| YouTube Channel

यासकः-सिका (yAsakaH-sikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“यसु प्रयत्ने”@} 2 यासकः-सिका, यासकः-सिका, यियसिषकः-षिका, यायसकः-सिका
यस्ता-यस्त्री, यासयिता-त्री, यियसिषिता-त्री, यायसिता-त्री
3 इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकग्रसतिवत् 4 ज्ञेयानि।
शतरि-- 5 यस्यन्-न्ती, यसन्-न्ती, प्रयस्यन्- 6 आयस्यन्-न्ती, 7 संयस्यन्-संयसन्-न्ती, 8 आयासी, 9 10 आयासयन्-न्ती, आयासयमानः, 11 यस्त्वा-यसित्वा, 12 प्रयासी, यस्तः-यस्तवान् इतीमानि रूपाण्यस्य विशेषेण भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१३४२)
02
=>
(४-दिवादिः-१२१०। अक। सेट्। पर।)
03
=>
[पृष्ठम्१०७५+ २८]
04
=>
(४४०)
05
=>
[[१। शतरि दिवादित्वात् नित्यं श्यन्प्रत्यये प्राप्ते, ‘यसोऽनुपसर्गात्’ (३-१-७१) इति विकल्पेन श्यन्। पक्षे औत्सर्गिके शपि यसन्-न्ती इति रूपमिति बोध्यम्।]]
06
=>
[[आ। ‘अथायस्यन् कषायाक्षः स्विन्नःस्वेदकणोल्बणः।’ भ। का। ५। ८३।]]
07
=>
[[२। ‘संयसश्च’ (३-१-७२) इति संपूर्वकादपि श्यन्विकल्पः। ‘-- अनुपसर्गात्’ (३-१-७१) इत्युक्तत्वात् अप्राप्तेऽनेन सूत्रेण सम्पूर्वकस्यापि वैकल्पिकः श्यन् इति ज्ञेयम्।]]
08
=>
[[३। तच्छीलादिषु कर्तृषु ‘सम्पृचानुरुधाङ्यमाङ्यस--’ (३-२-१४२) इत्यादिना धिनु- ण्प्रत्यये रूपमेवम्।]]
09
=>
[[B। ‘संज्वारिणेव मनसा ध्वान्तमायासिना मया।’ भ। का। ७। ६।]]
10
=>
[[४। प्रयत्नस्य चित्तवत्कर्तृकत्वादस्मात् ण्यन्तात् ‘अणावकर्मकात्--’ (१-३-८८) इत्यादिना परस्मैपदे प्राप्ते, ‘न पादम्याङ्यमाङ्यस--’ (१-३-८९) इत्यादिना आङ्पूर्वकात् परस्मैपदनिषेधः। तेन परगामिनि क्रियाफले परस्मैपदम्, आत्मगामिनि क्रिया- फले तु ‘णिचश्च’ (१-३-७४) इति आत्मनेपदं भवतीति ज्ञेयम्। एतच्च माधवा- द्यनुरोधेनोक्तम्। क्षीरस्वामी तु-- “-- ‘न पादमि--’ (१-३-८९) इति तङ्-- आयासयते।” इत्युक्तवान्। तेनास्य मते परस्मैपदनिषेधादात्मनेपदमेव न्याय्यमिति ज्ञायते। वस्तुतस्तु माधवोक्तमेव न्याय्यमित्यलम्।]]
11
=>
[[५। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। तेन रूपद्वयम्। एतेन निष्ठायामिण्निषेधे यस्तः, यस्तवान् इति रूपनिष्पत्तिरिति ज्ञेयम्।]]
12
=>
[[६। बाहुलकात्, ग्रह्यादेराकृतिगणत्वेन ‘आवश्यकाधमर्ण्ययोर्णिनिः’ (३-३-१७०) इत्यने- नावश्यकार्थे वा प्रपूर्वकादस्मात् णिनिप्रत्यये प्रयासी इति रूपम्। वस्तुतः प्रपूर्वकादस्माद्घञि, घञन्तात् मत्वर्थीय इनिप्रत्ययेऽपि रूपनिष्पादनं न्याय्यमिति बोध्यम्।]]