| YouTube Channel

युञ् (yuJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
यु
मूलधातुः:
युञ्
धात्वर्थः:
बन्धने
गणः:
क्र्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
युनाति-युनीते
धातुप्रदीपः
Sanskrit
युञ् ब्रन्धने
- युनाति युनीते युयाव युयुवे योता युयूषति युयूषते निरनुबन्धकस्य यौतेः ''अथो युनुक्ष्णव'' इति (1) सेट एव सनीवन्तर्द्धेत्यत्र (7249) ग्रहणम् 7
क्षीरतरङ्गिणी
Sanskrit
युञ् बन्धने
- युनाति, युनीते योता आदादौ यु मिश्रणे (225)-यौति, यविता चरादौ यु जुगुप्सायाम् (10156)-यावयते 7
धातुवृत्तिः
Sanskrit
युञ् (अर्थः) बन्धने
(युनाति युनीते योता) इत्यादि स्कुनातिवत् ( युयूषति ) इत्यत्र "सनीवन्तर्द्ध''इत्यादौ युग्रहणेन ऊर्णूञ्साहचर्यान्निरनुबन्धकत्वाच्च मिश्रणार्थस्यादादिकस्य ग्रहणादिड्विकल्पो भवति क्र्यादयोऽनुदात्ता उभयतो भाषाः 7
कृदन्तरूपमाला
Sanskrit
1 {@“युञ् बन्धने”@} 2 ‘यावयेत जुगुप्सायाम, मिश्रणे यौति, बन्धने।
युनाति युनीते च…।।’ 3 इति देवः।
यावकः-विका, यावकः-विका, 4 युयूषकः-षिका, 5 यियावयिषकः-षिका, योयूयकः-यिका
योता-योत्री, यावयिता-त्री, युयूषिता-यियावयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककवतिवत् 6 ज्ञेयानि।
7 8 युनन् 9 -ती, युनानः, इति सार्वधातुके रूपमिति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३५२)
02
=>
(९-क्र्यादिः-१४७९। सक। अनि। उभ।)
03
=>
(श्लो। २४)
04
=>
[[७। ‘सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृथूर्णुभरज्ञपिसनाम्’ (७-२-४९) इत्यत्र ऊर्णुञ्साहचर्यात्, ‘निरनुबन्धकग्रहणे सानुबन्धकस्य’ (परि-८३) इति वचनबलाच्च नास्य धातो- र्ग्रहणमिति अनिट्त्वमेवास्येति बोध्यम्। तेन सन्नन्ते सर्वत्र सनः कित्त्वे दीर्घे एवं रूपम्।]]
05
=>
[[८। णिजन्तात् सनि, ‘ओः पुयण्ज्यपरे’ (७-४-८०) इत्यभ्यासस्येकारोऽत्रापि धातौ भवतीति प्रदर्शनार्थं तत्र रूपमुपात्तम्।]]
06
=>
(१९८)
07
=>
[पृष्ठम्१०८६+ ३०]
08
=>
[[१। शतरि, ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्नाप्रत्यये, ‘श्नाभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपे, प्रत्ययस्य ङित्त्वेनाङ्गस्य गुणनिषेधे चैवं रूपम्। शान- जन्तेऽपि प्रक्रियैवमूह्या।]]
09
=>
[[आ। ‘मोदस्कुतोऽथ कबरीं प्रयुनन् रामः…।।’ धा। का। ३। ५।]]