| YouTube Channel

युधिष्ठिरः (yudhiSThiraH)

 
Apte
English
युधिष्ठिरः [yudhiṣṭhirḥ], 'Firm in battle',
N.
of the eldest Pāṇḍava prince, also called 'Dharma', 'Dharmarāja', 'Ajātaśatru'
&c.
[He was begotten on Kuntī by the god Yama. He is known more for his truthfulness and righteousness than for any military achievements or feats of arms. He was formally crowned emperor of Hastināpura at the conclusion of the great Bhāratī war after eighteen days' severe fighting, and reigned righteously for many years. For further particulars about his life, see दुर्योधन.]
Apte 1890
English
युधिष्ठिरः ‘Firm in battle’, N. of the eldest Pāṇḍava prince, also called ‘Dharma’, ‘Dharmarāja’, ‘Ajātaśatru’ &c. [He was begotten on Kuntī by the god Yama. He is known more for his truthfulness and righteousness than for any military achievements or feats of arms. He was formally crowned emperor of Hastināpura at the conclusion of the great Bhāratī war after eighteen days' severe fighting, and reigned righteously for many years. For further particulars about his life, see दुर्योधन].
Hindi
Hindi
Yudhisthira
Apte Hindi
Hindi
युधिष्ठिरः
पुं*
- "युधि स्थिरः- अलुक् स०, षत्वम्"
‘युद्ध में अडिग’ पांडवों में ज्येष्ठ राजकुमार। इसे ‘धर्म’‘धर्मराज’ और ‘अजातशत्रु’ आदि भी कहते हैं। यह धर्म द्वारा कुन्ती से उत्पन्न हुआ था। सैन्यचातुरी की अपेक्षा यह अपनी सचाई और ईमानदारी के लिए अत्यन्त प्रसिद्ध था। अठारह दिन के महाभारत के पश्चात इसे हस्तिनापुर की राजगद्दी पर सम्राट के रुप में अभिषिक्त किया गया था।उसके पश्चात इसने बहुत दिनों तक धर्मपूर्वक राज्य किया। इसका अधिक विवरण जानने के लिए दे०‘दुर्योधन’।
Wordnet
Sanskrit
Synonyms:
युधिष्ठिरः, अजातशत्रुः, शल्यारिः, धर्मपुत्रः, अजमीढः
noun
पाण्डवेषु ज्येष्ठतमः कुन्तेः धर्माद् जातः पुत्रः च।
"विक्रान्तः सत्यवाक् एव राजा पृथिव्याम् भविष्यति। युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः॥"
शब्दकल्पद्रुमः
Sanskrit
युधिष्ठिरः,
पुं,
(युधि संग्रामे स्थिरः “गवि-युधिभ्यां स्थिरः ।” ९५ इति षत्वम् ।“हलदन्तात् सप्तम्याः संज्ञायाम् ।” ।इति सप्तम्या अलुक् ।) पाण्डवराजः कुन्ती-गर्भे धर्म्माज्जातः तत्पर्य्यायः अजातशत्रुः २शल्यारिः धर्म्मपुत्त्रः अजमीढः इतिहेमचन्द्रः ३७१
(मृगशापाभितप्तःपाण्डुर्निरपत्यतया खिन्नचित्तः पुत्त्रार्थमेकदाधर्म्मपत्नीं कुन्तीमुवाच शुचिस्मिते ! अनपत्योहि शुभलोकार्ह इति विचिन्त्य त्वं मदुपका-रार्थं केनापि पुत्त्रमुत्पादयेति एवमुक्ता कुन्तीदृष्ट्वा पत्युराग्रहातिशयं धार्म्मिकपुत्त्रलाभायदुर्व्वासः प्रदत्तमन्त्रबलेन धर्म्ममाहूय तेन सङ्गतायुधिष्ठिरं पुत्त्रमलभत यदुक्तं महाभारते ।१२३ -- ।“संयुक्ता सा हि धर्म्मेण योगमूर्त्तिधरेण ।लेभे पुत्त्रं वारारोहा सर्व्वप्राणभृतां हितम्
ऐन्द्रे चन्द्रसमायुक्ते मुहूर्त्तेऽभिजितेऽष्टमे ।दिवा मध्यगते सूर्य्ये तिथौ पूर्णेऽतिपूजिते
समृद्धयशसं कुन्ती सुषाव प्रवरं सुतम् ।जातमात्रे सुते तस्मिन् वागुवाचाशरीरिणी
एष धर्म्मभृतां श्रेष्ठो भविष्यति नरोत्तमः
विक्रान्तः सत्यवाक् चैव राजा पृथ्व्यां भविष्यति ।युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः
”अथ गच्छति काले धृतराष्ट्रेण यौवराज्येस्थापितोऽयं दयादाक्षिण्यादिगुणपरम्परयाप्रजासु लब्धकीर्त्तिरनुजैः सह सुखमुवास अथजतुगृहदाहानन्तरं त्यक्तराज्यो द्रुपदराज्य-मभिगम्य द्रौपदीं सानुजः परिणीय पुनःस्वराज्यमागतवान् ततः कृष्णसहायो राज-सूययज्ञकरणाय दुर्जयान् जरासन्धप्रभृति-नृपतीन् हत्वा राजसूयेष्टिं समापयामास ।ततोऽसूयापरवशदुर्य्योधनमतानुसारिणा कैतव-पटुना शकुनिना सह द्यूतं कृत्वा पराजितो-ऽनुजैर्भीमादिभिः पत्न्या द्रौपद्यां सहितोद्बादशवर्षं वनवासाय एकवर्षमज्ञातवासाय चप्रस्थितो द्बैतवनमध्युवास ततो द्वादशवर्षैर्वन-वासजातं महत् कष्टमनुभूय अज्ञातवासार्थंत्रयोदशवर्षंविराटनगरमधिवसन् पुनः कृष्ण-सहायः स्वराज्यप्राप्त्यर्थं महतीं चेष्टां कृतवान् ।कृतेऽपि यत्ने यदा विगुणग्रहो दुर्य्योधनोराज्यादिकं दत्तवान् तदा लब्धसैन्यबलोऽसौकुरुक्षेत्र महत् युद्धं कृत्वा विनाश्य दुर्य्यो-धनादीन् हस्तिनाधिपतिः सम्राट् बभूव ।अथाश्वमेधादिना सुरगणान् परितोष्य षट्-त्रिंशद्बर्षं राज्यसुखमनुभूतवान् ततः प्रभासेविप्रशापात् यदुवंशक्षयमाकर्ण्यातिनिर्व्विण्णःषट्त्रिंशवर्षवयस्कं अर्ज्जुनपौत्त्रं परीक्षितंस्वराज्येऽभिषिच्य उत्तरामार्गेण स्वर्गारोहणंकृतवानिति तथाच देवीभागवते ।१५-१७ ।“देहत्यागं हरेः श्रुत्वा यादवानां क्षयं तथा ।गमनाय मतिं चक्रे राजा हैमाचलं प्रति
षट्त्रिंशद्वार्षिकं राज्ये स्थापयित्वोत्तरासुतम् ।निर्जगाम वनं राजा द्रौपद्या भ्रातृभिः सह
षट्त्रिंशच्चैव वर्षाणि कृत्वा राज्यं गजाह्वये ।गत्वा हिमाचले षट् ते जहुः प्राणान्पृथासुताः
”अस्यान्यद्बिशेषविवरणन्तु महाभारतादौ विस्त-रशो द्रष्टव्यम्
)