| YouTube Channel

युगलमन्त्रः (yugalamantraH)

 
शब्दकल्पद्रुमः
Sanskrit
युगलमन्त्रः,
पुं,
(युगलाख्यो मन्त्रः शाकपार्थिववत्समासः ।) लक्ष्मीनारायणमन्त्रः यथा, --“इदं रहस्यं परमं लक्ष्मीनारायणाह्वयम् ।राजंस्तवापि वक्ष्यामि प्रपत्तिं शरणागतिम्
द्बयात् परतरो मन्त्रो नास्ति सत्यं ब्रवीमि ते ।द्वयात् परतरो धर्म्मो नास्ति लोकेषु कश्चन
सर्व्वेषां कृष्णमन्त्राणां मध्ये युगलसंज्ञकम् ।मन्त्रं हि सर्व्वतः श्रेष्ठं कृष्णजप्यमनुत्तमम्
सर्व्वतो युगलं मन्त्रं कार्ष्णं परतरं नृप ! ।गुह्याद्गुह्यतमं जातु ज्ञेयं तत्तदुपासकैः
”इति पाद्मोत्तरखण्डे २५ अध्यायः