| YouTube Channel

योगपदकं (yogapadakaM)

 
शब्दकल्पद्रुमः
Sanskrit
योगपदकं,
क्ली,
(योगस्य पदकम् ।) पूजादौधार्य्योत्तरीयविशेषः योगपाटा इति भाषा
यथा, --“त्रिविधं योगपदकमाद्यं व्याघ्राजिनोद्भवम् ।द्बितीयं मृगचर्म्माढ्यं तृतीयं तन्तुनिर्म्मितम् ।चतुर्म्मात्रप्रविस्तारं दैर्घेण यज्ञसूत्रवत्
चतुर्म्मात्रं चतुरङ्गुलमात्रम्
इति वीर-मित्रोदयधृतसिद्धान्तशेखरः