| YouTube Channel

युप (yupa)

 
Wilson
English
युप r. 4th cl. (ईर्) युपीर (युप्यति) To confuse, to perplex.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
युप्
मूलधातुः:
युप
धात्वर्थः:
विमोहने
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
युप्यति
धातुप्रदीपः
Sanskrit
युपँ युप
मानकरूपान्तरम् - रुपँ
रुप
मानकरूपान्तरम् - लुपँ
लुप विमोहने
- युप्यति अयुपत् रुप्यति अरुपत् लुप्यति अलुपत् 128, 130
शब्दकल्पद्रुमः
Sanskrit
युप, इर् विमोहे इति कविकल्पद्रुमः
(दिवा०-पर०-सक०-सेट् ।) विमोह आकुली-करणम् य, युप्यति इर्, अयुपत् अयोपीत् ।पुषादित्वात् इत्यन्ये इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
युप विमोहे दिवा०
पर०
अक० सेट् युप्यति इरित् अयुपत् अयोपीत्
क्षीरतरङ्गिणी
Sanskrit
युपँ युप
मानकरूपान्तरम् - रुपँ
रुप
मानकरूपान्तरम् - लुपँ
लुप विमोहने
- युप्यति, अयुपत् रलोव्युपधाद् (1226) इति युपित्वा योपित्वा, युयुपिषति युयोपिषति रुप्यति, अरुपत् रोपः शरः रूप्यम् लुप्यति, अलुपत् तुदादौ लुप्लृ छेदने (6135)-लुम्पति 123-125
धातुवृत्तिः
Sanskrit
युपँ युप
मानकरूपान्तरम् - रुपँ
रुप
मानकरूपान्तरम् - लुपँ
लुप (अर्थः) विमोहने
युप्यति रुप्यति लुप्यति, ) अनिट्कारिकायां तौदादिकेन लिपिना साहचर्यात्तौदादिकस्य लुप्लृ छेदन इत्यस्यैव ग्रहणादयं सेडेव 128
कृदन्तरूपमाला
Sanskrit
1 {@“युप विमोहने”@} 2 ‘युपु--’ इति 3 धातुकाव्ये 4 पाठः।
5 योपकः-पिका, योपकः-पिका, युयुपिषकः-युयोपिषकः-षिका, योयुपकः- पिका, योपिता-त्री, योपयिता-त्री, युयुपिषिता-युयोपिषिता-त्री, योयुपिता-त्री
इत्यादिकानि सर्वाण्यपि रूपाणि दैवादिककुप्यतिवत् 6 ज्ञेयानि।
7 योप्यम्।
प्रासङ्गिक्यः
01
=>
(१३५५)
02
=>
(४-दिवादिः-१२३५। सक। सेट्। पर।)
03
=>
[[१०। एतत्पक्षे क्त्वायाम्, ‘उदितो वा’ (७-२-५६) इति इड्विकल्पः। इट्पक्षे ‘न क्त्वा सेट्’ (१-२-१८) इत्यमुं योगं परत्वात्, प्रतिपदविधित्वाच्च बाधित्वा, ‘रलो व्युपधात्--’ (६-४-१६) इति कित्त्वविकल्पे युपित्वा--योपित्वा, इति रूपद्वयम्। इडभावपक्षे तु युप्त्वा, इत्यपि रूपम्। वस्तुतस्तु उदित्त्वमस्य प्रामाणिकम्--प्रसिद्धेषु धातुपाठकोशेषु युप इत्येव पाठात्।]]
04
=>
(२-६७)
05
=>
[पृष्ठम्१०८८+ २२]
06
=>
(२२४)
07
=>
[[आ। ‘किञ्चायोप्यविरोपिलोपक वा लोभादिसंक्षोभिता।’ धा। का। २-६७।]]