| YouTube Channel

यूषं (yUSaM)

 
शब्दकल्पद्रुमः
Sanskrit
यूषं,
पुं,
क्ली,
(यूष् + कः ।) मुद्गादिक्वाथरसः ।इत्यमरः ३५
यूषोऽन्तःस्थादिः ।चवर्गादिश्चेति मुकुटः इति भरतः
*
अथ मुद्गयूषगुणाः ।“मुद्गयषोऽग्निदो हृद्यः शुद्धानां व्रणिनामपि ।पथ्यो बलाशपित्तघ्नो ज्वरहा कृताकृतः
अस्नेहलवणं सर्व्वमकृतं कटुकैर्विना ।विज्ञेयं लवणस्नेहकटुकैः संस्कृतं कृतम्
तु दाडिममृद्वीकायुक्तः स्याद्रागषाडवः ।रुचिकृल्लघुपाकश्च दोषाणामविरोधकृत्
*
मसूरयूषगुणाः ।“मसूरयूषः संग्राही वृंही स्वादुः प्रमेहजित् ।पित्तश्लेष्मज्वरहरस्तथातीसारनाशनः
*
कुलत्थयूषगुणाः ।“कुलत्थयूषोऽनिलहा शर्कराश्मरिनाशनः ।तूणीप्रतूणीकासार्शोगुल्ममेदःकफापहः
*
अम्लेन सह माषयूषगुणाः ।“अम्लमाषो गुरुर्भेदी वातघ्नो दीपनो मतः
”अथ खडयूषः ।“तक्रं कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः ।सुपक्वं खडयूषोऽयमयं काम्बलिकोऽपरः
*
खडकाम्बलिकयूषगुणाः ।“दध्यम्लो लवणस्नेहतिलमाषविपाचितः
खडकाम्बलिकौ यूषौ ग्राहिवातकफापहौ
”रति राजवल्लभः
*
अपि अथ यूषस्य विधिर्गुणाश्च ।“अष्टादशगुणे नीरे शमीधान्यशृतो रसः ।विरलान्ने घनः किञ्चित् पेषातो यूष उच्यते ।उक्तः एव निर्यूहो रुचिकृच्च विशेषतः
”यूषस्य प्रकारान्तरमाह ।“कल्कद्रव्यपलं शुण्ठीं पिप्पलीञ्चार्द्धकार्षिकीम् ।बारिप्रस्थेन विपचेत्तद्भवो यूष उच्यते
”अयमर्थः यूषान्नं पलमितं तत् कल्कीकृतंशुण्ठी पिप्पली समुदितार्द्धकर्षमिता कल्की-कृता उभयमपि प्रस्थमितेन वारिणा पचेत् ।तद्भवो यूषः ।“यूषो बल्यो लघुः पाके रुच्यः कण्ट्यः कफा-पहः
”अथ मुद्गयूषविधिः वृन्दटीकायां तन्त्रान्तरे ।“मुद्गानां द्बिपलं तोये शृतमर्द्धाढकोन्मिते ।पादस्थं मर्द्दितं पूतं दाडिमस्य पलेन तत्
युक्तं सैन्धवविश्वाह्वधान्यकैः पादकांशिकैः ।कणाजीरकयोश्चूर्णाच्छाणैकेनावचूर्णितम् ।संस्कृतो मुद्गयूषोऽयं पित्तश्लेष्महरो मतः
*
अथ मुद्गयूषगुणाः ।“मुद्गानामुत्तमो यूषो दीपनः शीतलो लघुः ।व्रणोर्द्ध्वयत्रुरुग्दाहकफपित्तज्वरास्नहृत्
*
अथ मुद्गामलकयूषगुणाः ।“मुद्गामलकयूषस्तु भेदी पित्तानिलापहः ।तृड्दाहशमनः शीतो मूर्च्छाश्रममदापहः
”मसूरयूषगुणाः पूर्व्ववत् इति भावप्रकाशः
(तथा ।“कुलत्थयूषो मधुरः कषायःकफं सपित्तं विनिहन्ति शीघ्रम् ।मेहाश्मरी पायुजमेदहन्तासन्दीपनो मूत्रविशोधनश्च
आढक्ययूषं मधुरञ्च शीतंविशेषतो वातनिवारणञ्च ।श्लेष्मापहं पित्तहरं नराणांकृमिं निहन्यादपि दारुणञ्च
शीतलं मधुरं मौद्गं यूषं पित्तविकारजित् ।वातदोषहरं प्रोक्तं ज्वराणां शमनं परम्
मासूरो ग्राहको यूषो वृंही स्वादुः प्रमेह-जित् ।पित्तश्लेष्मज्जरघ्नः स्यात्तथातीसारनाशनः
कषायं कटुकञ्चोष्णं वातघ्नं पुंस्त्वदोषकृत् ।रक्तपित्तं निहन्त्याशु चणानां यूषमुच्यते
घनं सवातं कफकृन्माषयूषं पित्तकृत् ।अम्लं पर्य्युषितं तच्च शस्यते तैलपाचने
अन्यानि चैव शस्तानि कौलत्थान्युषितानि ।मसूरास्त्रिपुठा बल्याः कलायाद्याश्च वर्ज्जिताः
”इति यूषविधिः
*
इति हारिते प्रथमस्थाने नवमेऽध्याये
“ज्ञेयः पथ्यतमश्चापि मुद्गयूषः कृताकृतः ।स तु दाडिममृद्वीकायुक्तः स्याद्रागषाडवः
”“पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ ।पित्तघ्नौ दीपनौ हृद्यौ कृमिकुष्ठज्वरापहौ
श्वासकासप्रतिश्याय प्रसेकारोचकज्वरान् ।हन्ति मूलकयूषस्तु कफमेदोगलामयान्
कुलत्थयूषोऽनिलहा श्वासपीनसनाशनः ।तूणी प्रतूणी कासार्शोगुल्मोदावर्त्तनाशनः
दाडिमामलकैर्यूषो हृद्यः संशमनो लघुः ।प्राणाग्निजननोमूर्च्छामेदोघ्नः पित्तवातजित्
मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः ।यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः
”इति सुश्रुते सूत्रस्थाने ४५ अध्यायः
)