| YouTube Channel

योगराजगुग्गुलु (yogarAjaguggulu)

 
Monier Williams Cologne
English
योग—राज—गुग्गुलु
m.
a partic. med° preparation,
Bhpr.
शब्दकल्पद्रुमः
Sanskrit
योगराजगुग्गुलुः,
पुं,
(योगराजाख्यो गुग्गुलुः ।)वातरोगादीनामौषधविशेषः यथा, --“नागरं पिप्पलीमूलं चर्व्य मूषणचित्रकम् ।भृष्टं हिङ्ग्वजमोदा सर्षपो जीरकद्बयम्
रेणुकेन्द्रयवौ पाठा विडङ्गं गजपिप्पली ।कटुकातिविषा भार्गी वचा मूर्व्वा पत्रकम्
देवदारु कणा कुष्ठं रास्ना मुस्ता सैन्धवम् ।एला त्रिकण्टकः पथ्या धान्यकञ्च विभीतकम्
धात्री त्वगुशीरञ्च यवक्षारोऽखिलान्यपि ।एतानि समभागानि सूक्ष्मचूर्णानि कारयेत्
यावन्त्येतानि चूर्णानि तावदेवात्र गुग्गुलुः ।संमर्द्य सर्पिषा पश्चात् सर्व्वं संमिश्रयेच्च तत्
एकं पिण्डं ततः कुर्य्यात् धारयेत् घृतभाजने ।गुटिकाष्टकमात्रास्तु खादेत्ताश्च यथोचितम्
यथोचितमिति दोषकालानलाद्यपेक्षया
परिभाषा ।आदौ शाणोन्मितं खादेत् ततः कर्षार्द्ध-मात्रकम् ।ततः कर्षमितं खादेत् गुग्गुलुं क्रमतो नरः
दिनानां सप्तके पूर्व्वे गुग्गुलोः शाणमाहरेत् ।द्बितीये कर्षमर्द्धन्तु पूर्णं कर्षं ततः परम्
गुग्गुलुर्योगराजोऽयं महान्मुख्यो रसायनः ।मैथुनाहारपानानां नियमो नात्र विद्यते
सर्व्वान् वातामयान् हन्यात् आमवातमप-स्मृतिम् ।वातरक्तं तथा कुष्ठं तथा दुष्टव्रणानपि
अर्शांसि ग्रहणीरोगं प्लीहगुल्मोदराण्यपि ।आनाहं मन्दमग्निञ्च श्वासं कासमरोचकम्
प्रमेहं नाभिशूलञ्च कृमिं क्षयमुरोग्रहम् ।शुक्रदोषं रजोदोषमुदावर्त्तं भगन्दरम्
*
रास्नादिक्वाथसंयुक्तः सर्व्ववातामयान् हरेत् ।काकोल्यादिश्रितात् पित्तं कफमारखधादिना
दार्व्वीश्रितेन मोहांश्च गोमूत्रेण पाण्डुताम् ।मधुना मेदसो वृद्धिं कुष्ठं निम्बशृतेन
छिन्नाक्वाथेन वातास्रं शोफं मूलकजात्शृतात् ।पाटलाक्वाथसहितो विषं मूष्कसम्भवम्
त्रिफलाक्वाथसंयुक्तो दारुणां नेत्रवेदनाम् ।पुनर्नवादेः क्वाथेन हन्ति सर्व्वोदरानपि
*
अत्र रास्नादिक्वाथो यथा, --रास्ना पुनर्नवा शुण्ठी गुडूच्येरण्डजं शृतम् ।सप्तधातुगते वाते सामे सर्व्वाङ्गगे पिबेत्
इति योगराजो गुग्गुलुः
इति भावप्रकाशः