युज (yuja)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English युज yuja connectors [ that which connects ]
योजक yojaka connectors [ that which connects ]
Wilson
Englishयुज(औ)युजौ r. 4th cl. (युज्यते) To confine the thoughts, to keep
the mind fixed in abstract meditation. r. 1st and 10th cls. (योजति
योजयति) To bind, to tie, to connect. (योजयत) To blame. (औ, इर, )
औ युजिर r. 7th cl. (युनक्ति युंक्ते) To join, to mix, to unite, &c.
With अनु prefixed,
1 To ask, to inquire.
2 To reprove.
With अभि,
1 To utter, to speak.
2 To accuse.
With उत्, To make effort.
With उप,
1 To seize, to take, to lay hold of.
2 To eat.
With नि,
1 To order, to appoint.
2 To join.
With प्र,
1 To be fit or due.
2 To attach or apply to.
3 To lend money.
4 To make effort.
5 To combine or connect.
With वि,
1 To separate, to sunder.
2 To send.
With वि and नि,
1 To appoint or employ.
2 To expend.
3 To send.
4 To involve in or force upon.
With वि and प्र, to separate, to part, to divide.
With सम्, To unite, to combine.
With सम् and आङ्, To think profoundly.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुपाठः (Krishnacharya)
Sanskrit युज्
युज
समाधौ (चित्तवृत्तिनिरोधः)
दिवादिः
अकर्मकः
अनिट्
आत्मनेपदी
युज्यते
युज्
युज
संयमने
चुरादिः
सकर्मकः
सेट्
उभयपदी
योजयति-ते
आधृषीयः
धातुप्रदीपः
Sanskritयुजँ युज समाधौ
- युज्यते युयुजे योक्ता 72
युजँ युज
मानकरूपान्तरम् - पृचँ
पृच संयमने
- योजयति योजति अन्यत्र युनक्ति पर्चयति पर्चति अन्यत्र पृणक्ति 251-152
शब्दकल्पद्रुमः
Sanskritयुज, इर् ध ञ औ युतौ । इति कविकल्पद्रुमः ॥
(रुधा०-उभ०-सक०-अनिट् ।) इर्, अयुजत्अयौक्षीत् । ध, युनक्ति युङ्क्ते घृतेनान्नं लोकः ।औ, योक्ता । इति दुर्गादासः ॥
वाचस्पत्यम्
Sanskritयुज युतौ रु० उ० अनिट् । युनक्ति युङ्क्ते इरित्अयुजत् अयौक्षीत् अयुक्त युयोज युयुजे ।अजन्तोपसर्गात् उदश्च परस्मात् आत्म० ।अनु + प्रश्ने आ० । अनुयुङ्क्ते अनुयोगः ।अभि + व्यवहारेणास्कन्दने (नालिशकरा) आत्म० अभि-युङ्क्ते अभियोगः ।उद् + आयोजने उद्यमे अक० उद्युङ्क्ते उद्योगः ।उप + भोजने सम्बन्धभेदे अक० आत्म० उपयुङ्क्तेउपयोगः ।नि + प्रेरणे आत्म० नियुङ्क्ते । नियोगः ।परि + अनु + दूषणाय प्रश्ने आत्म० । पर्य्यनुयुङ्क्ते पर्य्यनुयोगः ।प्र + उच्चारणे व्यवहारभेदे च आत्म० प्रयुङ्क्ते प्रयोगःप्रति + प्रतिरूपे योगे आ० प्रतियुङ्क्ते प्रतियोगः ।सम् + संयोगे प० संयुनक्ति संयोगः ।
क्षीरतरङ्गिणी
Sanskritयुजँ युज समाधौ
- (अर्थविवरणम्) समाधिश्चित्तवृत्तिनिरोधः
युज्यते योक्ता सृजियुधिधूञां (तु0 3187 वा0) कर्मवद्भावः श्यंश्च-युज्यते रथः स्वयमेव युग्यं च पत्रे (31121) साधु गां युनक्तीति गोयुगः, कर्मण्यण् (द्र0 321) न्यङ्क्वादिः (गण0 7353) अञ्चुयुजि (3259) इति क्विन्, युजेरसमासे (7171) नुम्, क्विन् प्रत्ययस्य कुः (8262)-युङ्, युञ्जौ नेह-अश्वयुक् ष्ट्रन् (द्र0 32182)-योक्त्रम् मन् (द्र0 उ0 1146) युग्मम्, न्यङ्क्वादिः (गण0 7353) के (द्र0 31135) च-युगम् योजनम्, योजना, योगः, यथास्वं ग्रहणानि रुधादौ युजिर् योगे (77) युङ्क्ते, युनक्ति चुरादौ युज पृची संपर्चने (10202) वा णिच्-योजयति योजति 65
युजँ युज
मानकरूपान्तरम् - पृचीँ
पृची सम्पर्चने
- योजयति, योजति दिवादौ युज समाधौ (467) युज्यते, रुधादौ युजिर् योगे (77)-युनक्ति सम्पर्चयति, रुधादौ (730) सम्पृणाक्ति, अदादौ पृची सम्पर्के (221) संपृक्ते 253, 254
धातुवृत्तिः
Sanskritयुजँ युज (अर्थः) समाधौ
(अर्थविवरणम्) समाधिश्चित्तनिरोधः
, तेनायमकर्मकः युज्यत एतत् इति प्रयोगस्तु युनक्तेःकर्मणि यकि तङि (युज्यते ब्रह्मचारी इत्येतदपि "सृजिमृज्योश्श्यंस्तु'' इति सकर्मकस्य कर्तुः कर्मवद्भावश्यनोर्विधानद्युज्यते युज्यतिसृज्यत्योरकर्मकत्व एव वार्तिकं चोपपद्यते युज्यतइत्यादि पूर्ववत् ( प्रयुक्, ) "सत्सूद्विष'' इत्यादिना सोपपदात्क्विप् ( युजमापन्ना महर्षयः ) इत्यत्र निरुपपदत्वेऽपि सम्पदादित्वाद्भावे क्विप् "युजेरसमासे'' इति सर्वनामस्थाने नमुस्य न भवति, इकारवतो रौधादिकस्यैव तत्र निर्देशात् ( योगी, ) सम्पृचादिना घिनुण् "युग्यं च पत्रे'' इति निपातनं नास्य अर्थस्वभावात् "दाम्नीशसयुज'' इति ष्ट्रन्विधावपि नास्य ग्रहः अनभिधानात् 69
कृदन्तरूपमाला
Sanskrit1 {@“युज समाधौ”@} 2 समाधिः = चित्तवृत्तिनिरोधः।
‘युनक्ति युङ्क्ते योगार्थे, समाधौ युज्यते श्यनि।
युजेः संयमनार्थे वा णौ योजयति योजति।।’ 3 इति देवः।
योजकः-जिका, योजकः-जिका, युयुक्षकः-क्षिका, योयुजकः-जिका
योक्ता- योक्त्री, योजयिता-त्री, युयुक्षिता-त्री, योयुजिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि रौधादिकभुनक्तिवत् 4 ज्ञेयानि।
5 प्रयुक्-प्रयुजौ-प्रयुजः, 6 युक्, 7 युक्, 8 योगी, 9 युक्तः, युज्यमानः, योजयमानः, 10 11 योगः-परियोगः-पलियोगः, 12 युगम्, 13 संयुगः, 14 युयुक्षमाणः, इतीमानि रूपाण्यस्माद् भवन्तीति विशेषः।
01 (१३४९)
02 (४-दिवादिः-११७७। अक। अनि। आत्म।)
03 (श्लो। ६४)
04 (११६२)
05 [[३। ‘सत्सूद्विषद्रुहदुहयुज--’ (३-२-६१) इत्यादिना सोपसर्गात् क्विपि रूपमेवम्। अत्र निरुपसर्गादपि क्विप्, सूत्रे ‘अपि’ शब्दस्वारस्यात्। युक्-युजौ-युजः, इत्यपि साधुः।]]
06 [[B। ‘कंसानुरोध्यणनहृन्मतिमद्दृगर्च्यः…।।’ धा। का। २। ६२।]]
07 [[४। स्त्रियां भावादौ सम्पदादित्वेन (वा। ३-३-१०८) क्विपि रूपम्। ‘युजमापन्ना महर्षयः’ इति धातुवृत्तावुदाहृतम्। अत्र युजम् = योगमित्यर्थः। काशिका (७-१-७१) द्रष्टव्याऽत्र।]]
08 [[५। ‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदह- परिमुहदुषद्विषद्रुहदुहयुज--’ (३-२-१४२) इत्यादिना यथासम्भवं तच्छीलतद्धर्म- तत्साधुकारिष्वर्थेषु घिनुण्प्रत्यये, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वम्।]]
09 [[६। धातोरस्याकर्मकत्वात् ‘क्तोऽधिकरणे च ध्रौव्य--’ (३-४-७६) इति क्तप्रत्ययः।]]
10 [पृष्ठम्१०८३+ २६]
11 [[१। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञि, कुत्वम्। योगः = चित्तवृत्तिनिरोधः। ‘योगे च’ (वा। ८-२-२२) इति वचनात् ‘परि’ इत्युपसर्गस्थस्य रेफस्य पाक्षिकं लत्वम्।]]
12 [[२। संज्ञायां घञि, कुत्वे, उञ्छादि (६-१-१६०) पाठाद् गुणो न। युगम् = चेत- नाचेतनानां समाधिः।]]
13 [[३। संज्ञायां घञि, कुत्वे, प्रतिजनादिषु (४-४-९९) पाठात् गुणो न। संयुगः = समरः।]]
14 [[आ। ‘वाचंयमान् स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्षून्।’ भ। का। ३। ४१।]]
1 {@“युज संयमने”@} 2 आधृषीयः।
‘योगे च इति द्रुमे।’ इति धा।
का।
व्याख्या 3।
‘युजेः संयमनार्थे वा णौ योजयति योजति।।’ 4 इति देवः।
योजकः-जिका, युयोजयिषकः-षिका, योजकः-जिका, 5 युयुक्षकः-क्षिका, योयुजकः-जिका
योजयिता-त्री, युयोजयिषिता-त्री, युयुक्षिता-त्री
योयुजिता-त्री
इत्यादिकानि सर्वाण्यपि रूपाणि चौरादिकजोषयतिवत् 6 ज्ञेयानि।
7 योजयन्।
योजना मानविशेषः।
01 (१३५०)
02 (१०-चुरादिः-१८०७। सक। सेट्। उभ।)
03 (३-४८)
04 (श्लो। ६४)
05 [[४। आधृषीयत्वेन णिज्विकल्पः। णिजभावपक्षे, ‘त्यजिं यजिं युजिरुचिसञ्जिमज्जतीन्--’ (भाष्ये ७-२-१०) इति व्याघ्रभूतिकारिकायामुपादानात् तत्र च सामान्येन दैवादिक-रौधादिकयोः, णिजभावपक्षे औत्सर्गिकशब्विकरणस्यास्य च ग्रहणस्य व्याख्यातृभिरुपादानादस्यानिट्त्वमिति ज्ञेयम्। तेन सन्नन्ते रूपमेवम्।]]
06 (६१३)
07 [[B। ‘कृष्णोऽथ बाहुयुगलैर्बहु योजयन्तम्…।’ धा। का। ३। ४८।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
