| YouTube Channel

यावनाली (yAvanAlI)

 
शब्दकल्पद्रुमः
Sanskrit
यावनाली,
स्त्री,
(यवनालस्य विकारः यव-नाल + अण् ततो ङीप् ।) यावनालशर्करा ।तत्पर्य्यायः हिमोत्पन्ना हिमानी हिम-शर्करा क्षुद्रशर्करिका क्षुद्रा गडभा ७जलविन्दुजा अस्या गुणाः गौल्यत्वम् ।उष्णत्वम् तिक्तत्वम् अतिपिच्छिलत्वम् ।वातघ्नत्वम् सारकत्वम् रुच्यत्वम् दाह-पित्तास्रदायित्वञ्च इति राजनिर्घण्टः
वाचस्पत्यम्
Sanskrit
यावनाली स्त्री यवनालस्य विकारः अण् ङीप् यव-नालभवायां शर्करायाम् राजनि०