| YouTube Channel

यामुनं (yAmunaM)

 
शब्दकल्पद्रुमः
Sanskrit
यामुनं,
क्ली,
(यमुनायां भवम् यमुना + अण् ।यमुनाया इदमित्यण् वा ।) श्रोतोऽञ्जनम् इत्य-मरः १००
(अस्य पर्य्यायो यथा, --“अञ्जनं यामुनञ्चापि कापोताञ्जनमित्यपि ।तत्तु श्रोतोऽञ्जनं कृष्णं सौवीरं श्वेतमीरितम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)पुं, जनपदभेदः यथा, भागवते १० ३४ ।“कुरुजाङ्गलपाञ्चालान् शूरसेनान् यामुनान् ।ब्रह्मावर्त्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ
”पर्व्वतविशेषः यथा, रामायणे ४० २१ ।“कालिन्दीं यमुनां रम्यां यामुनञ्च महा-गिरिम् ।”तीर्थभेदः यथा, महाभारते ८४ ४१ ।“यमुनाप्रभवं गत्वा समुपस्पृश्य यामुनम् ।अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते
”)यमुनासम्बन्धिनि, त्रि (यथा, प्रायश्चित्ततत्त्वे ।“त्रिभिः सारस्वतं तोयं सप्तभिस्त्वथ यामुनम् ।नार्म्मदं दशभिर्मासैर्गाङ्गं वर्षेण जीर्य्यति
”)