| YouTube Channel

योगपट्टं (yogapaTTaM)

 
शब्दकल्पद्रुमः
Sanskrit
योगपट्टं,
क्ली,
(योगस्य पट्टं वसनविशेषः ।योगार्थं पट्टमिति वा ।) यद्बस्त्रेण पृष्ठजानुबन्धनंभवति तत् यथा, --“पादुके योगपट्टञ्च तर्ज्जन्यां रौप्यधारणम् ।न जीवत्पितृकः कुर्य्यात् ज्येष्ठे भ्रातरिजीवति
”तल्लक्षणं यथा, --“पृष्ठजान्वोः समायोगे वस्त्रं वलयवद्दृढम् ।परिवेष्ट्य यदूर्द्ध्वज्ञुस्तिष्ठेत्तद्योगपट्टकम्
”इति पाद्मे कार्त्तिकर्माहात्म्ये अध्यायः
(योगपदकम् उत्तरीयचिशेषः यथा, याज्ञ-वल्क्यः ।“अभावे घौतवस्त्राणां शाणक्षौमाविकानि ।कुतपो योगपट्टं वा द्विर्व्वासा येन वा भवेत्
”)इत्याह्निकतत्त्वम्
)