| YouTube Channel

युङ् (yuG)

 
Shabdartha Kaustubha
Kannada
युज्(ङ्)
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಸೇರಿಕೊಂಡಿರುವ /ಒಟ್ಟಿಗೆ ಕಲೆತಿರುವ /ಒಟ್ಟುಗೂಡಿರುವ
निष्पत्तिः - > युजिर् (योगे) - "क्विन्" (३-२-५९)
युज्(ङ्)
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಸಮವಾದ /ಸಮಸಂಖ್ಯೆಯ
प्रयोगाः - > "युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं प्रकीर्तितम्"
उल्लेखाः - > वृ० र०
युज्(ङ्)
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಒಟ್ಟಿಗೆ ಸೇರಿಸುವವನು /ಒಟ್ಟಿಗೆ ಕೂಡಿಸುವವನು
प्रयोगाः - > "भ्रातरं युङ् भियः सङ्ख्ये घोषेणाऽपूरयन् दिशः"
उल्लेखाः - > भट्टि० ६-११८
शब्दकल्पद्रुमः
Sanskrit
युङ् [ज्] त्रि, (युजिर् योगे + क्विन् “युजेर-समासे ।” ७१ इति नुमागमः ।)योगकर्त्ता मेलनकर्त्ता इति मुग्धबोध-व्याकरणम्
(यथा, भट्टिकाव्ये ११८ ।“गुहाया निरगाद्वाली सिंहो मृगमिव द्युवन् ।भ्रातरं युङ्भियः संख्ये घोषेणापूरयन्दिशः
”युग्मम् यथा, मनौ २७७ ।“युक्षु कुर्व्वन् दिनर्क्षेषु सर्व्वान् कामान् समश्नुते ।अयुक्षु तु पितॄन् सर्व्वान् प्रजां प्राप्नोति पुष्क-लाम्
”समः छन्दसि द्वितीयचतुर्थपादरूपः ।यथा, छन्दोमञ्जर्य्याम् ।“विषमे यदि सौ सलगा दलेभौ युजि भाद्गुरुकावुपचित्रम्
”)