| YouTube Channel

युगाद्या (yugAdyA)

 
Spoken Sanskrit
English
युगाद्या yugAdyA
f.
first day of a yuga or age of the world
युगाद्या yugAdyA
f.
anniversary of it
Monier Williams Cologne
English
युगाद्या
f.
(scil. तिथि) the first day of a Yuga or age of the world,
VP.
the anniversary of it,
MW.
Shabdartha Kaustubha
Kannada
युगाद्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಯುಗವು ಪ್ರಾರಂಭವಾಗುವ ತಿಥಿ
व्युत्पत्तिः - > युगस्याद्या आदिभूता (तिथिः)
विस्तारः - > "वैशाखे शुक्लपक्षे तु तृतीयायां कृतं युगम् कार्तिके शुक्लपक्षे तु त्रेताथ नवमेऽहनि अथ भाद्रपदे कृष्णत्रयोदश्यान्तु द्वापरम् माघे पौर्णमास्यां वै घोरं कलियुगं स्मृतम् ॥" - ब्राह्मपु०
शब्दकल्पद्रुमः
Sanskrit
युगाद्या,
स्त्री,
(युगस्याद्यादिभूता ।) युगारम्भ-तिथिः यथा “अथ युगाद्याः तासु ।‘युगाद्या वर्षवृद्धिश्च सप्तमी पार्व्वतीप्रिया ।रवेरुदयमीक्षन्ते तत्र तिथियुग्मता
’इत्यनेन व्यवस्था
ब्रह्मपुराणे ।‘वैशाखे शुक्लपक्षे तु तृतीयायां कृतं युगम् ।कार्त्तिके शुक्लपक्षे तु त्रेताथ नवमेऽहनि
अथ भाद्रपदे कृष्णत्रयोदश्यान्तु द्वापरम् ।माघे पौर्णमास्यां वै घोरं कलियुगं स्मृतम्
युगारम्भास्तु तिथयो युगाद्यास्तेन विश्रुताः
’अत्र वैशाखादयः पौर्णमास्यन्ता एव ब्रह्म-पुराणे तथैव तिथिकृत्याभिधानात् मुख्य-वाचित्वे कार्त्तिके नवमेऽहनीत्यनैवेष्टसिद्धौ शुक्ल-पक्ष इति व्यर्थं स्यात् तेन भाद्रकृष्णत्रयोदशीअश्वयुक्कृष्णपक्षीयेति मैथिलोक्तं निरस्तम्
*
आसां प्रशंसामाह विष्णुपुराणम् ।‘वैशाखमासस्य सिता तृतीयानवम्यसौ कार्त्तिकशुक्लपक्षे ।नभस्यमासस्य तमिस्रपक्षेत्रयोदशी पञ्चदशी माघे
एता युगाद्याः कथिताः पुराणै-रनन्तपुण्यास्तिथयश्चतस्रः ।उपप्लवे चन्द्रमसो रवेश्चत्रिष्वष्टकास्वप्ययनद्वये
’उपप्लवे ग्रहणे ।‘पानीयमप्यत्र तिलैर्व्विमिश्रंदद्यात् पितृभ्यः प्रयतो मनुष्यः ।श्राद्धं कृतं तेन समाः सहस्रंरहस्यमेतत् पितरो वदन्ति
’स्नानमधिकृत्य भविष्ये ।संवत्सरफलं तत्र नवम्यां कार्त्तिके तथा ।मन्वादौ युगादौ माषत्रयफलं लभेत्
”इति तिथ्यादितत्त्वम्