| YouTube Channel

योगरूढ (yogarUDha)

 
शब्दसागरः
English
योगरूढ
m.
(-ढः) A word which retains only a part of its etymological
meaning
for instance, the word जलज may etymologically mean
any thing produced in water, such as, fish, shell, &c., but its
meaning are restricted to lotus only.
Monier Williams Cologne
English
योग—रूढ
mfn.
having a special as well as etymological and general meaning (said of certain words, e.g. पङ्क-ज means ‘growing in mud’ and ‘a lotus-flower’), Bhāṣāp. , Sch.
Apte Hindi
Hindi
योगरूढ
वि* योगः-रूढ -
"वह शब्द जिसके निर्वचनमूलक अर्थ भी हैं, साथ ही उसका विशेष परंपरागत अर्थ है"
Shabdartha Kaustubha
Kannada
योगरूढ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅವಯವಶಕ್ತಿ ಮತ್ತು ಸಮುದಾಯಶಕ್ತಿಗಳಿಂದ ಅರ್ಥಕೊಡುವ ಶಬ್ದ
निष्पत्तिः - > "अच्" (५-२-१२७)
व्युत्पत्तिः - > योगश्च रूढिश्च योगरूढी तौ स्तः अस्य
विस्तारः - > ಯೋಗ ಮತ್ತು ರೂಢಿಗಳ ಪರಸ್ಪರ ಸಹಕಾರದಿಂದ ಅರ್ಥವನ್ನು ಕೊಡುವ ಪದವು ಯೋಗರೂಢ. पङ्कज ಪದವು पङ्काज्जायते ಎಂಬ ಅವಯವ ಶಕ್ತಿಯಿಂದಲೂ ಪಂಕದಿಂದಲೇ ಹುಟ್ಟುವುದೆಂಬ ರೂಢಿಯಿಂದಲೂ ಕಮಲ ರೂಪವಾದ ಅರ್ಥವನ್ನು ಬೋಧಿಸುವುದರಿಂದ पङ्कज ಪದವು ಯೋಗರೂಢ.
L R Vaidya
English
yoga-rUQa {% m. %} a word which retains only a part of its etymological meaning
(the word पंकज, for instance, may etymologically mean ‘anything produced in mud, but its meanings are restricted to only some of the thing so produced).
Abhyankara Grammar
English
योगरूढ a word that can be derived, but is always used in a specific sense, the derivative sense which is wider being limited: e.g. पङ्कजम्.
शब्दकल्पद्रुमः
Sanskrit
योगरूढः,
पुं,
(योगार्थप्रतिपादको रूढः ।)योगार्थसहभावेन रूढ्यर्थबोधकशब्दः यथा, “योगरूढाश्च रूढाश्च यौगिकाश्चेति ते त्रिधा
”“ते शब्दाः पुनस्त्रिधा भवन्ति योगरूढाःपङ्कजादयः पङ्कजनिडप्रत्ययैः पङ्कजनिकर्त्रभि-धाय केन योगेनापि पदार्थ एव प्रतिपाद्यतेन कुमुमाद्यर्थ इति योगार्थपुरस्कारेणापिरूढ्यर्थ एवेति योगरूढः एवं ईश्वरसङ्केत-महिम्ना झटिति पद्मस्यैव स्मृतेः ।” इत्यलङ्कार-कौस्तुभे किरणः
(“योगरूढं नाम लक्षयति ।‘स्वान्तर्निविष्टशब्दार्थस्वार्थयोर्बोधकृम्मिथः ।योगरूढं यत्रैकं विनान्यस्यास्ति शाब्दधीः
’यन्नाम स्वावयववृत्तिलभ्यार्थेन ममं स्वार्थस्या-न्वयबोधकृत् तन्नाम योगरूढं यथा पङ्कजकृष्ण-सर्पाधर्म्मादि तद्धि शान्तर्निविष्टानां पङ्कादि-शब्दानां वृत्तिलभ्येन पङ्कजनिकर्त्रादिना समंस्वशक्यस्य पद्मादेरन्वयानुभावकं पङ्कजमित्या-दितः पङ्कजनिकर्तृ पद्ममित्यनुभवस्य सर्व्वसिद्ध-त्वात् इयांस्तु विशेषो यद्रूढमपि मण्डपरथ-कारादिपदं योगार्थविनाकृतस्य रूढ्यर्थस्येवरूढ्यर्थविनाकृतस्यापि योगार्थस्य बोधकं मण्डपेशेते इत्यादौ योगार्थस्य मण्डपानकर्त्रादेरिवमण्डपं भोजयेदित्यादौ समुदितार्थस्य गृहादेर-योग्यत्वेनान्वयाबोधात् योगरूढन्तु पङ्कजादि-पदमवयववृत्त्या रूढ्यर्थमेव समुदायशक्त्याचावयवलभ्यार्थमेवानुभावयति नत्वन्यं व्युत्पत्ति-वैचित्र्यात्तथैव साकाङ्क्षत्वात् अतएव पङ्कजंकुनुदमित्यत्र पङ्कजनिकर्तृत्वेन भूमौ पङ्कज-मुत्पन्नमित्यादौ पद्मत्वेन पङ्कजपदस्य लक्षण-यैव कुमुदस्थलपद्मयोर्बोध इति वार्त्तिकम् ननुपुष्पं पङ्कजेत्यादौ पङ्कजादेरन्वयस्याबोधात्बोधाच्च पङ्कजपुष्पमित्यादौ निर्विभक्तिकेन पङ्क-जादिपदेनोपस्थाप्यार्थस्यान्वयधीसामान्यं प्रत्येवतादृशपङ्कजादिपदोत्तरशब्दोपस्थाप्यत्वं तन्त्रम्एवं पुष्पं पङ्कजमित्यादौ अन्वयबोधदर्शनात्तदनु-रोधेन सविभक्तिकपङ्कजादिपदोपस्थाप्यार्थान्वय-बोधं प्रति स्वसमानविभक्तिकपदोपस्थाप्यत्वञ्चअतस्तदुपस्थापितस्य पङ्कजातादेः कथं पदा-न्तरानुपस्थापितं पद्मादावन्वय इति चेदपङ्कज-वृत्तिः सत्तेत्यादौ व्यभिचारादुक्तव्युत्पत्तेः‘स्खलदक्षरसंशीभि तरुण्यामुखपङ्कजम् ।’इत्यादौ सङ्गोचेनेनि गृहाण नच धेनुपदस्यधानकर्म्मत्वविशिष्टायां गवीवपङ्कजादिपदस्यापिपङ्कजातत्वादिविशिष्टपद्मादौ रूढिरेवास्तु नतुयोगरूढिरिति साम्प्रतं अन्यत्र कॢप्तशक्तिभ्यःपङ्कजन्यादिपदेभ्य एवाकाङ्क्षादिसाचिव्येन पङ्कज-निकर्तृ त्वादेर्लाभसम्भवे तद्बिशिष्टस्य पद्मस्यगुरोः समुदायाशक्यत्वादनन्यलभ्यस्यैव शब्दार्थ-त्वात् यद्यपि कर्तृवाचकडप्रत्यये एव पद्मत्व-विशिष्टस्य लक्षणया लाभसम्भवान्न पङ्कज-भागस्य तत्र शक्तिरुचिता प्रकारान्तरालभ्यस्यैवशब्दशक्यत्वमित्युक्तत्वात् कृतिवर्त्तमानत्वयोरि-वैकपदार्थयोरपि कर्तृपद्मयोर्मिथोऽन्वयस्यसम्भवित्वात् तथाप्यवयवानां शक्तेरग्रहे ग्रहेऽपिवा पद्मादौ तदर्थस्यान्वयधीविरोधिधीदशायांपङ्कजमस्तीत्यादितः पद्ममस्तीत्याद्यनुभवार्थ-मवश्यं पद्मत्वादिविशिष्टे पङ्कजादिभागस्यरूढिरुपेया इतरथा प्रकृत्यर्थावच्छिन्नस्यैव प्रत्य-यार्थस्य पदार्थान्तरेणान्वयस्य व्युत्पन्नतया डप्रत्ययोपस्थापितस्यापि पद्मस्यास्तित्वादिना सहा-न्वयानुपपत्तेः अतएव ङ्कजादिपदागृहीत-शक्तिकस्य पुंसः पङ्कजमस्तीत्यादितो जात्वपिकर्त्तास्तीत्याकारको नान्वयबोधः प्रत्ययमात्रोप-स्थाप्यस्य कर्त्तुरन्यत्रान्वये निराकाङ्क्षत्वादितिवक्ष्यते किञ्चैवमेकाक्षरकोषावधृतशक्तिकानांकखादिप्रत्येकवर्णानामेव निरूढलक्षणया तत्त-दर्थानुभावकत्वसम्भवाद्बकनखादिसमुदायस्यापितत्तदर्थे शक्तिर्व्विलीयेत कादिप्रत्येकवर्णस्य शक्ति-ग्रहं विनापि वकादिशब्दाद्वकादेरनुभवार्थं तत्रसमुदाये शक्तिरिति तु प्रकृतेऽपि समानं डादि-प्रत्ययमात्रस्य पद्मादौ वृत्तिमत्त्वग्रहेऽपि पङ्क-जादिसमुदायात् पद्मादेरनुभवस्य सर्व्वसिद्ध-त्वात् नचैवं चित्रगुरित्यादावपि चित्रगोस्वा-म्यादौ समुदायस्य शक्तिप्रसङ्गः समासत्वस्या-विशिष्टत्वादिति वाच्यम् अगृहीतावयववृत्तिकस्यपुंसस्ततोऽर्थानधिगमेनावयवानां कृत्तेरवश्या-पेक्षायां तेषामेव तथाविधार्थबोधकत्वौचित्यस्यवक्ष्यमाणत्वादिति ।पङ्कजादिपदेभ्यः केवलस्यैव योगार्थस्य रूढ्य-र्थस्य वा बोधव्युदासार्थन्तादृशार्थयोर्मिथःसाकाङ्क्षत्वनियमो कल्प्यते परन्तु रूढ्यर्थभिन्नेयोगार्थस्य बोधं प्रति रूढिधियः प्रतिबन्धकत्वंतेन रूढेरप्रतिसन्घानदशायामवयवशक्त्यैवपङ्कजं कुमुदमित्यादौ पङ्कजनिकर्तृत्वादिनाकैरवादेरवगमस्तथावयवशक्तेरनुपस्थितौ समु-दायशक्त्यैव भूमौ पङ्कजमुत्पन्नमित्यादौ पङ्कत्व-प्रकारेण स्थलपद्मादेरतएव तैलपदं योगेनतिलप्रभवं रूढ्या विलक्षणद्रव्यपर्य्यवसितं स्नेहंबोधयेद्योगरूढमपि तैलं पत्रमित्यादौ सर्षपस्यतैलमित्यादौ शक्त्यैव प्रत्येकस्य बोधकमितिमीमांसकानान्मत्मुपन्यस्यति ।‘रूढ्यर्थभिन्ने योगार्थबुद्धौ रूढेर्विरोधिताम् ।वदन्ति केचिदेकैकबुद्धिस्तैः क्वचिदिष्यते
’क्वचित्समुदायावयवयोरेकमात्रस्य शक्तिप्रति-सन्धानस्थले यद्यपि पद्मान्यधर्म्मिकपङ्कजातत्वा-न्वयधीसामान्यं प्रति पङ्कजपदं पद्मशक्तमित्येवंरूढिज्ञानत्वेन विरोधित्वं तादृशधीसत्त्वेऽपिकर्दमजादिशब्देभ्यस्ताद्रूप्येण कैरवादेरवगमात्नापि पङ्कजपदजन्यतादृशबोधं प्रत्येव तथा विरो-धित्वं रूढिज्ञानदशायामपि समुदायस्य लक्षणयाशक्तिभ्रमेण वा पङ्कजपदात् पङ्कजातत्वेन कुमुद-बोधस्य सर्व्वैरुपगमात् तथाप्यवयवशक्त्या पङ्कज-पदजन्यपद्मान्यधर्म्मिकपङ्कजातत्वान्वयबोधं प्रत्येवरूढिज्ञानत्वेन प्रतिबन्धकत्वम् नच कुमुदएव पद्मत्वेन रूढिभ्रमदशायां ताद्रूप्येण कुमुदस्यबोधो स्याद्बिरोधिन्या रूढिधियः सत्त्वादितिवाच्यं पद्मान्यधर्म्मिकेत्यनेन पद्मत्वानवच्छिन्नविशे-ष्यताकत्वस्योक्तत्वात् पद्मस्येव कुमुदस्यापिसमुदायशक्यत्वधीदशायामवयवशक्त्या पङ्कजातंकुमुदमित्याकारकधीस्वीकारे तु कुमुदादिशक्तत्वज्ञानाजन्यत्वे नापि प्रतिवध्यं विशेषणीयम् नचयत्र तात्पर्य्यादिधीविलम्बादयोग्यताभ्रमादिना-प्रतिवन्धाद्बा रूढ्योपस्थिते पद्मे योगार्थस्यपङ्कजनिकर्त्तुरनन्वयस्तत्रावयवशक्त्या पङ्कजा-तत्वेन कुमुदादिवोधो स्यात् विरोधिनोरूढिज्ञानस्य सत्त्वादिति वाच्यं मीमांसकाना-मिष्टत्वात् ते हि मण्डपं भोजयेत्यादावपिगृहादौ रूढिधीसत्त्वे मण्डपादिपदानामवयव-शक्त्या मण्डपानकर्त्तादेन मन्यन्ते वोधं भ्रमत्वाग्रहानास्कन्दितस्येव रूढ्यर्थगोचरतत्तदयोग्य-ताज्ञानाद्यभावविशिष्टस्यैव रूढिज्ञानस्य विरो-धितायाः सुवचत्वाच्च यदि समुदाय एवपद्मत्वेन पङ्कजनिकर्तृत्वेन शक्तेः प्रमाम्रमाभ्यांपङ्कजातं पद्ममित्याकारको बोधः प्रामाणिक-स्तदानीं पङ्कजनिकर्तृत्वेन कुमुदस्य नान्व-यधीः तदावयवशक्त्येत्यपहाय पङ्कजपदघटक-शब्दशक्त्येति प्रतिबध्यकुक्षौ निक्षेपणीयं तद्घट-कत्वञ्चेह तद्विषयिताव्यापकविषयिताकत्वमात्रंतदवयव इव तत्राप्यविशिष्टम् यत्तु स्वावयव-शक्त्या पङ्कजपदजन्यं पङ्कजकर्त्तृत्वेनान्वयबाधंप्रति पद्मत्वं हेतुस्तत्र कार्य्यस्य विशेष्यत्वं तदव-च्छेदकत्वं वा कारणस्य तु समवायस्तादात्म्यंवा प्रत्यासत्तिरित्येतावतैव योगार्थमर्य्यादयाकुमुदादेर्बोधव्युदाससम्भवात् उक्तक्रमेण प्रति-बन्धकतायां मानाभाव पद्मत्वं पङ्कजप्रयो-गोपाधिरिति प्राचीनप्रवादस्याप्युक्तार्थ एवपर्य्यवसानादिति तत्तुच्छं पद्मागृहीतशक्तिक-स्यापि पुंसः पङ्कजनिकर्तृत्वेनावयवशक्त्या कुमुदस्य बोधानुदयप्रसङ्गात् नचेष्टापत्तिरनुभव-विरोधात् नच रूढिज्ञानकालीनमेव योगार्थस्यबोधं प्रत्युक्तरीत्या पद्मत्वस्य हेतुत्वं तथासति रूढिधीदशायामपि तदसमानकालीनस्यपङ्कजातत्वेन कुमुदबोधस्य सामान्यसामग्री-महिम्रा दुर्व्वारतापत्तेः रूढिज्ञानासमानका-लीनतादृशबोधं प्रति विशेषतो हेत्वन्तरस्या-कॢप्तत्वात् तत्कल्पने चातिगौरवात् यदपिपङ्कजननकर्तृषु पङ्कादिपदानां शक्तिसत्त्वेऽपिपङ्कजपदान्न ताद्रूप्येण बोधः परन्तु पद्मत्वमात्रेणयोगार्थमर्य्यादया पङ्कजातत्वप्रकारकबोधसा-मान्यं प्रत्येव पद्मत्वविशेष्टे रूढिज्ञानस्य लाघ-वेन विरोधित्वात् पद्मान्यधर्म्मिकत्वादेर्गौरवेणप्रतिबध्यकोट्यप्रविष्टत्वादतो योगरूढं नामैवनास्ति युधिष्ठिरादिशब्दादपि रणस्थिरत्वादिकंयोगार्थं परित्यज्यैव वैजात्वादिप्रकारेण कुन्ती-पुत्त्राद्यवगमात् यदुक्तमभियुक्तैः ।या वृत्तिरजहत्स्वार्था सेयमत्रोपपादिता ।जहत्स्वार्था तु तत्रैव यत्र रूढिर्व्विरोधिनी ।पङ्कजं मनसादेवी पद्मनाभो युधिष्ठिरः
इति तदेतद्वैयाकरणमतं पङ्कजमस्तीत्यादितःपङ्कजातं पद्ममस्तीत्याद्यनुभवस्य न्यायमीमां-सादिसकलतन्त्रसिद्धत्वेन गौरवस्य प्रामाणि-कत्वादनादेयमन्यथा अवयवशक्तेरपि प्रतिवध्य-तायामप्रवेशापत्तेर्लाघवे पङ्कजातत्वप्रकारक-शाब्दसामान्यं प्रत्येव रूढिधियः प्रतिबन्धकत्वस्यसुवचत्वात् नन्वेवं द्रव्ये सरसिजमस्तीत्यादितोद्रव्यनिष्ठं सरोजमिव द्रव्याभिन्ने सरसि जातंपद्ममपि प्रतीयेत नामार्थयोरभेदान्वये तन्त्रस्यनाम्नोः समानविभक्तिकत्वस्यानयादिति चेत्सत्यं सविभक्तिकनामार्थस्य नामान्तरार्थान्वयेवृत्तिशब्दैकदेशान्यैनैव समानविभक्तिकनामा-न्तरेण स्मारितत्वस्य तन्त्रतायाः स्वीकार्य्यत्वा-दिति ।यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते ।तेन तेनान्वितः स्वार्थः पदैः समधिगम्यते
इति रूढ्यर्थयोगार्थयोर्युगपदुपस्थितौ तयो-राकाङ्क्षादिसाचिव्यादाहत्यान्वयबुद्धिस्थल एवयोगार्थस्य रूढ्यर्थस्य वा नान्यत्रान्वयो नतुतयोरेव मिथः साकाङ्क्षत्वं अन्यत्र योगार्थस्यबोधने रूढिधियः प्रतिबन्धकत्वं वा प्रमाणा-भावात् एवञ्च यत्र योगरूढिलभ्यार्थयोस्तात्-पर्य्याद्यग्रहाद्बिरोधिसमवधानाद्बा प्रथममन्व-यधीस्तत्र योगार्थमर्य्यादया पङ्कजातत्वेन कुमु-दादेः समुदायशक्त्या पद्मत्वेन स्थलकमलस्यबोधो भवत्येवेति मणिकृन्मतं दर्शयति ।‘रूढ्यर्थेऽन्यत्र या यत्र यदाकाङ्क्षादिनिश्चयः ।तदैव तत्र योगार्थस्यान्वयो मणिकृन्मतः
’समुदायशक्त्युपस्थापिते पदान्तरवृत्त्युपस्थापितेवा यत्र धर्म्मिण्यवान्तरवृत्तिलभ्यार्थस्य यदा-काङ्क्षानिश्चयादिस्तदैव तत्र तथान्वयबोध उत्प-द्यते सम्भूतसामग्रीकत्वात् रूढ्यर्थभिन्ने योगार्थ-स्यान्वयबोधव्युदासाय तु रूढेर्योगापहारिता-प्रवादोरूढ्यर्थमात्रे योगार्थस्यान्वयबोधसामग्री-स्थलाभिप्रायक इति चिन्तामणिकृताम्मतम् ।योगरूढं विभजते ।‘सामासिकं तद्धिताक्तमिति तत् द्बिविधं भवेत् ।योगरूढं कृदन्तस्य समासत्वव्यवस्थितेः
’तत् योगरूढं सामासिकं समासात्मकं कृष्ण-सर्पादि तद्धिताक्तं वासुदेवादि कृदन्तस्यपङ्कजादियोगरूढस्य सामासिक एवान्तर्भावइति नाधिक्यम्
*
)
वाचस्पत्यम्
Sanskrit
योगरूढ
पु०
योगोऽवयवशक्तिः रूढिः समुदायशक्तिः एतेस्तोऽस्य अच् अवयवशक्त्या समुदायशक्त्या अर्थ-बोधके पङ्कजशब्दादौ तत्र हि उभयशक्त्या पङ्कजन्म-कर्तृत्वरूपावयवार्थविशिष्टपद्मत्वविशिष्टस्व बोधः उभ-यार्थबोधनाच्च पङ्कजाते कुमुदादौ स्थलजाते पद्मे नतत्पदप्रयोगप्रसङ्गः