| YouTube Channel

यिका (yikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“टु क्षु शब्दे”@} 2 क्षावकः-विका, क्षावकः-विका, 3 चुक्षूषकः-षिका, 4 चोक्षूयकः यिका
5 क्षविता-त्री, क्षावयिता-त्री, चुक्षूषिता-त्री, चोक्षूयिता-त्री
6 क्षुवन्-ती, क्षावयन्-न्ती, चुक्षूषन्-न्ती
-- क्षविष्यन्-न्ती-ती, क्षावयिष्यन्-न्ती-ती, चुक्षूषिष्यन्-न्ती-ती
-- 7 व्यतिक्षुवाणः, क्षावयमाणः, -- चोक्षूयमाणः
व्यतिक्षविष्यमाणः, क्षावयिष्यमाणः, -- चोक्षूयिष्यमाणः
8 क्षुत्-क्षुतौ-क्षुतः
-- -- -- 9 10 क्षुतम्-तः, क्षावितः, चुक्षूषितः, चोक्षूयितः-तवान्
क्षवः, 11 क्षवणः, क्षावः, चुक्षूषुः, चोक्षुवः
क्षवितव्यम्, क्षावयितव्यम्, चुक्षूषितव्यम्, चोक्षूयितव्यम्
क्षवणीयम्, क्षावणीयम्, चुक्षूषणीयम्, चोक्षूयणीयम्
12 क्षव्यम्, 13 अवश्यक्षाव्यम्, क्षाव्यम्, चुक्षूष्यम्, चोक्षूय्यम्
ईषत्क्षवः-दुःक्षवः-सुक्षवः
-- -- -- 14 क्षूयमाणः, क्षाव्यमाणः, चुक्षूष्यमाणः, चोक्षूय्यमाणः
15 क्षवः, 16 विक्षावः, 17 18 क्षवथुः, क्षावः, चुक्षूषः, चोक्षूयः, क्षवितुम्, क्षावयितुम्, चुक्षूषितुम्, चोक्षूयितुम्
क्षुतिः, क्षावणा, चुक्षूषा, चोक्षूया
क्षवणम्, क्षावणम्, चुक्षूषणम्, चोक्षूयणम्
क्षुत्वा, क्षावयित्वा, चुक्षूषित्वा, चोक्षूयित्वा
प्रक्षुत्य, प्रक्षाव्य, प्रचुक्षूष्य, प्रचोक्षूय्य
क्षावम् २, क्षुत्वा २, क्षावम् २, क्षावयित्वा २, चुक्षूषम् २, चुक्षूषित्वा २, चोक्षूयम्
चोक्षूयित्वा
19 क्षुरः 20।
21
प्रासङ्गिक्यः
01
=>
(३१३)
02
=>
(२-अदादिः-१०३६। अक। सेट्। पर।)
03
=>
[[४। ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘श्र्युकः क्किति’ (७-२-११) इति इण्णिषेधः। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
04
=>
[[५। ‘गुणो यङ्लुकोः’ (७-४-८२) इति अभ्यासस्य गुणः। ‘अकृत्सार्वधातुक--’ (७-४-२५) इति उकारस्य दीर्घः।]]
05
=>
[[६। धातोरस्योदात्तत्वादिण्णिषेधो न।]]
06
=>
[[७। ‘अदिप्रभृतिभ्यः शपः’ (२-४-७२) इति शपो विकरणप्रत्ययस्य लुक्। उवङ्।]]
07
=>
[[८। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्। णत्वम्।]]
08
=>
[[९। ‘ह्रस्वस्य पिति कृति तुक्’ (६-१-७१) इति क्विपि धातोः तुगागमः।]]
09
=>
[पृष्ठम्०३२७+ २४]
10
=>
[[१। ‘श्र्युकः क्किति’ (७-२-११) इति इण्णिषेधः। एवं क्तिनि, क्त्वायां बोध्यम्।]]
11
=>
[[२। ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति ताच्छीलिको युच्।]]
12
=>
[[३। ‘अचो यत्’ (३-१-९७) इति यत्।]]
13
=>
[[४। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्।]]
14
=>
[[५। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।]]
15
=>
[[६। ‘ॠदोरप्’ (३-३-५७) इत्यप् प्रत्ययः भावे।]]
16
=>
[[७। ‘वौ क्षुश्रुवः’ (३-३-२५) इति घञ्।]]
17
=>
[[आ। ‘यात यूयं यमश्रायं दिशं नायेन दक्षिणाम्। विक्षावैस्तोयविश्रावं तर्जयन्तो महोदधेः।।’ भ। का। ७-३६।]]
18
=>
[[८। ‘ट्वितोऽथुच्’ (३-३-८९) इति भावे अथुच् प्रत्ययो भवति।]]
19
=>
[[९। ‘क्षौति = वपनकाले ‘कॄद्’-इति स्वनति इति क्षुरः ‘ऋज्रेन्द्र--’ इत्यादिन औणादिकः रन्।’ इति धातुकाव्यव्याख्याने २-८६।]]
20
=>
[[B। ‘केऽण्यल्परावं नुनुवुः खलेषु क्षुरक्ष्णुतात्मानममुं स्नुतास्राः। सोऽनूर्णुतोऽद्यौत् जनसुत् कुवत्या काञ्च्येव कामं स्तुवतां ब्रुवाणः।।’ धा। का। २-४७।]]
21
=>
[पृष्ठम्०३२८+ २६]
1 {@“दूङ् परितापे”@} 2 स्वादिः।
परितापः = खेदः।
‘दुनोति दूयते तापे, दवतीति गतौ पदम्।।’ 3 इति देवः।
ण्यन्ते, सन्नन्ते, यङन्ते क्रमेण, दावकः-विका, दुदूषकः-षिका, दोदूयकः- यिका
इत्यादीनि रूपाणि तौदादिककूङ्धातुवत् 4 ज्ञेयानि।
शुद्धात् तु इमानि रूपाणि भवन्तीति विशेषः।
यथा-दावकः-विका, दविता-त्री, दूयमानः, दविष्यमाणः, प्रदूः-प्रदुवौ-प्रदुवः, 5 दूनम् 6 -दूनः-दूनवान्, दवः, दवितव्यम्, दवनीयम्, दव्यम्- 7 अवश्यदाव्यम्, ईषद्दवः-दुर्दवः-सुदवः, दूयमानः, दवः, दवितुम्, दूतिः, दवनम्, दूत्वा, प्रदूय, दावम् २-दूत्वा
--इति।
प्रासङ्गिक्यः
01
=>
(८५५)
02
=>
(४-दिवादिः-११३३। अक। सेट्। आत्म।)
03
=>
(श्लो। २२)
04
=>
(२३८)
05
=>
[[२। धातोरस्य सेट्त्वेऽपि, ‘श्रयुकः क्किति’ (७-२-११) इति क्ङिति प्रत्यये परतः गुणनिषेधः। तेन निष्ठा, क्तिन्, क्त्वा प्रत्ययेषु इण्णिषेधो ज्ञेयः। अत्र, ‘स्वादय ओदितः’ (ग। सू। दिवादौ) इत्यनेन ओदित्त्वस्यातिदेशात्, ‘ओदितश्च’ (८-२-४५) इति निष्ठानत्वम्।]]
06
=>
[[B। ‘किं सूयसे गिरमदून नितान्तदीनामुड्डीनकाकसम भूपतिधीनमेतत्।’ धा। का। २। ५८।]]
07
=>
[[३। ‘ओरावश्यके’ (३-१-१२५) इति ण्यति, गुणावादेशयो रूपमेवम्।]]
1 {@“प्सा भक्षणे”@} 2 प्सायकः-यिका, प्सापकः-पिका, पिप्सासकः-सिका, पाप्सायकः- यिका
इत्यादीनि सर्वाण्यपि रूपाणि आदादिकदाप्-धातुवत् 3 4 ज्ञेयानि।
5 प्सापयन्-न्ती-ती, 6 7 प्सातम्, इत्यस्माद् धातोः भवन्तीति विशेषः।
8 प्सातिः, 9 प्रणिप्साता, 10 द्रप्सः।
प्रासङ्गिक्यः
01
=>
(१०८६)
02
=>
(२-अदादिः-१०५५। सक। अनि। पर।)
03
=>
(८३३)
04
=>
[पृष्ठम्०९११+ २८]
05
=>
[[१। ‘निगरणचलनार्थेभ्यः--’ (१-३-८७) इति ण्यन्तात् कर्तृगामिन्यपि क्रियाफले परस्मैपदमेव। तेन शानच् न।]]
06
=>
[इदमेषां]
07
=>
[[२। ‘क्तोऽधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’ (३-४-७६) इति अधिकरणे क्तप्रत्ययः। प्रत्यवसानार्थाः = भक्षणार्थकाः धातवः।]]
08
=>
[[आ। ‘स्नान्त्यस्तदा श्राणमुपाश्य चान्नं निद्रां गताः प्सातिपरास्तथाऽन्याः।’ धा। का। २। ४९।]]
09
=>
[[३। ‘नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्साति--’ (८-४-१७) इत्यादिना उपसर्गस्थान्निमित्तात् परस्य नेर्णत्वम्।]]
10
=>
[[४। द्रवणेन प्सानीयो द्रप्सः। ‘घञर्थे कविधानम्--’ (वा। ३-३-५८) इति कप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः। पृषोदरादित्वात् (६-३-१०९) द्रवणशब्दस्य द्रादेशः।]]
1 {@“ओ हाङ् गतौ”@} 2 ‘गतौ त्यागे यथासंख्यं जिहीते जहाति च।’ 3 इति देवः।
हायकः-यिका, हापकः-पिका, जिहासकः-सिका, जाहायकः यिका
हानः-हानवान्, हायनः, हानिः इत्यादीनि रूपाणि जौहोत्यादिकददातिवत् 4 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१९९९)
02
=>
(३-जुहोत्यादिः-१०८९। सक। अनिट्। आत्म।)
03
=>
(श्लो। ११)
04
=>
(८३०)