| YouTube Channel

युच्छ (yuccha)

 
Wilson
English
युच्छ r. 1st cl. (युच्छति) To be inattentive or negligent, to err or
mistake.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
युच्छ्
मूलधातुः:
युच्छ
धात्वर्थः:
प्रमादे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
युच्छति
शब्दकल्पद्रुमः
Sanskrit
युच्छ, प्रमादे इति कविकल्पद्रुमः
(भ्वा०-पर०-अक०-सेट् ।) अन्तःस्थाद्यादिः पञ्चम-स्वरी प्रमादोऽनवधानता युच्छति पापेसाधुः ओष्ठ्यवर्गाद्यादिरिति रमानाथः ।पचादित्वादनि पुच्छो लाङ्गूलम् ओष्ठ्यवर्ग-शेषादिरिति त्रिलोचनः मुच्छति इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
युच्छ प्रमादे
भ्वा०
पर०
सक०
सेट् युच्छति अयुच्छीत्
कृदन्तरूपमाला
Sanskrit
1 {@“युच्छ प्रमादे”@} 2 3 युच्छकः-च्छिका, युच्छकः-च्छिका, युयुच्छिषकः-षिका, योयुच्छकः- च्छिका
युच्छिता-त्री, युच्छयिता-त्री, युयुच्छिषिता-त्री, योयुच्छिता-त्री
4 प्रयुट्-प्रयुड्-प्रयुशौ- 5 प्रयुशः
इतीमानि सर्वाण्यपि रूपाणि दैवादिक- क्लिश्यतिवत् 6 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१३४८)
02
=>
(१-भ्वादिः-२१४। अक। सेट्। पर।)
03
=>
[[१। उपदेशेऽयं धातुः युछ इत्येव पठितः। ‘छे च’ (६-१-७३) इति तुकि, तस्य श्चुत्वेन चकारे युच्छ इति सम्पद्यते। अत्र ण्वुल्निमित्तको गुणः कथं न? इति शङ्क्यम्, अन्तरङ्गत्वेन प्रथमं तुकि लघूपधत्वाभावात् गुणो न। चात्र ‘वार्णादाङ्गं बलीयः’ (परि-५६) इति वचनात् प्रथमं गुणस्यापत्तिः कार्या
\n\n भिन्नाश्रयत्वात्, इत्यन्यत्र विस्तरः।]]
04
=>
[[२। क्विपि, ‘च्छ्वोः शूठ्--’ (६-४-१९) इति सतुक्कस्य छकारस्य शकारे, तस्य ‘व्रश्च--’ (८-२-३६) इत्यादिना षकारे, जश्त्वचर्त्वयोश्च रूपमेवम्।]]
05
=>
[[आ। ‘अहूर्णचित्ताः परिमूर्च्छितव्रताः स्फूर्णामया अप्रयुशः कृतोञ्छनाः।’ धा। का। १। २९।]]
06
=>
(२८७)