| YouTube Channel

युग्मं (yugmaM)

 
शब्दकल्पद्रुमः
Sanskrit
युग्मं,
क्ली,
(युज्यते इति युज् + “युजिरुचि-तिजां कुश्च ।” उणा० १४५ इति मक् ।)द्वयम् योडा इति भाषा तत्पर्य्यायः द्बन्द्वम् २युगलम् युगम् इत्यमरः ३८
(यथा, रामायणे ९१ ७६ ।“पादुकोपानहाञ्चैव युगान्यत्र सहस्रशः
”)द्बितीयचतुर्थषष्ठाष्टमदशमद्वादशराशयः यथा“क्रूरोऽथ सौम्यः पुरुषोऽङ्गना चओजोऽथ युग्मं विषमः समश्च ।चरस्थिरद्ब्यात्मकनामधेयामेषादयोऽमी क्रमशः प्रदिष्टाः
”इति ज्योतिस्तत्त्वम्
(द्बितीया ।) मेलनम् यथा, --“युग्माग्निकृतभूतानि षण्मून्योर्व्वसुरन्ध्रयोः ।रुद्रेण द्बादशी युक्ता चतुर्दश्याथ पूर्णिमा
प्रतिपदाप्यमावास्या तिथ्योर्युग्मं महाफलम् ।एतद्ब्यस्तं महाघोरं हन्ति पुण्यं पुराकृतम्
द्बितीयातृतीययोश्चतुर्थीपञ्चम्योः षष्ठीसप्तम्यो-रष्टमीनवम्योरेकादशीद्बादश्योः चतुर्द्दशीपौर्ण-मास्योः प्रतिपदमावास्ययोर्युग्मं मेलनम् तत्त-त्तिथिमात्रनिमित्तके कर्म्मणि महाफलम् ।एतत् प्रयोजनन्तु तिथिविशेषविहिते कर्म्मणितिथिखण्डविशेषनियमनम् स्वतिथ्या कर्म्मानि-र्व्वाहे सहायभावेनान्यतिथ्यनुप्रवेशादुपवासा-द्याचरणञ्च ।” इति तिथ्यादितत्त्वम्
(द्बय-विशिष्टे, त्रि यथा, मनुः ४८ ।“युग्मासु पुत्त्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।तस्मात् युग्मासु पुत्त्रार्थीसंविशेदार्त्तवे स्त्रियम्
”)