| YouTube Channel

यिषौ-यिषः (yiSau-yiSaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ज्रि वयोहानौ”@} 2 “जॄ--’ इति चौरादिकघातोर्नन्दिसम्मतः पाठ एवम्” इति मा।
धा।
वृत्तौ।
आधृषीयत्वेनास्य धातोर्णिज्विकल्पः।
णिच्पक्षे, णिजभावपक्षे च, शुद्धात् सन्नन्तात् यङन्ताच्च जिधातुवत् 3 धातुस्वरूपनिबन्धनकार्याणि विना बोध्यानि।
ण्यन्तात् सनि तु-- जिज्राययिषकः-षिका, जिज्राययिषिता-त्री, जिज्राययिषन्-न्ती, जिज्राय- यिषिष्यन्-न्ती-ती, जिज्राययिषमाणः, जिज्राययिषिष्यमाणः, जिज्राययिट्- यिषौ-यिषः, जिज्राययिषितः-तवान्, जिज्राययिषुः जिज्राययिषितव्यम्, जिज्राययिषणीयम्, जिज्राययिष्यम्, ईषज्जिज्राययिषः-दुर्जिज्राययिषः-सुजि- ज्राययिषः, जिज्राययिष्यमाणः, जिज्राययिषः, जिज्राययिषितुम्, जिज्राय- यिषा, जिज्राययिषणम्, जिज्राययिषित्वा, प्रजिज्राययिष्य, जिज्राययिषम् २, जिज्राययिषित्वा
इति रूपाणीति विशेषः।
4
प्रासङ्गिक्यः
01
=>
(६३०)
02
=>
(१०-चुरादिः-१८१६। सक। सेट्। उभ। आधृषीयः।)
03
=>
(५९९)
04
=>
[पृष्ठम्०५९९+ २७]
1 {@“तप दाहे”@} 2 आधृषीयः।
‘सन्तापेऽर्थे तपेद् दाहे तापयेत् तपते तपेत्।’ 3 इति देवः।
अस्य धातोः आधृषीयत्वात् णिचो वैकल्पिकत्वं बोध्यम्।
ण्यन्तात्, शुद्धात्, सन्नन्तात्, यङन्ताच्च पूर्वोक्तभौवादिकतपधातुवत् 4 सर्वाण्यपि रूपाणि ज्ञेयानि।
अस्योभयपदित्वात् शानचि--तपमानः-तप्स्यमानः, तितप्समानः, तितप्सिष्यमाणः, इत्यादीनि रूपाण्यधिकानि भवन्ति, इति विशेषः।
5 चित्ततापी इति शुद्धाद्धातोर्णिनिप्रत्यये।
ण्यन्तात् सनि इमानि रूपाणि-- यथा--तितापयिषकः-षिका, तितापयिषिता-त्री, तितापयिषन्-न्ती, तिता- पयिषिष्यन्-न्ती-ती, तितापयिषमाणः, तितापयिषिष्यमाणः, तितापयिट्-ड्- यिषौ-यिषः
तितापयिषितः-तवान्, तितापयिषुः, तितापयिषितव्यम्, तितापयिषणीयम्, तितापयिष्यम्, ईषत्तितापयिषः-दुस्तितापयिषः-सुतिता- पयिषः, तितापयिष्यमाणः, तितापयिषः, तितापयिषितुम्, तितापयिषा, तितापयिषणम्, तितापयिषित्वा, संतितापयिष्य, तितापयिषम् २, तिता- पयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(७०५)
02
=>
(१०-चुरादिः-१८१९। सक। सेट्। उभ।)
03
=>
(श्लो। १३१)
04
=>
(७०४)
05
=>
[[आ। ‘अजरद्वृषवद् विरिक्तपीडः पुनरभ्येत्य विशिष्टचित्ततापि।’ धा। का। ३। ४९।]]