| YouTube Channel

योगारूढः (yogArUDhaH)

 
Hindi
Hindi
योग में बुलंद
शब्दकल्पद्रुमः
Sanskrit
योगारूढः, त्रि, (योगं विषयनिवृत्तिं यमादिकं वाआरूढः ।) इन्द्रियभोग्येषु शब्दादिषु तत्साधन-कर्म्मसु चानासक्तः तस्य लक्षणं यथा, --“यदा हि नेन्द्रियार्थेषु कर्म्मस्वनुषज्जते ।सर्व्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते
”इति श्रीभगवद्गीतायाम्
*
“कीदृशोऽयं योगारूढो यस्य शमः कारण-मुच्यते इत्यत्राह यदेति इन्द्रियार्थेषु इन्द्रिय-भोग्येषु शब्दादिषु तत्साधनेषु कर्म्मसु यदानानुषज्जते आसक्तिं करोति तत्र हेतुःआसक्तिमूलभूतान् सर्व्वान् भोगविषयान्कर्म्मविषयांश्च सङ्कल्पान् संन्यसितुं त्यक्तुं शीलंयस्य सः तदा योगारूढ उच्यते ।” इति तट्टी-कायां श्रीधरस्वामी