| YouTube Channel

यावानी (yAvAnI)

 
शब्दकल्पद्रुमः
Sanskrit
यावानी,
स्त्री,
(दुष्टो यवः “यवाद्दोषे ।”४ ४९ इत्यस्य वर्त्तिकोक्त्याङीष् आनुगागमश्च पक्षे स्वार्थे कन् ।)ओषधिभेदः योयानि इति भाषा तत्पर्य्यायः ।दीप्यकः दीप्यः यवसाह्वः यवाग्रजः ५दीपनी उग्रगन्धा वातारिः भूकद-म्बकः यवजः १० दीपनीयः ११ शूलहन्त्री १२यवानिका १३ उग्रा १४ तीव्रगन्धा १५ ।अस्या गुणाः कटुत्वम् तिक्तत्वम् उष्ण-त्वम् वातार्शःश्लेष्मशूलाध्मानकृमिच्छर्द्दिनाशि-त्वम् दीपनत्वञ्च इति राजनिर्घण्टः
अपिच अथ यवान्या नामगुणाः ।“यवानिकोग्रगन्धा ब्रह्मदर्भाजमोदिका ।सवोक्ता दीप्यका दीप्या तथा स्याद्यवसाह्वया
यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः ।दीपनी तथा तिक्ता पित्तला शुक्रशूलहृत् ।वातश्लेष्मोदरानाहगुल्मप्लीहकृमिप्रणुत्
अथ अजमोदाया नामानि गुणाश्च ।अजमोदा खराश्वा मायूरी दीप्यकस्तथा ।तथा ब्रह्मकुशा प्रोक्ता कारवी लोचमस्तका
अजमोदा कटुस्तीक्ष्णा दीपनी कफवातनुत् ।उष्णा विदाहिनी हृद्या वृष्या बलकरी लघुः
नेत्रामयकृमिच्छर्द्दिहिक्कावस्तिरुजो हरेत्
अथ खुरासानीयवानीनामगुणाः ।पारसीकयवानी तु यवानीसदृशी गुणः ।विशेषात् पाचनी रुच्या ग्राहिणी मादिनीगुरुः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे