश्रीर्सन्दरावासा केशी मलयवासिनी
कालायनी विशालाक्षी किराती गोकुलोद्भवा ५४
एकानसी नारायणी शैला शाकंभरीश्वरी
प्रकीर्णकेशी कुण्डा नीलवस्त्रोग्रचारिणी ५५
अष्टादशभुजा पौत्री शिवदूती यमस्वसा
सुनन्दा विकचा लम्बा जयन्ती नकुलाकुला ५६
विलङ्का नन्दिनी नन्दा नन्दयन्ती निरञ्जना
कालंजरी शतमुखी विकराली करालिका ५७
विरजाः पुरला जीरी बहुपुत्री कुलेश्वरी
कैटभी कालदमनी दर्दुरा कुलदेवता ५८
रौद्री कुन्द्रा महारौद्री कालंगमा महानिशा
बलदेवस्वसा पुत्री हीरी क्षेमंकरी प्रभा ५९
मारी हैमवती चापि गोला शिखरवासिनी
-wordlist-
गौतमी (स्त्री), कौशिकी (स्त्री), कृष्णा (स्त्री), तामसी (स्त्री), बाभ्रवी (स्त्री), जया (स्त्री), कालरात्रि (स्त्री), महामाया (स्त्री), भ्रामरी (स्त्री), यादवी (स्त्री), वरा (स्त्री), बर्हिध्वजा (स्त्री), शूलधरा (स्त्री), परमब्रह्मचारिणी (स्त्री), अमोघा (स्त्री), विन्ध्यनिलया (स्त्री), षष्ठी (स्त्री), कान्तारवासिनी (स्त्री), जाङ्गुली (स्त्री), बदरीवासा (स्त्री), वरदा (स्त्री), कृष्णपिङ्गला (स्त्री), दृषद्वती (स्त्री), इन्द्रभगिनी (स्त्री), प्रगल्भा (स्त्री), रेवती (स्त्री), महाविद्या (स्त्री), सिनीवाली (स्त्री), रक्तदन्ती (स्त्री), एकपाटला (स्त्री), एकपर्णा (स्त्री), बजुभुजा (स्त्री), नन्दपुत्री (स्त्री), महाजया (स्त्री), भद्रकाली (स्त्री), महाकाली (स्त्री), योगिनी (स्त्री), गणनायिका (स्त्री), हासा (स्त्री), भीमा (स्त्री), प्रकूष्माण्डी (स्त्री), गदिनी (स्त्री), वारुणी (स्त्री), हिमा (स्त्री), अनन्ता (स्त्री), विजया (स्त्री), क्षेमा (स्त्री), मानस्तोका (स्त्री), कुहावती (स्त्री), चारणा (स्त्री), पितृगणा (स्त्री), स्कन्दमाता (स्त्री), घनाञ्जनी (स्त्री), गान्धर्वी (स्त्री), कर्बुरा (स्त्री), गार्गी (स्त्री), सावित्री (स्त्री), ब्रह्मचारिणी (स्त्री), कोटिश्री (स्त्री), मन्दरावासा (स्त्री), केशी (स्त्री), मलयवासिनी (स्त्री), कालायनी (स्त्री), विशालाक्षी (स्त्री), किराती (स्त्री), गोकुलोद्भवा (स्त्री), एकानसी (स्त्री), नारायणी (स्त्री), शैला (स्त्री), शाकम्भरी (स्त्री), ईश्वरी (स्त्री), प्रकीर्णकेशी (स्त्री), कुण्डा (स्त्री), नीलवस्त्रा (स्त्री), उग्रचारिणी (स्त्री), अष्टादशभुजा (स्त्री), पौत्री (स्त्री), शिवदूती (स्त्री), यमस्वसा (स्त्री), सुनन्दा (स्त्री), विकचा (स्त्री), लम्बा (स्त्री), जयन्ती (स्त्री), नकुला (स्त्री), कुला (स्त्री), विलङ्का (स्त्री), नन्दिनी (स्त्री), नन्दा (स्त्री), नन्दयन्ती (स्त्री), निरञ्जना (स्त्री), कालञ्जरी (स्त्री), शतमुखी (स्त्री), विकराला (स्त्री), करालिका (स्त्री), विरजस् (स्त्री), पुरला (स्त्री), जारी (स्त्री), बहुपुत्री (स्त्री), कुलेश्वरी (स्त्री), कैटभी (स्त्री), कालदमनी (स्त्री), दर्दुरा (स्त्री), कुलदेवता (स्त्री), रौद्री (स्त्री), कुन्द्रा (स्त्री), महारौद्री (स्त्री), कालङ्गमा (स्त्री), महानिशा (स्त्री), बलदेवस्वसृ (स्त्री), पुत्री (स्त्री), हीरी (स्त्री), क्षेमङ्करी (स्त्री), प्रभा (स्त्री), मारी (स्त्री), हैमवती (स्त्री), गोला (स्त्री), शिखरवासिनी (स्त्री)
Tamil
Tamil
யோகி3னீ : யோகம் செய்பவள், மந்திரக்காரி, பராசக்தியின் பணிவிடை மாது.
शब्दकल्पद्रुमः
Sanskrit
योगिनी,
स्त्री,
(योगोऽस्त्यस्या इति योग + इनिः ।ङीप् ।) योगयुक्ता नारी (यथा, मार्कण्डेये ।५२ ३१ ।“ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज
”)भगवत्याः सखीरूपा आवरणदेवता साकोटिविधा तासां मध्ये चतुःषष्टिः प्रधानाः ।यथा नारायणी गौरी शाकम्भरी ३भीमा रक्तदन्तिका भ्रामरी पार्व्वती ७दुर्गा कात्यायनी महादेवी १० चण्डघण्टा११ महाविद्या १२ महातपा १३ सावित्री १४ब्रह्मवादिनी १५ भद्रकाली १६ विशालाक्षी १७रुद्राणी १८ कृष्णपिङ्गला १९ अग्निज्वाला २०रौद्रमुखी २१ कालरात्रिः २२ तपस्विनी २३मेघस्वना २४ सहस्राक्षी २५ विष्णुमाया २६जलोदरी २७ महोदरी २८ मुक्तकेशी २९धोररूपा ३० महाबला ३१ श्रुतिः ३२ स्मृतिः३३ धृतिः ३४ तुष्टिः ३५ पुष्टिः ३६ मेधा ३७विद्या ३८ लक्ष्मीः ३९ सरस्वती ४० अपर्णा ४१अम्बिका ४२ योगिनी ४३ डाकिनी ४४शाकिनी ४५ हारिणी ४६ हाकिनी ४७लाकिनी ४८ त्रिदशेश्वरी ४९ महाषष्ठी ५०सर्व्वमङ्गला ५१ लज्जा ५२ कौशिकी ५३ब्रह्माणी ५४ माहेश्वरी ५५ कौमारी ५६वैष्णवी ५७ ऐन्द्री ५८ नारसिंही ५९ वाराही६० चामुण्डा ६१ शिवदूती ६२ विष्णुमाया ६३मातृका ६४ इति बृहन्नन्दिकेश्वरपुराणोक्त-दुर्गापूजापद्धतिः
अपि ।“ब्रह्माणी चण्डिका रौद्री गौरीन्द्राणी तथैव ।कौमारी वैष्णवी दुर्गा नारसिंही कालिका
चामुण्डा शिवदूती वाराही कौशिकी तथा ।माहेश्वरी शाङ्करी जयन्ती सर्व्वमङ्गला
काली कपालिनी मेधा शिवा शाकम्भरी तथा ।भीमा शान्ता भ्रामरी रुद्राणी चाम्बिकातथा
क्षमा धात्री तथा स्वाहा स्वधापर्णा महो-दरी ।घोररूपा महाकाली भद्रकाली भयङ्करी
क्षेमङ्करी चोग्रचण्डा चण्डोग्रा चण्डनायिका ।चण्डा चण्डवती चण्डी महामोहा प्रियङ्करी
बलविकरिणी देवी बलप्रमथिनी तथा ।मनोन्मथिनी देवी सर्व्वभूतस्य दामिनी
उमा तारा महानिद्रा विजया जया तथा ।पूर्व्वोक्ताः शैलपुत्त्र्याद्या योगिन्यष्टौ याःक्रमात्
ताभिराभिश्च सहिताश्चतुःषष्टीश्च योगिनीः ।पूजयेन्मण्डलस्यान्तः सर्व्वकामार्थसिद्धये
”इति कालिकापुराणे ६२ अध्यायः
*
अष्टयोगिन्यो यथा, --“ततोऽष्टपत्रेष्वब्जस्य पूजयेदष्टयोगिनीः
शैलपुत्त्रीं चण्डघण्टां स्कन्दमातरमेव ।कालरात्रिञ्च पूर्व्वादिचतुर्दिक्षु प्रपूजयेत्
चण्डिकामथ कुष्माण्डीं तथा कात्यायनीं शुभाम् ।महागौरीं चाग्निकोणे नैऋत्यादिषु पूजयेत्
”इति तत्रैव ५३ अध्यायः
*
तिथिविशेषे दिग्विशेषावस्थितयोगिन्यो यथा, --“ब्रह्माणी संस्थिता पूर्व्वे प्रतिपन्नवमीतिथौ ।माहेश्वरी चोत्तरे द्बितीयादशमीतिथौ
स्थिताग्नेये कौमारी तृतीयैकादशीतिथौ ।नारायणी नैरृत्ये चतुर्थीद्बादशीतिथौ
पञ्चम्याञ्च त्रयोदश्यां वाराही दक्षिणे तथा ।षष्ठ्याञ्चैव चतुर्द्दश्यामिन्द्राणी पश्चिमे स्थिता
सप्तम्यां पौर्णमास्याञ्च चामुण्डा वायुगोचरे ।अष्टम्यमावास्ययोश्च महालक्ष्मीशगोचरे
योगिनीसंमुखे नैव गमनादि प्रकारयेत्
”इति गारुडे ५९ अध्यायः
*
अपि ।“प्रतिपन्नवमी पूर्व्वे रामा रुद्राश्च पावके ।शरत्रयोदशी याम्ये वेदा मासाश्च नैरृते
षष्ठी चतुर्द्दशी पश्चात् वायव्यां मुनिपूर्णिमा ।द्बितीया दशमी यक्षे ऐश्यानां चाष्टमी कुहूः
वामे शुभकरी देवी मृत्युदा दक्षिणे स्थिता ।वधबन्धकरी चाग्रे पृष्ठे सर्व्वार्थसाधनी
”इति ज्योतिस्तत्त्वम्
*
तत्कालयोगिनी यथा, --“यस्यां दिश्युदयं याति ततो यामार्द्धभुक्तिका ।भ्रमन्ती तेन मार्गेण भवेत्तत्कालयोगिनी
प्राची धनेश्वरहुताशनकौणपेय-वायव्यवारुणयमाधिपशङ्करेषु ।एषु क्रमान्निवसति प्रतिपन्नवम्योःपृष्ठे स्थिता शुभकरी गिरिराजपुत्त्री
”इति समयामृतम्
*
अथ योगिनीसाधनम् भूतडामरे ।“अथातः संप्रवक्ष्यामि योगिनीसाधनोत्तमम् ।सर्व्वार्थसाधनं नाम देहिनां सर्व्वसिद्धिदम्
अतिगुह्या महाविद्या देवानामपि दुर्लभा ।यासामभ्यर्च्चनं कृत्वा यक्षेशोऽभूद्धनाधिपः
तासामाद्यां प्रवक्ष्यामि सुराणां सुन्दरीं प्रिये ।अस्या अभ्यर्च्चनेनैव राजत्वं लभते नरः
अथ प्रातः समुत्थाय कृत्वा स्नानादिकं शुभम् ।प्रासादञ्च समासाद्य कुर्य्यादाचमनं ततः
प्राणवान्ते सहस्रारे हूँं फट् दिग्बन्धनं चरेत्
प्राणायामं ततः कुर्य्यात् मूलमन्त्रेण मन्त्रवित् ।षडङ्गं मायया कुर्य्यात् पद्ममष्टदलं लिखेत्
तस्मिन् पद्मे महामन्त्रं जीवन्यासं समाचरेत् ।पीठे देवीं समावाह्य ध्यायेद्देवीं जगत्प्रियाम्
पूर्णचन्द्रनिभां गौरीं विचित्राम्बरधारिणीम् ।पीनोत्तुङ्गकुचां रामां सर्व्वेषामभयप्रदाम्
इति ध्यात्वा मूलेन दद्यात् पाद्यादिकं शुभम् ।पुनर्धूपं निवेद्यैव नैवेद्यं मूलमन्त्रतः ।गन्धचन्दनताम्बूलं सकर्पूरं सुशोभनम्
प्रणवान्ते भुवनेशी आगच्छ सुरसुन्दरि ! ।वह्नेर्भार्य्या जपेन्मन्त्रं त्रिसन्ध्यञ्च दिने दिने
सहस्रैकप्रमाणेन ध्यात्वा देवीं सदा बुधः ।मासान्ते व्याप्य दिवसं वलिपूजां सुशोभनाम्
कृत्वा प्रजपेन्मन्त्रं निशीथे याति सुन्दरी ।सुदृढं साधकं मत्वा याति सा साधकालये
सुप्रसन्ना साधकाग्रे सदा स्मेरमुखी ततः ।दृष्ट्वा देवीं साधकेन्द्रो दद्यात् पाद्यादिकं शुभम्
सुचन्दनं मुमनसो ज्ञात्वाभिलषितं वदेत् ।मातरं भगिनीं वापि भार्य्यां वा भक्तिभावतः
यदि माता तदा वित्तं द्रव्यञ्च मुमनोहरम् ।भूपतित्वं प्रार्थितं यत्तद्ददाति दिने दिने ।पुत्त्रवत् पाति तं लोके सत्यं सत्यं सुनिश्चितम्
स्वसा ददाति द्रव्यञ्च दिव्यवस्त्रं तथैव ।दिव्यां कन्यां समानीय नागकन्यां दिने दिने
यद्यद्भवति भूतञ्च भविष्यतीति यत् पुनः ।तत् सर्व्वं साधकेन्द्राय निवेदयति निश्चितम्
यत् यत् प्रार्थयते सर्व्वं ददाति सा दिने दिने ।भ्रातृवत् पाति तं लोके कामनाभिर्मनीगतैः
भार्य्या स्याद्यदि सा देवी साधकस्य मनोहरा ।राजेन्द्रः सर्व्वराजानां संसारे साधकोत्तमः
स्वर्गे मर्त्ये पाताले गतिः सर्व्वत्र निश्चितम् ।यद्यद्ददाति सा देवी कथितुं नैव शक्यते
तया सार्द्धञ्च संभोगं करोति साधकोत्तमः ।अन्यस्त्रीगमनं त्यक्त्वा अन्यथा नश्यति ध्रुवम्
*
ततोऽन्यत् साधनं वक्ष्ये निर्म्मितं ब्रह्मणा पुरा ।नदीतीरं समासाद्य कुर्य्यात् स्नानादिकं ततः
पूर्व्ववत् सकलं कार्य्यं चन्दनैर्मण्डलं लिखेत् ।स्वमन्त्रं तत्र संलिख्यावाह्य ध्यायेन्मनोहराम्
कुरङ्गनेत्रां शरदिन्दुवक्त्रांविम्बाधरां चन्दनगन्धलिप्ताम् ।चीनांशुकां पीनकुचां मनोज्ञांश्यामां सदा कामदुघां विचित्राम्
एवं ध्यात्वा जपेद्देवीमगुरुधूपदीपकैः ।गन्धं पुष्परसञ्चैव ताम्बुलादींश्च मूलतः
तारं माया गच्छ मनोहरे पावकवल्लभा ।कृत्वायुतं प्रतिदिनं जपेन्मन्त्रं प्रसन्नधीः
मासान्ते व्याप्य दिवसं कुर्य्याच्च जपमुत्तमम् ।आनिशीथं जपेन्मन्त्रं ज्ञात्वा साधकं दृढम्
गत्वा साधकाभ्यासे सुप्रसन्ना मनोहरा ।ततोऽर्च्चिता प्रसन्ना सा पुष्णाति प्रार्थिञ्च यत्
स्वर्णशतं साधकाय ददाति सा दिने दिने ।सावशेषं व्ययं कुर्य्यात् स्थिते तत्तु दास्यति
अन्यस्त्रीगमनं तस्य भवेत् सत्यमीरितम् ।अव्याहतगतिस्तस्य भवतीति संशयः
इयं ते कथिता विद्या सुगोप्या या सुरासुरैः ।तव स्नेहेन भक्त्या वक्ष्येऽहं परमेश्वरि !
ततोऽन्यत् साधनं वक्ष्ये शृणुष्वैकमनाः प्रिये ।गत्वा वटतलं देवीं पृजयेत् साधकोत्तमः
प्राणायामं षडङ्गञ्च माययाथ समाचरेत् ।सद्योमांसं वलिं दत्त्वा पूजयेत्तां समाहितः
अर्घ्यमुच्छिष्टरक्तेन दद्यात्तस्यै दिने दिने ।प्रचण्डवदनां गौरीं पक्वविम्बाधरां प्रिये
रक्ताम्बरधरां बालां सर्व्वकामप्रदां शुभाम् ।एवं ध्यात्वा जपेन्मन्त्रमयुतं साधकोत्तमः
सप्तदिनं समभ्यर्च्च्य चाष्टमे विधिवच्चरेत् ।कायेन मनसा वाचा पूजयेच्च दिने दिने
तारं माया तथा कूर्च्चं रक्ष कर्म्मणि तद्बहिः ।आगच्छ कनकान्ते तु वतिः स्वाहा महामनुः ।आनिशीथं जपेन्मन्त्रं बलिं दत्त्वा मनोहरम्
साधकेन्द्रं दृढं मत्वा आयाति साधकालये ।साधकेन्द्रोऽपि तां दृष्ट्वा दद्यादर्घ्यादिकं ततः
ततः सपरिवारेण भार्य्या स्यात् कामभोजनैः ।वस्त्रभूषादिकं त्यक्त्वा याति सा निजमन्दिरम्
एवंभार्य्या भवेन्नित्यं साधकाज्ञानुरूपतः ।आत्मभार्य्यां परित्यज्य भजेत्ताञ्च विचेक्षणः
ततः कामेश्वरीं वक्ष्ये सर्व्वकामफलप्रदाम् ।प्रणवं भुवनेशानी चागच्छ कामेश्वरि ततः
वह्नेर्भार्य्या महामन्त्रं साधकानां सुखावहम् ।पूर्व्ववत् सकलं कृत्वा भूर्जपत्रे सुशोभने
गोरोचनाभिः प्रतिमां विनिर्म्माय स्वलङ्कृताम् ।शय्यामारुह्य प्रजपेन्मन्त्रमेकमनास्ततः
सहस्रैकप्रमाणेन मासमेकं जपेद्बुधः ।घृतेन मधुना दीपं दद्याच्च सुसमाहितः
कामेश्वरीं शशाङ्कास्यां चलत्खञ्जनलोचनाम् ।सदा लोलगतिं कान्तां कुसुमास्त्रशिलीमुखीम्
एवं ध्यात्वा जपेन्मन्त्रं निशीथे याति सा तदा ।दृष्ट्वा तु साधकः श्रेष्ठामाज्ञां देहीति तां वदेत्
स्त्रीभावेन मुदा तस्यै दद्यात् पाद्यादिकं ततः ।सुप्रसन्ना तदा देवी साधकं तोषयेत् सदा
अन्नाद्यैरतिभोगेन पतिवत् पालयेत् सदा ।नीत्वा रात्रौ सुखैश्वर्य्यैर्दत्त्वा विपुलं धनम्
वस्त्रालङ्कारद्रव्यावीन् प्रभाते याति निश्चितम् ।एवं प्रतिदिनं तस्य सिद्धिः स्यात् कामरूपतः
ततः पटे विनिर्म्म पुत्तलिं ध्यानरूपतः ।सुवर्णवर्णां गौराङ्गीं सर्व्वालङ्कारभूषिताम्
नूपुराङ्गदहाराढ्यां रम्याञ्च पुष्करेक्षणाम् ।एवं ध्यात्वा जपेन्मन्त्रं दत्त्वा पाद्यमुत्तमम्
सचन्दनेन पुष्पेण जातीपुष्पेण यत्नतः ।गुग्गुलुं धूपदीपौ दद्यान्मूलेन साधकः
मन्त्रस्तु ।तारं मायां तथागच्छ रतिसुन्दरिपदं ततः ।वह्निजाया चाष्टसहस्रं जपेन्मन्त्रं दिने दिने
मासान्ते दिवसं प्राप्य कुर्य्यात् पूजादिकं शुभम् ।घृतदीपं तथा गन्धं पुष्पं ताम्बूलमेव
तावन्मन्त्रं जपेद्विद्वान् यावदायाति सुन्दरी ।ज्ञात्वा दृढं साधकेन्द्रं निशीथे याति निश्चितम्
ततस्तामर्च्चयेद्भक्त्या जातीकुसुममालया ।सुसन्तुष्टा साधकेन्द्रं तोषयेद्रतिभोजनैः
भूत्वा भार्य्या सा तस्मै ददाति वाञ्छितं वरम् ।भूषादिकं परित्यज्य प्रभाते याति सा ध्रुवम्
साध्यकाज्ञानुरूपेण प्रयाति सा दिने दिने ।निर्ज्जने प्रान्तरे देवि ! सिद्धिः स्यान्नात्र संशयः
त्यक्त्वा भार्य्यां भजेत्ताञ्च अन्यथा नश्यति ध्रुवम्
ततोऽन्यत् साधनं वक्ष्ये स्वगृहे शिवसन्निधौ ।वेदाद्यं भुवनेशीञ्चागच्छ पद्मिनि वल्लभा
पावकस्य महामन्त्रं पूर्व्ववत् सकलं ततः ।मण्डलं चन्दनैः कृत्वा मूलमन्त्रं लिखेत्ततः
पद्माननां श्यामवर्णां पीनोत्तुङ्गपयोधराम् ।कोमलाङ्गीं स्मेरमुखीं रक्तोत्पलदलेक्षणाम्
एवं ध्यात्वा जपेन्मन्त्रं सहस्रञ्च दिने दिने ।मासान्ते पूर्णिमां प्राप्य विधिवत् पूजयेत् सदा
आनिशीथं जपेन्मन्त्रं दृढाभ्यासेन साधकः ।सर्व्वत्र कुशलं ज्ञात्वा सा याति साधकालयम्
भूत्वा भार्य्या साधकं हि साधयेद्विविधैरपि ।भोगैर्दिर्व्यैर्भूषणाद्यैः पद्मिनी सा दिने दिने
पतिवत् पाति तं लोके नित्यं स्वर्गे सर्व्वदा ।त्यक्त्वा भार्य्यां भजेत् ताञ्च साधकेन्द्रः सदा प्रिये
ततो वक्ष्ये महाविद्यां विश्वामित्रेण धीमता ।ज्ञात्वा दृढं साधिता विद्या बला चातिबला प्रिये
मन्त्रस्तु ।प्रणवान्ते महामाया नटिनि पावकप्रिया ।महाविद्येह कथिता गोपनीया प्रयत्नतः
अशोकस्य तलं गत्वा स्नानं पूर्व्ववदाचरेत् ।मूलमन्त्रेण सकलं कुर्य्याच्च सुसमाहितः
त्रैलोक्यमोहिनीं गौरीं विचित्राम्बरधारिणीम् ।विचित्रालङ्कृतां रम्यां नर्त्तकीवेशंधारिणीम्
एवं ध्यात्वा जपेन्मन्त्रं सहस्रञ्च दिने दिने ।मांसोपहारैः संपूज्य धूपं दीपं निवेदयेत्
गन्धचन्दनताम्बूलं दद्यात्तस्यै मुदा बुधः ।मासमेकञ्च तां भक्त्या पूजयेत् साधकोत्तमः
मासान्ते दिवसं प्राप्य कुर्य्याच्च पूजनं महत् ।अर्द्धरात्रौ भयं दत्त्वा किञ्चित् साधकसत्तमे ।सुदृढं साधकं मत्वा याति सा साधकालयम्
विद्याभिः सकलाभिश्च किञ्चित्स्मेरमुखी ततः ।वरं वरय शीघ्रं त्वं यत्ते मनसि वर्त्तते
तत् श्रुत्वा साधकश्रेष्ठो भावयेन्मनसा धिया ।मातरं भगिनीं वापि भार्य्यां वा प्रीतिभावतः ।कृत्वा सन्तोषयेद्भक्त्या नटिनी तत् करोत्यलम्
माता स्याद्यदि सा देवी पुत्त्रवत् पातितं मुदा ।स्वर्णशतं सिद्धिद्रव्यं ददाति सा दिने दिने
भगिनी यदि सा कन्यां देवस्य नागकन्यकाम् ।राजकन्यां समानीय ददाति सा दिने दिने ।अतीतानागतां वार्त्तां सर्व्वां जानाति साधकः
भार्य्या स्यात् यदि सा देवी ददाति विपुलं धनम् ।अन्नाद्यैरुपचारैश्च ददाति कामभोजनम्
स्वर्णशतं सदा तस्मै ददाति सा ध्रुवं प्रिये ।यत् यत् वाञ्छति तत् सर्व्वं ददाति नात्र संशयः
७महाविद्यां प्रवक्ष्यामि सावधानावधारय ।कुङ्कुमेन समालिख्य भूर्ज्जपत्रे स्त्रियं मुदा
ततोऽष्टदलमालिख्य कुर्य्यान्न्यासादिकं प्रिये ।जीवन्यासादिकं कृत्वा ध्यायेत् तत्र प्रसन्नधीः
शुद्धस्फटिकसङ्काशां नानारत्नविभूषिताम् ।मञ्जीरहारकेयूररत्नकुण्डलमण्डिताम् ।एवं ध्यात्वा जपेन्मन्त्रं सहस्रन्तु दिने दिने
प्रतिपद्दिनमारभ्य पूजयेत् कुसुमादिभिः ।धूपदीपविधानैश्च त्रिसन्ध्यं पूजयेन्मुदा
पूर्णिमां प्राप्य गन्धाद्यैः पूजयेत् साधकोत्तमः ।घृतदीपं तथा धूपं नैवेद्यञ्च मनोरमम्
रात्रौ दिवसे जप्यं कुर्य्याच्च सुसमाहितः ।प्रभातसमये याति साधकस्यान्तिकं ध्रुवम्
प्रसन्नवदना भूत्वा तोषयेद्रतिभोजनैः ।देवदानवगन्धर्व्वविद्याधृग्यक्षरक्षसाम्
कन्याभी रत्नभूषाभिः साधकेन्द्रं मुहुर्मुहुः ।चर्व्यं चोष्यादिकं द्रव्यं दिव्यं ददाति सा ध्रुवम्
स्वर्गे मर्त्ये पाताले यद्बस्तु विद्यते प्रिये ।आनीय दीयते सत्यं साधकाज्ञानुरूपतः
स्वर्णशतं सदा तस्मै ददाति सा दिने दिने ।साधकाय वरं दत्त्वा याति सा निजमन्दिरम्
तस्या वरप्रसादेन चिरजीवी निरामयः ।सर्व्वज्ञः सुन्दरः श्रीमान् सर्व्वगो भवति ध्रुवम् ।रेमे सार्द्धं तया देवि साधकेन्द्रो दिने दिने
मन्त्रस्तु ।तारं मायां तथागच्छानुरागिणि मैथुनप्रिये ।वह्निभार्य्या मनुः प्रोक्तः सर्व्वसिद्धिप्रदायकः
एषा मधुमती तु स्यात् सर्व्वसिद्धिप्रदा प्रिये ।गुह्यात् गुह्यतरा विद्या तव स्नेहात प्रकी-र्त्तिता
देव्युवाच ।श्रुतञ्च साधनं पुण्यं यक्षिणीनां सुखप्रदम् ।यस्मिन् काले प्रकर्त्तव्यं विधिना केन वा प्रभो ।अत्राधिकारिणः के वा समासेन वदस्व मे
ईश्वर उवाच ।वसन्ते साधयेद्धीमान् हविष्याशी जितेन्द्रियः ।सदा ध्यानपरो भूत्वा तद्दर्शनमहोत्सुकः
उज्जटे प्रान्तरे वापि कामरूपे विशेषतः ।स्थानेष्वेकतमं प्राप्य साधयेत् सुसमाहितः ।अनेन विधिना साक्षात् भविष्यति संशयः
देव्याश्च सेवकाः सर्व्वे परं चात्राधिकारिणः ।तारकब्रह्मणो भृत्यं विनाप्यत्राधिकारिणः
”इति तन्त्रसारे योगिनीसाधनप्रकरणं समाप्तम्
दशविधदशान्तर्गतदशाविशेषः यथा, --“स्वनक्षत्रं ध्रुवं कृत्वा पञ्च तत्र विमिश्रयेत् ।मङ्गलेन हृतः शेषो मङ्गलादिविनिश्चयः
मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा ।उल्का सिद्धा सङ्कटा योगिन्यष्टौ प्रकीर्त्तिताः
अब्दैकं मङ्गला धत्ते शेषास्त्वेकैकवर्द्धिकाः ।पुनस्त्र्यर्कान्निवर्त्तन्ते चक्रवत् परिवर्त्तनात्
”अपि ।“रोहिण्यादौ त्रिरावृत्त्या मङ्गलादौ यथाक्रमम् ।उल्का सिद्धा सङ्कटा अश्विन्यादित्रये पुनः
”एतासामन्तर्दशा ।“दशावर्षन्तु षट्त्रिंशद्भागं कृत्वा विनिर्द्दिशेत् ।यन्तु यस्या हि यद्बर्षं तत्तद्भागं प्रकीर्त्तितम्
”फलं यथा, --“मङ्गला मङ्गलं धत्तेऽतुलभोगं सुखं तथा ।गोगजाश्वसहस्राणि गृहे तस्य दिने दिने
पिङ्गला विविधं दुःखमन्नचिन्तादिसम्भवम् ।ददाति नाशं शत्रुभ्यो धनधान्यगजादिकम्
धन्या सततं दत्ते सर्व्वत्र विजयादिकम् ।शत्रुभ्यो रक्षते नित्यं मातृवत् परिपालयेत्
भ्रामरी विविधं दुःखमन्तःसम्भ्र मसम्भवम् ।अकस्मात्तस्य दुर्द्दैवं विधिना प्रेरितं भवेत्
भद्रिका विविधान् धत्ते सम्मानादिमनोरथान् ।तुष्टा चेद्भद्रिका नित्यं दुर्ग्रहः सुग्रहायते
उल्का व्याधिकरी प्रोक्ता नित्यं नानाभयप्रदा ।उल्का यदि समायाति सुग्रहो दुर्ग्रहायते
सिद्धा साधयेत् सर्व्वं मन्त्रारम्भधनादिकम् ।यस्य तुष्टा भवेत् सिद्धा लक्ष्मीस्तस्य करे स्थिता
सङ्कटा सङ्कटं दत्ते भुङ्क्ते धान्यधनादिकम् ।सैव भाव्या सदा नित्यं गृही कृष्णः फणी यथा
”इत्युद्बोधचन्द्रिका