| YouTube Channel

यावनालशरः (yAvanAlazaraH)

 
शब्दकल्पद्रुमः
Sanskrit
यावनालशरः,
पुं,
(यावनाल इव शरः ।) शर-मेदः जोहुरली इति हिन्दी भाषा तत्प-र्य्यायः नदीजः दृढत्वव् वारिसम्भवः ४यावनालनिभः खरपत्रः अस्य मूल-गुणाः ईषन्मधुरत्वम् रुच्यत्वम् शीतत्वम् ।पित्ततृषानाशित्वम् पशूनामबलप्रदत्वञ्च इतिराजनिर्घण्टः