| YouTube Channel

युजिँर् (yuji~r)

 
धातुप्रदीपः
Sanskrit
युजिर् योगे
- युनक्ति युङ्क्ते प्रयुङ्कते नियुङ्क्ते संयुनक्ति अयुजत् अयौक्षीत् अयुक्त युङ्, युञ्जौ योगः अश्वयुक् युग्यम् युगम् (1) युज्यत इति युज समाधाविति दैवादिकस्य 7
क्षीरतरङ्गिणी
Sanskrit
युजिर् योगे
- युनक्ति, युङ्क्ते, अयुजत् अयौक्षीत्, अयुक्त प्रोपाभ्यां युजेरयज्ञपात्रेषु (1364) तङ्-प्रयुङ्क्ते, उपयुङ्क्ते नेह-द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति दिवादौ युज समाधौ (467)-युज्यते अस्यैव ग्रहणानि 7
धातुवृत्तिः
Sanskrit
युजिर् (अर्थः) योगे
( युगक्ति युङ्क्तः युञ्जन्तियुनक्षि युनज्मि युङ्क्ते युञ्जाते युङ्क्षे युञ्जे युञ्ज्वहे युयोज युयोजिथ युयोज युयुजिव युयुजे योक्ता योक्ष्यति योक्ष्यते युनक्तु युङ्क्तात् युङक्ताम् युञ्जन्तु युङ्ग्धि युङ्क्तात् युङ्क्तम् युनजानि युनजाव युनजाम युङ्क्ताम् अयुनक् अयुनग् अयुङ्क्तम् अयुङ्क्त अयुञ्जि अयुञ्ज्वहि युञ्ज्यात्युञ्जाताम् युञ्जीत ) आशिषि (युज्यात् युक्षीष्ट अयुजत् अयौक्षीत् अयुक्त अयुक्षाताम् अयुक्षते युयुक्षते योयुज्यते योयोक्ति योजयति अयूयुजत् प्रयुङ्क्ते उपयुङ्क्ते) "प्रोपाभ्यां युजेरयज्ञपात्रेषु'' इत्यकर्त्रभिपायेऽपितङ् यज्ञपात्रे तु पात्राणि प्रयुनक्तीति अत्र प्रग्रहणं स्वरान्तस्योपसर्गस्योपलक्षणम् उपग्रहणमपि स्वरादेः तथा वार्त्तिकं [स्वराद्यन्तोपसृष्टादिति वक्तव्यम् ] इति (युज्यते ब्रह्मचारी योगम्) "सृजियुज्योः श्यंस्तु'' इति कर्मवद्भावः, श्यंश्च यकोऽपवादः अत्र कैयटेयुज्यते इति योगः, ब्रह्मचारिणं योगो युनक्तिं संबध्नातीत्यर्थः ततो ब्रह्मचारिणः कर्तृत्वविवक्षायां युज्यते ब्रह्मचारी योगमिति भवतीति, श्यन्यकोः स्वरे भेदः "तास्यनुदात्तेत्'' इति लसार्वधातुकानुदात्तत्वे यकि प्रत्ययस्वरेण एवोदात्तः स्यात् श्यनि तु नित्स्वरेण धातुरुदात्तो भवति (युग्यं वाहनम्) "युग्यञ्च पत्रे'' इति कर्मणि करणे वा क्यपि कुत्वन्निपात्यते अन्यत्र योग्यमिति ण्यति कुत्वम्, ( प्रयोज्यः नियोज्यः ) "प्रयोज्यनियोज्यौ शक्यार्थे'' ऋत्विगादिभिर्निपातनैः साहचर्यादञ्चुयुजिक्रुञ्चामन्यदपि कार्यम्भवतीति ज्ञापनाद् उपपदाधिकारेऽपि निरुपपदादयं प्रत्ययो भवति, "युजेरसमासे'' इति सर्वनामस्थाने नुम्पदान्ते संयोगान्तलोपः, "क्विन्प्रत्ययस्य कुः'' इति कुत्वम् अन्यत्रानुस्वारपरसवर्णौ असर्वनामस्थाने (युजः युग्भ्याम् ) इति, (युक्षु) इत्यत्र कुत्वे "खरि च'' इति चर्त्वम् (अश्वयुक् ) "सत्सूद्विष'' इत्यादिना क्विप् अत्र सूत्रे युजेत्यकारो विवक्षित इति युनक्तियुज्योर्द्वयोरपि ग्रहणं, "युजेरसमासे'' इतीकारवतः सर्वनामस्थाने समासे नुम्निषेधोकाराविवक्षायां ज्ञापकः यदि हि युजेः क्विप् स्यात् "ऋत्विक्'' इत्यादिना क्विन्नपि निपातनैः साहचर्यादनुपपदादेव स्यादित्यश्वयुगिति रूपमेव नास्तीति किन्नुम्निषेधेन (योक्त्रः) "दाम्नी'' इत्यादिना ष्ट्रन् अत्र स्तौत्यादिसाहचर्यादुभयपदिनोऽस्यैव ग्रहो तु युज्यतेः, अकारस्तूच्चारणमात्रार्थः हरदत्तोऽप्यनभिधानाद्युज्यतेर्न ग्रह इति ( योगी ) संपृचादिना घिणुन् अत्र युनक्तियुज्यत्योद्वयोरपि ग्रहणं निरनुबन्धकस्योपादानादकारप्रश्लेषेऽपि नास्ति प्रमाणम्(प्रयोगः) घञ् (प्रायौगिकम्) भवार्थे अध्यात्मादित्वात् ठञ् अनुशतिकादित्वादुभयपदवृद्धिः योगाय प्रभवति (योग्यः, यौगिकः) "योगाद्यच्च" इति यत्ठञौ (युगम्)घञ् उञ्चादिपाठादगुणत्वम्, विशिष्ट विशयं चैतत्, रथाङ्गे कालविशेषे च, (युग्यम्) "तद्वहति रथयुग" इति यत् संयुगे साधु (संयुगीनम्)"प्रतिजनादिभ्यः खञ्" इति खञ्, प्रतिजनादि पाठादेव संयुग शब्दस्य घञ् गुणाभावः (परियोगः , पलियोगः) "परेश्च घाङ्कयोः इत्यत्र योगे चेति वक्तव्याद्वा लत्वम्रुधादयोऽनुदात्ता स्वरितेतः7