| YouTube Channel

यामित्रं (yAmitraM)

 
शब्दकल्पद्रुमः
Sanskrit
यामित्रं,
क्ली,
लग्नात् सप्तमराशिः यथा, --“धीस्थानं पञ्चमं ज्ञेयं यामित्रं सप्तमं स्मृतम् ।द्युनं द्यूनं तथास्ताख्यं षट्कोणं रिपुमन्दिरम्
”यामित्रवेधो यथा, --“पापात् सप्तमगः शशी यदि भवेत् पापेनयुक्तोऽथवायत्नेनाशु विवर्जयन्मुनिमतो दोषोऽप्ययं कथ्यते ।यात्रायां विपदो गृहे सुतवधः क्षौरेषु रोगोद्-भवो-ऽप्युद्वाहे विधवा व्रते तु मरणं शूलञ्च पुंस्कर्म्मणि
रविमन्दकुजाक्रान्त्रं मृगाङ्कात् सप्तमं त्यजेत् ।विवाहयात्राचूडासु गृहकर्म्मप्रवेशने
”इति यामित्रवेधः
*
अस्य प्रतिप्रसवो यथा ।“मूलत्रिकोणनिजमन्दिरगोऽथ पूर्णोमित्रर्क्षसौम्यगृहगोऽथ तदीक्षितो वा ।यामित्रवेधविहितानपहृत्य दोषान्दोषाकरः सुखमनेकविधं विधत्ते
”इति ज्योतिस्तत्त्वम्