| YouTube Channel

युग्यं (yugyaM)

 
शब्दकल्पद्रुमः
Sanskrit
युग्यं,
क्ली,
(युगाय हितम् युग + “उगवादिभ्योयत् ।” इति यत् युगमर्हतीतिवा दण्डादित्वात् यत् यद्वा, युज्यत इति ।युज् + “युग्यं पत्त्रे ।” १२१ इतिक्यबन्तो निपातितः ।) वाहनम् यानम्इत्यमरः ५८
(यथा, महाभारते ।५९ ।“हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् ।आविष्टः कलिना द्यूते जीयते स्म नलस्तदा
”यथा मनौ २९३ ।“यत्रापवर्त्तते युग्यं वैगुण्यात् प्राजकस्य तु ।तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम्
”वाच्यलिङ्गेऽपि दृश्यते यथा, “युग्यो गौः ।युग्योऽश्वः युग्यो हस्ती ।” इति काशिका ।३ १२१
)