युजिर् (yujir)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaयुजिर् - योगे (रुधा० उभ० सक० अनि०) युनक्ति ।
कन्नडार्थः - > ಒಟ್ಟಿಗೆ ಸೇರಿಸು /ಒಟ್ಟುಗೂಡಿಸು
प्रयोगाः - > "युयुजुः स्यन्दनानश्वैरीजुर्देवान् पुरोहिताः"
उल्लेखाः - > भट्टि० १४-९०
युजिर् - योगे (रुधा० उभ० सक० अनि०) युनक्ति ।
कन्नडार्थः - > ಉಪಯೋಗಿಸು /ಪ್ರಯೋಗಿಸು
प्रयोगाः - > "प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते"
उल्लेखाः - > गीता० १७-२६
युजिर् - योगे (रुधा० उभ० सक० अनि०) युनक्ति ।
कन्नडार्थः - > ಚಿತ್ತವನ್ನು ಒಂದೇ ಕಡೆ ಸ್ಥಿರವಾಗಿ ನಿಲ್ಲಿಸಿ ಧ್ಯೇಯವಸ್ತುವಿನೊಡನೆ ಸೇರಿಸು
प्रयोगाः - > "तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥"
उल्लेखाः - > गीता० ६-१२
युजिर् - योगे (रुधा० उभ० सक० अनि०) युनक्ति ।
कन्नडार्थः - > ಅನುರೂಪವಾಗಿರು /ತಕ್ಕಂತೆ ಇರು /ಸರಿ ಹೊಂದು
प्रयोगाः - > "या यस्य युज्यते तां खलु भूमिकां सर्वैः वर्ग्याः पाठिताः"
उल्लेखाः - > मालती० १
धातुपाठः (Krishnacharya)
Sanskrit युज्
युजिर्
योगे
रुधादिः
सकर्मकः
अनिट्
उभयपदी
युनक्ति-युङ्क्ते
कृदन्तरूपमाला
Sanskrit1 {@“युजिर् योगे”@} 2 ‘युनक्ति युङ्क्ते योगार्थे, समाधौ युज्यते श्यनि।’ 3 इति देवः।
योजकः-जिका, योजकः-जिका, युयुक्षकः-क्षिका, योयुजकः-जिका
योक्ता-योक्त्री, योजयिता-त्री, युयुक्षिता-त्री, योयुजिता-त्री
इत्यादीनि समस्तान्यपि रूपाणि रौधादिकभुनक्तिवत् 4 ज्ञेयानि।
5 6 युञ्जन्-ती, 7 युञ्जानः, 8 प्रयुञ्जानः-उपयुञ्जानः, 9 नियुञ्जानः- वियुञ्जानः-उद्युञ्जानः, 10 योगी, 11 युङ् 12 -युञ्जौ-युञ्जः, 13 अश्वयुक्-अश्वयुग्- 14 मौञ्जीयुक्-युजौ-युजः, 15 युग्यम्- 16 -योग्यम्, 17 प्रयोज्यः-नियोज्यः, 18 योक्त्रम्, 19 20 अनुयोगी-प्रतियोगी, 21 योगः-परियोगः-पलियोगः-प्रयोगः-वियोगः-अनुयोगः, युक्तिः- 22 वाचोयुक्तिः, 23 युगम्-संयुगम्, 24 गोयुगः, 25 इति मक्प्रत्यये, कुत्वे च रूपम्।
युनक्तीति युग्मम् = मिथुनम्।]] युग्मम् इतीमानि रूपाण्यस्य विशेषेण भवन्ति।
01 (१३५१)
02 (७-रुधादिः-१४४४। सक। अनि। उभ।)
03 (श्लो। ६४)
04 (११६२)
05 [पृष्ठम्१०८४+ ३०]
06 [[१। शतरि, ‘रुधादिभ्यः--’ (३-१-७८) इति विकरणप्रत्यये श्नमि, तस्य च मित्त्वेनान्त्यादचः परत्वेन प्राप्तौ, ‘श्नसोरल्लोपः’ (६-४-१११) इत्यकारलोपे नकारस्यानुस्वारपरसवर्णयोरेवं रूपम्। एवमेव शानजन्तेऽपि प्रक्रियोह्या।]]
07 [[२। शानजन्ते, ‘ताच्छील्यवयोवचनशक्तिषु--’ (३-२-१२९) इति चानशन्तेऽपि तुल्यं रूपम्।]]
08 [[३। ‘प्रोपाभ्यां, युजेरयज्ञपात्रेषु’ (१-३-६४) इति अकर्त्रभिप्रायेऽपि क्रियाफले आत्मनेपदम्--शानच्। ‘द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति’ इत्यादिकल्पसूत्र- प्रयोगेषु यज्ञविषयकत्वात् परस्मैपदमेव।]]
09 [[४। ‘स्वराद्यन्तोपसृष्टादिति वक्तव्यम्’ (वा। १-३-६४) इति वचनात् अत्रापि शानच्। स्वरः = अच्, आदौ अन्ते यस्योपसर्गस्य तदुपसृष्टादपि युजेस्तङानौ--इति वार्तिकार्थः।]]
10 [[५। ‘सम्पृच--’ (३-२-१४२) इत्यादिना घिनुणि, कुत्वे च रूपमेवम्।]]
11 [[६। ‘ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च’ (३-२-५९) इति क्विन्प्रत्ययः। ‘युजेरसमासे’ (७-१-७१) इति नुमि, ‘क्विन्प्रत्ययस्य कुः’ (८-२-६२) इति कुत्वे संयोगान्तलोपे च युङ् इति सम्पद्यते।]]
12 [[आ। ‘भ्रातरं युङ् भियः संख्ये घोषेणापूरयन् दिशः।।’ भ। का। ६। ११९।]]
13 [[७। ‘सत्सूद्विष--’ (३-२-६१) इत्यादिना सोपपदात् क्विपि, रूपमेवम्। ‘युजेरसमासे’ (७-१-७१) इत्यत्र ‘असमासे’ इत्युक्तत्वात् न नुम्। अश्वयुक् = नक्षत्रविशेषः। अश्वेन युनक्ति इति वृत्तिः। नात्रावयवार्थेऽभिनिवेशः कार्यः, ‘रथेन तरतीति रथन्तरम् = साम’ इत्यादिष्विव व्युत्पत्तिप्रदर्शनमेतत्।]]
14 [[B। ‘पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति।’ शि। व। १। ६।]]
15 [[८। ‘युग्यं च पत्त्रे’ (३-१-१२१) इति पत्त्रे = वाहनेऽभिधेये क्यप्, कुत्वं च निपात्यते। नात्र नपुंसकलिङ्गस्य निपातने विवक्षितत्वम्
\n\n तेन ‘युग्या--गौः’ इत्यादयोऽपि साधवः। अन्यत्र, ण्यति, कुत्वे योग्यम् इति सिद्ध्यति।]]
16 [[C। ‘दृष्ट्वा ताममुचद् रामो युग्यायात इब श्रमम्।।’ भ। का। ६। ६३।]]
17 [[९। ‘प्रयोज्यनियोज्यौ शक्यार्थे’ (७-३-६८) इति शक्यार्थे प्रपूर्वकस्य निपूर्वकस्य चास्य ण्यति कुत्वाभावो निपात्यते। अन्यत्र नियोग्यः, प्रयोग्यः इति साधुः।]]
18 [[१०। ‘दाम्नीशसयुयुजं--’ (३-२-१८२) इत्यादिना करणे त्रप्रत्ययः। गुणे कुत्वे च योक्त्रम् इति सिद्ध्यति।]]
19 [पृष्ठम्१०८५+ २९]
20 [[१। ‘भविष्यति गम्यादयः’ (३-३-३) इत्यत्र पाठात् भविष्यदर्थे औणादिके णिनिः, तत्रैव पाठात् कुत्वं चेति ज्ञेयम्।]]
21 [[२। संज्ञायाम् घञि कुत्वे योगः इति भवति। ‘योगे च’ (वा। ८-२-२२) इति ‘परि’ इत्यत्र रेफस्य लत्वं विकल्पेनेति ज्ञेयम्।]]
22 [[३। क्तिनि-युक्तिः इति सिध्यति। आक्रोशे गम्यमाने वाचः परस्मात् युक्तिशब्दे सति वाच इत्यत्र षष्ठ्याः, ‘… वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु’ (वा। ६-३-२१) इत्यलुक्। वाचोयुक्तिः = वाग्जालः, वृथा जृम्भणमिति यावत्।]]
23 [[४। घञि, प्रतिजनादिषु (४-४-९९), उञ्छादिषु (६-१-१६०) च पाठात् गुणो नेति ज्ञेयम्।]]
24 [[५। “गां युनक्तीति गोयुगः ‘कर्मण्यण्’ (३-२-१), न्यङ्क्वादिः (७-३-५३)।” इति क्षीरस्वामी। ‘अणि गुणाभावो न्यङ्क्वादित्वादेव।’ इति क्षीरतरङ्गिणी- टीका। वस्तुतः इदं चिन्त्यम्। यतः, ‘द्वित्वे गोयुगच्’ (वा। ५-२-२९) इति गोयुगच् इत्यस्य प्रत्ययत्वेन भाष्यवार्तिकादिषु स्मरणात्।]]
25 [[६। ‘युजिरुचितिजां कुश्च’ [द। उ। ७-३३]
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
