| YouTube Channel

युक्तं (yuktaM)

 
शब्दकल्पद्रुमः
Sanskrit
युक्तं, त्रि, (युज्यत स्म इति युज् + क्तः ।)न्याय्यम् तत्तु न्यायागतद्रव्यादिकम् इत्यमरः ।२ २४
(यथा, शाकुन्तले अङ्के ।“जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव ।पुत्त्रमेवं गुणोपेतं चक्रवर्त्तिनमाप्नुहि
”)अपृथग्भूतम् मिलितमित्यर्थः इति मेदिनी ।ते, ४७
(यथा, आनन्दलहर्य्याम् ।“शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुंन चेदेवं देवो खलु कुशलः स्पन्दितुमपि ।अतस्त्वामाराध्यां हरिहरविरिञ्च्यादिभिरपिप्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति
”)
युक्तं,
क्ली,
(युज् + क्तः ।) हस्तचतुष्टयम् इतिमेदिनी ते, ४७
कृदन्तरूपमाला
Sanskrit
1 {@“ओ लडि उत्क्षेपणे”@} 2 अत्र ओकारः इत्संज्ञक इति चान्द्रा आहुः।
धात्ववयव एव ओकार इति क्षीरस्वामिप्रभृतयः।
‘उलडि’ इति पठित्वा ‘उलण्डयति’ इति केचिदु- दाहरन्ति।
एवं बहुधा विप्रतिपत्तिरत्र।
ओकारो धात्ववयव इत्यभ्युपगत्या- स्माभिः पूर्वं 3 ओलण्डक इत्यादीनि रूपाणि ण्यन्तात्, ण्यन्तप्रकृतिक- सन्नन्ताच्च प्रदर्शितानि।
ओकार इत्संज्ञक इति पक्षे-लण्डकः-ण्डिका इत्यादीनि रूपाणि यथासम्भवं स्वयमेवोह्यानि।
‘अनित्यण्यन्ताः चुरादयः’ इत्याश्रित्य ओकारेत्त्वपक्षे ‘ओदितश्च’ 4 इति निष्ठानत्वे लण्ड्नः इत्यपि निष्ठायां प्रदर्शयन्ति।
“दौर्गास्तु क्ते लण्डिन इत्युदाजह्रुः
तच्च पापात् पापीयः।
अव्यवहितस्य 5 नत्वात्” इति क्षीरस्वामी।
युक्तं चैतत्
अन्यथा विन्नादिवत् विदित इत्यत्रापि निष्ठातकारस्य नकारः स्यात्
इत्यलमत्राधुना।
‘ओलण्डितमिवापश्यत् उग्रं समरताण्डवम्’ 6 ‘ओलण्डिताद्रिरपि जालितदिव्यधामा--’ 7 इत्यादिषु ओकारो धात्वयव इत्येव प्रयोगा उपलभ्यन्ते इत्यपीहावधेयम्।
प्रासङ्गिक्यः
01
=>
(१४६७)
02
=>
(१०-चुरादिः-१५४२। सक। सेट्। उभ।)
03
=>
(१३८)
04
=>
(८-२-४५)
05
=>
(निष्ठातकारस्यैव)
06
=>
(यादवाभ्युदयः- १६-६४)
07
=>
(धातुकाव्यम्-३-१४)