| YouTube Channel

युद्धं (yuddhaM)

 
Hindi
Hindi
युद्ध
शब्दकल्पद्रुमः
Sanskrit
युद्धं,
क्ली,
(युध्यते इति युध् + भावे क्तः ।) योध-नम् लडाइ इति भाषा तत्पर्य्यायः आयो-धनम् जन्यम् प्रधनम् प्रविदारणम् मृधम् ६आस्कन्दनम् संख्यम् समीकम् साम्प-रायिकम् १० समरम् ११ अनीकम् १२रणः १३ कलहः १४ विग्रहः १५ संप्रहारः १६अभिसम्पातः १७ कलिः १८ संस्फोटः १९संयुगः २० अभ्यामर्द्दः २१ समाघातः २२संग्रामः २३ अभ्यागमः २४ आहवः २५ समु-दायः २६ संयत् २७ समितिः २८ आजिः २९समित् ३० युत् ३१ इत्यमरः १०३-१०६
संरावः ३२ आनाहः ३३ सम्परायकः ३४विदारः ३५ दारणम् ३६ संवित् ३७ सम्परायः३८ इति शब्दरत्नावली
तीक्ष्णम् ३९अम्बरीषम् ४० बलजम् ४१ आनर्त्तः ४२ अभि-मरः ४३ समुदयः ४४ इति जटाधरः
*
युद्धे वर्णनीयानि यथा चर्म्म वर्म्म बलम् ३चरः धूलिः तूर्य्यस्वनः सिंहनादः ७शवमण्डलम् रक्तनदी छिन्नच्छत्रम् १०रथः ११ चामरः १२ हस्ती १३ अश्वः १४केतुः १५ विदीर्णकुम्भकहस्तिकुम्भमुक्ता १६व्यूहरचनावस्थितसेना १७ सुरपुष्पवृष्टिः १८ ।इति कविकल्पलता
*
अथ युद्धफलम् ।“अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।ब तत् फलमवाप्नोति संग्रामे यदवाप्नुयात्
इति यज्ञविदः प्राहुर्यज्ञकर्म्मविशारदाः ।तस्मात्तत्ते प्रवक्ष्यामि यत् फलं शस्त्रजीविनाम्
”युद्धे मरणफलं यथा, --“धर्म्मलाभोऽर्थलाभश्च यशोलाभस्तथैव ।यः शूरो वध्यते युद्धे विमृदन् परवाहिनीम्
यस्य धर्म्मार्थकामौ यज्ञश्चैव सदक्षिणः ।परं ह्यभिमुखे हत्वा तयोः पन्थाधिरोहति
विष्णोः स्थानमवप्नोति एवं युध्यन् रणाजिरे ।अश्वमेधानवाप्नोति चतुरस्तेन कर्म्मणा
यस्तु शस्त्रं समुत्सृज्य वीर्य्यवान् वाहिनीमुखे ।सम्मुखो वर्त्तते शूरः स्वर्गान्न निवर्त्तते
राजा वा राजपुत्त्रो वा सेनापतिरथापि वा ।हतः क्षत्त्रेण यः शूरस्तस्य लोकोऽक्षयो ध्रुवः
यावन्ति तस्य गात्राणि भिन्दन्ति शस्त्रमाहवे ।तावता लभते लोकान् सर्व्वकामदुहोऽक्षयान्
बीरासनं वीरशय्या वीरस्थानस्थितिः स्थिरा ।गवार्थे ब्राह्मणस्यार्थे गोस्वाम्यर्थे ये हताः ।ते गच्छन्त्यमरस्थानं ये स्युः सुकृतिनस्तथा
अभग्नो यः परं सैन्यं भग्नञ्च परिरक्षति ।पृष्ठस्थितः पालयति सोऽपि गच्छति तद्गतिम्
अनुत्तीर्णस्तथा सद्यः प्राणान् यस्त्यजते युधि ।हतश्च स्वपते युद्धे स्वर्गान्न निवर्त्तते
दंष्ट्रिभिः शृङ्गिभिर्व्वापि तथा म्नेच्छैश्च तस्करैः ।स्वाम्यर्थे ये हता राजंस्तेषां स्वर्गो संशयः
शस्त्राग्निना सुनिर्द्दग्धः स्वगृहे च्युतो यदि ।संग्रामान्म्रियते राजंस्तस्य स्वर्गो संशयः
भयेन लज्जया वापि स्नेहेन रणाजिरे ।सम्मुखो म्रियते राजंस्तदा स्वर्गो संशयः
यन्नु भिन्नीकृतं गात्रं शरशक्त्यृष्टितोमरैः ।देवकन्यास्तु तं वीरं रामयन्ति रमन्ति
वराप्सरःसहस्राणि शूरमायोधने हतम् ।त्वरितान्यभिधावन्ति मम भर्त्ता भवेति
यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः ।अक्षयान् लभते लोकान् यदि क्लीवं भाषते
जितेन लभ्यते लक्ष्मीर्मृतेनापि सुराङ्गनाः ।क्षणविघ्वंसिनि काये का चिन्ता मरणे रणे
हतस्याभिमुखस्थस्य ये लोका निवर्त्तिनः ।हते गोस्वामिविप्रार्थे नरमेधफलं हि तत्
स्थानाभिघाते शरणागते चराज्ञो विपत्तौ द्विजसार्थघाते ।स्त्रीबालवृद्धाजनगोग्रहे चशस्त्रं मुनीनामपि धारणीयम्
यां यज्ञसंघैस्तपसा विप्राःस्वर्गैषिणो यत्र वै प्रयान्ति ।क्षणेन तामेव गतिं प्रयान्तिमहाहवे स्वां तनुं संत्यजन्तः
सर्व्वांश्च वेदान् सुमहद्भिरङ्गैःसांख्यञ्च योगञ्च वने विवासम् ।कृते गुणा एकपदे प्रविष्टामहाहवे स्वां तनुं संत्यजेद्यः
इमां गिरं वेदविदः शुभाक्षरांसुभाषितां वृत्रभिदा दिवौकसाम् ।चमूमुखे यः स्मरते दृढस्मृति-र्न हन्यते हन्ति सोऽपि वैरिणः
सदा पुण्यतमः स्वर्ग्यः सुयज्ञः सर्व्वतो मुखः ।सर्व्वेषामेव वर्णानां क्षत्त्रियस्य विशेषतः
भूयश्चैव तु वक्ष्यामि रणधर्म्मं सनातनम् ।यादृशाय प्रवर्त्तव्यं यादृशं परिवर्जयेत्
आततायिनमायान्तमपि वेदान्तगं द्बिजम् ।जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्
कोदण्डशस्त्रपाणिन्तु प्रहरन्तं द्विजं यदि ।हन्यात्तमासुरं भावं हत्वा ब्रह्महा भवेत्
ब्रह्महा जायते यैस्तु हतैस्तत्त्वं शृणुष्व मे
वचःसंख्ये नृपश्रेष्ठ ! काययज्ञे सनानने ।विरथं विगतं व्यश्वं विवर्णं विमुखस्थितम् ।युद्धोत्साहहतं हत्वा ब्रह्महा जायते नरः
विशस्त्रं विधनुष्कञ्च तं भीतोऽस्मीतिवादिनम् ।वर्णशाखायुतांस्तांस्तु हत्वा ब्रह्महा भवेत्
अन्याहतो हन्तव्यो बालो वृद्धो नपुंसकः ।तवाहं प्रवदन्मूत्रशकृत्कृतोऽथ भीरवः
तस्मादेतान् परिहरेच्छूरो धर्म्मभृतां वरः ।सम्यग्यज्ञफलन्त्वीहन् हत्वासौ ब्रह्महा भवेत्
शक्यन्त्विह समृद्धैस्तु यज्ञैः क्रतुशतैर्नृपाः ।आत्मदेहपरित्यागः कर्त्तं युद्धे सुद्रष्करः
ब्रह्महा शुध्यतेऽशुद्धो देहं त्यक्त्वा रणाजिरे ।न शुद्धी रणभग्नानां ऋते क्वचिन्महापथात्
संग्रामे युध्यतो लक्ष्मीः कीर्त्तिः स्यात् स्वर्गति-स्तथा ।भग्नस्य तेऽपि नश्यन्ति महासत्यान्महारणा्
तस्मात् सत्येन यत्किञ्चित् क्रियते तच्छुभप्रदम् ।यज्ञं दानं व्रतं वापि संग्रामे नृपसत्तम !
”इत्याद्ये वह्निपुराणे संग्रामप्रशंसा
*
अथ युद्धनिर्णयः ।“यत्रायुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः ।तं कालमेकं युद्धस्य प्रवदन्ति मनीषिणः
आत्मोदये विगृह्णीयात् क्षोभो नात्मबले यदि ।व्यसने प्रहर्त्तव्यं शत्रौ तु विपर्य्यये
स्वयं राज्ञा योद्धव्यं येऽपि शस्त्रास्त्रको-विदाः ।मृता युद्धेषु दृश्यन्ते शक्तेभ्यः शक्तिमत्तराः
रथयुद्धं समे देशे विषमे हस्तिसङ्गरः ।अश्वयुद्धं मरौ देशे पत्तियुद्धञ्च दुर्गमे
अत्यये सर्व्वयुद्धं स्यान्नौकायुद्धं जलप्लुते ।संहत्य योधयेदन्यान् कामं विस्तारयेद्बहून्
सूचीमुखमनीकं स्यादल्पं हि बहुभिः सह ।अपि पञ्चाशतः शूरान् निघ्नन्ति परवाहिनीम् ।येऽपि वा पञ्चषट्सप्तसहिताः कृतनिश्चयाः
”अथ युद्धासननिर्णयः ।“अन्यद्बारा विपक्षन्तु विगृह्यासनमुच्यते ।अरिं विगृह्य वा स्थानं विग्रहासनमुच्यते
अरेश्च विजिगीषोश्च विग्रहे हीयमानयोः ।सन्धाय यदवस्थानं सन्धायासनमुच्यते
उदासीने मध्यमे वा समाने प्रतिशङ्कया ।एकीभूय व्यवस्थानं सम्भूयासनमुच्यते
सर्व्वेषां प्रीतिजननं निजराष्ट्रस्य लक्षणम् ।एतत् प्रीत्यासनं नाम सर्व्वासनमहत्तरम्
”अथ द्वन्द्बयुक्तिः ।“राज्ञो बलं नहि बलं द्वन्द्बमेव बलं बलम् ।अप्यल्पबलवान् राजा स्थिरो द्वन्द्बबलाद्भवेत्
”तथा ।“एकः शतं योधयति प्राकारस्थो धनुर्धरः ।शतं दशसहस्राणि तस्माद्दुर्गं विशिष्यते
अकृत्रिमं कृत्रिमञ्च तत् पुनर्द्विविधं भवेत्
यद्दैवमुचितं द्बन्द्बं गिरिनद्यादिसंश्रियम् ।अकृत्रिममियं ज्ञेयं दुर्लङ्घ्यमरिभूभुजाम्
प्राकारपरिखारण्यसंश्रयं यद्भवेदिह ।कृत्रिमं नाम विज्ञेयं लङ्घ्यालङ्घ्यन्तु वैरिणाम्
”अथाकृत्रिमद्वन्द्बयुक्तिः ।“अत्युच्चविस्तीर्णशिरा दुरारोहः सकाननः ।सजलाशयसम्भारभोज्यद्रव्यसमाश्रयः
सुखनिःसरणो द्वन्द्बः पर्व्वताख्यो महीभुजाम् ।नद्यो गभीरविस्तीर्णाश्चतुर्दिक्षु व्यवस्थिताः
तन्मध्ये भूप्रदेशो यो नदीद्वन्द्बः उच्यते ।यद्यन्यच्चिरकालीनं दुर्लङ्घ्यविपिनादिकम् ।तन्मध्यरचिता भूमिर्द्वन्द्बत्वेनोपतिष्ठते ।वनद्वन्द्बमिति ख्यातं यथापूर्व्वं महत्तरम्
”कृत्रिमद्वन्द्बयुक्तिर्यथा, --“यस्मिन्राज्ये गिरिर्नास्ति नद्यो वा गहनोदकाः ।तस्य मध्ये महीपालः कृत्रिमं द्वन्द्बमारभेत्
गजैरलङ्घ्या विस्तीर्णा गम्भीराः पूर्णवारयः ।द्बन्द्वत्वेन समादिष्टाः परिखा बहुयादसः
विशालशालं सुघनं बहुकण्टकि सङ्कटम् ।द्वन्द्वत्वेन समादिष्टं विस्तीर्णं विषमं वनम्
अधोऽधो वध्यमानोऽपि कन्दरोऽल्पजलं स्रवन् ।द्बन्द्बत्वेन समुद्दिष्टः दुर्लङ्घ्यो हि भूभुजाम्
सर्व्वतः परिखां कृत्वा निवन्धोपरि कन्दरम् ।तज्जलप्लुतदेशत्वाज्जलद्वन्द्वं तदुच्यते
एषामभावे निम्नस्य भूप्रदेशस्य बन्धना ।वर्षासूपगते वारि जलद्वन्द्बं ततो भवेत्
एतयोरपि संमिश्रात् संमिश्रं द्वन्द्वमाचरेत् ।आश्रित्य कृत्रिमं द्वन्द्बं बलवद्वैरिणी दिशि
अन्यत्र कृत्रिमं द्वन्द्वं कृत्वा नरपतिर्विशेत् ।रथपतिर्यदा वैरी स्थलद्बन्द्वं तदाचरेत्
गजाश्वनाथश्चेद्बैरी जलद्वन्द्बं तदाचरेत् ।गिरिद्बन्द्वं नृपः सेवेत् यस्य स्याद्द्विविधो रिपुः
सर्व्वं हि त्रिविधं युद्धं समासादुपादिक्ष्यते ।प्रतिराजस्य राज्यान्ते प्रकटे गुप्त एव
राज्यान्ते सैनिकान् रक्षेत् प्रकटे निवसेत् स्वयम् ।गुप्ते स्त्रीकोषसम्भारं संरक्षेदिति निश्चयः
”अथ सामान्यतो गुणाः तथा हि नीति-शास्त्रम् ।“सप्रवेशापसरणं द्वन्द्रमुत्तममुच्यत ।अन्यत्र वन्दिशालेव तादृग्बद्धमाश्रयेत्
धनुर्द्बन्द्बं महीद्वन्द्बं गिरिद्वन्द्बं तथैव ।मनुष्यद्बन्द्वसंसर्गं वनद्बन्द्वञ्च तानि षट्
”अन्ये तु ।“न द्वन्द्वं द्बन्द्वमित्याहुर्योद्धृद्वन्द्वं प्रकीर्त्तितम् ।योद्धृशून्यं हि यद्युद्धं मृतकायसमं हि तत्
”अथान्यत्रापि ।“यावत्प्रमाणं नगरं हि राज्ञांततो भवेदुत्तममध्यमान्त्यम् ।त्रिंशज्जलक्ष्माष्टगुणोत्तरेणत्रिदेशजानां धरणीपतीनाम्
”गर्गस्तु ।“यदन्यद्विविधं द्बन्द्बं प्रोच्यते धरणीभुजाम् ।तेभ्य एवातिरिच्येत मन्त्रद्वन्द्बं विशेषतः
अन्येषु दैवाद्भिन्नेषु मन्त्रद्वन्द्वाज्जयेन्नृपः ।मन्त्रद्बन्द्बे हि भिन्ने हि चान्यत् कार्य्यकारकम्
यदैव वैरिदुर्लङ्घ्यं विस्तीर्णं विषमञ्च तत् ।सप्रवेशापसरणं तद्युद्धमुत्तमं विदुः
”इति युक्तिकल्पतरुः
तद्वैदिकपर्य्यायः रणः विवाक् विखादः ३नदनुः भरे आक्रन्दे आहवे आजौ ८पृतनाज्यम् अभीके १० समीके ११ मम-सत्यम् १२ नेमधिता १३ सङ्काः १४ समितिः १५समनम् १६ मीळ् हे १७ पृतनाः १८ स्पृधः १९मृधः २० पृत्सु २१ समत्सु २२ समर्य्ये २३समरणे २४ समोहे २५ समिथे २६ सङ्खे २७सङ्गे २८ संयुगे २९ सङ्गथे ३० सङ्गमे ३१ वृत्र-तूर्य्ये ३२ पृक्षे ३३ आणौ ३४ शूरसातौ ३५वाजसातौ ३६ समनीके ३७ खले ३८ खजे ३९पौंस्ये ४० महाधने ४१ वाजे ४२ अज्म ४३सद्म ४४ संयत् ४५ संवतः ४६ इति षट्चत्वा-रिंशत् संग्रामनामानि इति वेदनिघण्टौ२ १७