| YouTube Channel

योगक्षेमं (yogakSemaM)

 
Hindi
Hindi
परिवार कल्याण
शब्दकल्पद्रुमः
Sanskrit
योगक्षेमं,
क्ली,
(योगश्च क्षेमश्च तयोः समाहारः ।)अनागतानयनागतरक्षणे यथा मनुः ।“दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे ।योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात्
”बृहदङ्गिराः ।“अनागतस्य चानेता आगतस्य रक्षकः ।रात्रावपि यदान्योऽस्ति तदा स्वामी दोष-भाक्
”इति प्रायश्चित्ततत्त्वम्
(तथा गीतायाम् २२ ।“अनन्याश्चिन्तयन्तो मां ये जनाः पर्य्युपासते ।तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्
”“योगोऽप्राप्तस्य प्रापणं क्षेमस्तद्रक्षणं तदुभयंवहामि ।” इति शङ्कराचार्य्यः
“योगं धनादि-लाभं क्षेमञ्च तत्पालनं मोक्षं वा तैरप्रार्थित-मपि अहमेव वहामि प्रापयामि ।” इतिश्रीधरस्वामी
योगश्च क्षेमश्च इतीतरेतरद्वन्द्बेपुंलिङ्गद्बिवचनप्रयोगो भवति ।) यथा, --“योगक्षेमकरं कृत्वा सीताया लक्ष्मणं ततः ।मृगस्यानुपदी रामो जगाम गजविक्रमः
”इति भट्टिकाव्ये ५०
“फलपुष्पादेरलब्धस्य साधनं योगः शरीरादे-र्लब्धस्य पालनं क्षेमः ।” इति तट्टीकायांभरतः
“योगक्षेमौ शरीरस्थितिपालने ।”इति तत्रैव जयमङ्गलः