| YouTube Channel

यामिकभटः (yAmikabhaTaH)

 
शब्दकल्पद्रुमः
Sanskrit
यामिकभटः,
पुं,
(यामे यामे नियुक्तः याम +ठक् चासौ भटश्चेति ।) प्रहरिकः चौकी-दार इति भाषा यथा, --“उन्नादाम्बुदवर्द्धितान्धतमसः प्रभ्रष्टदिङ्मण्डलेकाले जाग्रदुदग्रयामिकभटप्रारब्धकोलाहले ।कर्णस्यासुहृदर्णवाम्बुवडवावह्नेर्यदन्तःपुरा-दायातासि यदम्बुजाक्षि ! कृतकं मन्ये भयंयोषिताम्
”इति कर्णाटः