| YouTube Channel

यिषकः-षिका (yiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“रह त्यागे”@} 2 3 ज्ञपादिः।
धातुममुं क्षीरस्वामि-मैत्रेयौ पठतः।
4 रहकः-हिका, रिरह- यिषकः-षिका
रहयिता-त्री, रिरहयिषिता-त्री
इत्यादीनि रूपणि समस्तान्यपि चौरादिकचहयतिवत् 5 बोध्यानि।
क्विपि- 6 प्ररट्-प्ररड्-प्ररहौ-प्ररहः
ल्यपि- 7 प्ररहय्य 8, णमुलि-रहम् राहम् इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३८७)
02
=>
(१०-चुरादिः-१६२६। सक। सेट्। उभ।)
03
=>
[[१। कथादिषु (अदन्तेषु) उत्तरत्र पठिष्यमाणेन रहधातुनैव रूपाणां सिद्धेः ज्ञपादि- पञ्चकेषु रहधातोः चुरादिष्वेव पूर्वत्र पाठो मा भूदिति क्षीरस्वाम्यादयः। ‘रहयेत्--’ इति श्लोकं (१९५) विवृण्वता पुरुषकारेणापि “--‘रह त्यागे’ कथादिर्भूवादिश्च” इत्युक्तम्। तेन देवस्याप्ययमेव पक्ष इति ज्ञायते। युक्तं चैतत्। यतः ज्ञपादिषु पाठमस्याभ्युपगच्छन्तोऽपि केषाञ्चिन्मतत्वेनैवाभ्यधुः। स्वतन्त्रत्वेन। ज्ञपादिपञ्चकान्तर्भावेन पठितॄणां णमुलि दीर्घविकल्प एक एव कृदन्ते फलमस्येति बोध्यम्।]]
04
=>
[[२। ज्ञपादिषु अस्य धातोः पाठात् मित्त्वेन ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधायाः ह्रस्वः। एवमेव ण्यन्तात्, ण्यन्तप्रकृतिकसन्नन्तादपि उपधाह्रस्वो बोध्यः।]]
05
=>
(५१५)
06
=>
[[३। ‘हो ढः’ (८-२-३१) इति ढत्वे, अवसाने चर्त्वविकल्पे रूपमेवम्।]]
07
=>
[[४। ल्यपि, ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशे रूपमेवम्।]]
08
=>
[[आ। ‘आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्यभितापः।।’ कि। अ। ९। ४।]]
1 {@“श्वठ असंस्कारगत्योः”@} 2 ‘गत्यसंस्कारधात्वर्थे शाठयेत् श्वाठयेदिति।।’ 3 इति देवः।
“इदित् 4 इति दुर्गः।
मैत्रेयोऽपि ‘श्वठीत्येके’” इति माधवः।
‘-- संस्कारगत्योः’ इति मैत्रेयकाशकृत्स्नकातन्त्रशाकटायनादयः।
‘-- गतिसंस्कारयोः’ इति जैनः।
‘-- गत्यसंस्कृतसंस्कृते’ इति वोपदेवः।
‘-- संस्कारे द्रुमे’ इति धा।
का।
व्या।
5।
श्वाठकः-ठिका, शिश्वाठ- यिषकः-षिका
इत्यादिकानि रूपाणि सर्वाण्यपि क्लापयतिवत् 6 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१७९४)
02
=>
(१०-चुरादिः-१५६५। सक। सेट्। उभ।)
03
=>
(श्लो। ८१)
04
=>
[श्वठि]
05
=>
(३-१६)
06
=>
(२८२)