| YouTube Channel

यूका (yUkA)

 
Spoken Sanskrit
English
यूका yUkA
f.
louse
दशन यूका dazana yUkA
f.
biting louse
काय - यूका kAya - yUkA
f.
body louse
वस्त्र-यूका vastra-yUkA
f.
clothes louse [ Pediculus vestimenti, Zool. ]
कर्कट-यूका karkaTa-yUkA
f.
crab louse
मधुकर - यूका madhukara - yUkA
f.
bee louse
Monier Williams Cologne
English
यूका
f.
a louse,
Mn.
Kathās.
Suśr.
&c.
Apte Hindi
Hindi
यूका
स्त्री*
- "यु + कन्, दीर्घः, स्त्रियां टाप्"
जूँ
Shabdartha Kaustubha
Kannada
यूका
पदविभागः - > स्त्रीलिङ्गः
निष्पत्तिः - > स्त्रियां "टाप्" (४-१-४)
प्रयोगाः - > "स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम्"
उल्लेखाः - > मनु० १-४५
L R Vaidya
English
yUkA {% f. %} A louse, M.i.45.
Bopp
Latin
यूका f. id.
Wordnet
Sanskrit
Synonyms:
यूका, केशकीटः
noun
मनुष्याणां केशाम्बराश्रया कीटः।
"नागवल्लीद्रनयलेपनेन मौलौ यूका पतन्ति।"
अभिधानचिन्तामणिः
Sanskrit
--source--
घृतेली पिङ्गकपिशाथोपजिह्वोपदेहिका १२०७
वम्र्युपदीका लिक्षा तु रिक्षा यूका षट्पदी
-wordlist-
घृतेली (स्त्री), पिङ्गकपिशा (स्त्री), उपजिह्वा (स्त्री), उपदेहिका (स्त्री), वम्री (स्त्री), उपदीका (स्त्री), लिक्षा (स्त्री), रिक्षा (स्त्री), यूका (स्त्री), षट्पदी (स्त्री)
शब्दकल्पद्रुमः
Sanskrit
यूका,
स्त्री,
(यूक + स्त्रियां टाप् ।) मत्कुणः ।यूञी इति उकुण इति भाषा तत्पर्य्यायः ।केशकीटः स्वेदजः षट्पदः इतिराजनिर्घण्टः
पाली बालकृमिः इतिजटाधरः
(यथा, मनौ ४५ ।“स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् ।उष्मणश्चोपजायन्ते यच्चान्यत् किञ्चिदीदृशम्
”क्रिमिविशेषः तद्यथा, --“नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः ।तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः
बहुपादाश्च सूक्ष्माश्च यूका लिख्याश्च नामतः ।द्बिधा ते कोठपिडकाः कण्डूगण्डान् प्रकुर्व्वते
”इति माधवकरसंग्रहीतरुग्विनिश्चये क्रिम्यधि-कारे
“क्रिमयो द्विविधाः प्रोक्ता बाह्याभ्यन्तरसम्भवाः ।बाह्या यूकाः प्रसिद्धाः स्युः किञ्चुलूकास्तथा-न्तराः
सप्तधा हि भवेद्बाह्याः षड्धा चान्तःसमुद्भवाः ।तेषां वक्ष्यामि संभूतिं बाह्यानाभ्यन्तरे नृणाम्
रूक्षादति बलात् स्वेदाच्चिन्तया शोचनादपि ।कफधातुसमुद्भूतास्तीक्ष्णा यूका भवन्ति हि
यूकाः कृष्णाः पराः श्वेतास्तृतीयाश्चर्म्मणिस्थिताः ।सूक्ष्मातिविकटा रूक्षाश्चर्म्माभाश्चर्म्मयूकिकाः
चतुर्थी विन्दुकी नाम वर्त्तुला मूत्रसम्भवा ।मत्कुणाद्याश्च पञ्चम्यो वाह्योपद्रवकारिणः
यूका मस्तकसंस्थाने श्वेता वस्त्रनिवासिनी ।चर्म्मयूका नेत्रचर्म्मे सूक्ष्मे रोमणि यष्टिका
”इति हारीते चिकित्सितस्थाने पञ्चमेऽध्याये
यूकानाशकौषधं यथा, कामरत्ने ।“विडङ्गगन्धोत्पलकल्कयोगात्गोमूत्रसिद्धं कटुतैलमेतत् ।अभ्यङ्गयोगेन शिरोरुहाणांयूकादिलीक्षाप्रचयं निहन्ति
गोमूत्रेण बलामूललेपो यूकानिवारणः ।पारदं मर्द्दयेन्निष्ककृष्णधुस्तूरजद्रवैः
नागवल्लीद्रवैर्व्वाथ वस्त्रखण्डं प्रलेपयेत् ।तद्द्वस्त्रं वेष्टयेन्मौलौ धार्य्यं यामत्रयं तथा
यूका पतन्ति निःशेषान्मस्तकान्नात्र संशयः ।द्विनिशानवनीतेन लेपान्मौलौ प्रकण्डुनुत्
नीलोत्पलं तिलं यष्टि सर्षपं नागकेशरम् ।धात्रीफलं समं पिष्ट्वा लेपो यूकाविनाशनः
निशागन्धकगोमूत्रं विडङ्गकटुतैलकम् ।पारदेन समं मर्द्द्यं लेपो यूकानिवारणः
”इति केशस्य यूकादिनिवारणम्
परिमाणभेदः यथा, मार्कण्डेये ४९ ३७ ।“परमाणुः परं सूक्ष्मं त्रसरेणुर्म्महीरजः ।बालाग्रञ्चैव निष्काञ्च यूकां चाथ यवोदरम्
”)