| YouTube Channel

यियावयिषकः-षिका (yiyAvayiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“युञ् बन्धने”@} 2 ‘यावयेत जुगुप्सायाम, मिश्रणे यौति, बन्धने।
युनाति युनीते च…।।’ 3 इति देवः।
यावकः-विका, यावकः-विका, 4 युयूषकः-षिका, 5 यियावयिषकः-षिका, योयूयकः-यिका
योता-योत्री, यावयिता-त्री, युयूषिता-यियावयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककवतिवत् 6 ज्ञेयानि।
7 8 युनन् 9 -ती, युनानः, इति सार्वधातुके रूपमिति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३५२)
02
=>
(९-क्र्यादिः-१४७९। सक। अनि। उभ।)
03
=>
(श्लो। २४)
04
=>
[[७। ‘सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृथूर्णुभरज्ञपिसनाम्’ (७-२-४९) इत्यत्र ऊर्णुञ्साहचर्यात्, ‘निरनुबन्धकग्रहणे सानुबन्धकस्य’ (परि-८३) इति वचनबलाच्च नास्य धातो- र्ग्रहणमिति अनिट्त्वमेवास्येति बोध्यम्। तेन सन्नन्ते सर्वत्र सनः कित्त्वे दीर्घे एवं रूपम्।]]
05
=>
[[८। णिजन्तात् सनि, ‘ओः पुयण्ज्यपरे’ (७-४-८०) इत्यभ्यासस्येकारोऽत्रापि धातौ भवतीति प्रदर्शनार्थं तत्र रूपमुपात्तम्।]]
06
=>
(१९८)
07
=>
[पृष्ठम्१०८६+ ३०]
08
=>
[[१। शतरि, ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्नाप्रत्यये, ‘श्नाभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपे, प्रत्ययस्य ङित्त्वेनाङ्गस्य गुणनिषेधे चैवं रूपम्। शान- जन्तेऽपि प्रक्रियैवमूह्या।]]
09
=>
[[आ। ‘मोदस्कुतोऽथ कबरीं प्रयुनन् रामः…।।’ धा। का। ३। ५।]]