| YouTube Channel

योगदानं (yogadAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
योगदानं,
क्ली,
(योगेन दानम् ।) छलेन दानम् ।यथा, --“योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।यत्र वाप्युपधिं पश्येत्तत् सर्व्वं विनिवर्त्तयेत्
”इति मानवे अध्यायः
“योगाधमनेति योगशब्दश्छलवाची छलेन येबन्धकविक्रयदानप्रतिग्रहाः क्रियन्ते तत्त्वतो-ऽन्यत्रापि निःक्षेपादौ यत्र छद्म जानीयात्वस्तुतो निक्षेपादि कृतं तत् सर्व्वं निवर्त्त-येत् ।” इति तट्टीकायां कुल्लूकभट्टः