| YouTube Channel

यामार्द्धं (yAmArddhaM)

 
शब्दकल्पद्रुमः
Sanskrit
यामार्द्धं,
क्ली,
(यामस्यार्द्धम् ।) प्रहरस्यार्द्धम् ।तस्याधिपा यथा, --“वारेशादर्द्धयामेषु रात्र्यह्नोः पञ्च षट्क्रमात् ।अधिपाः स्युर्ग्रहास्तत्र यथार्काहे भवन्ति हि
रवीज्येन्दुभृगुक्ष्माजशनिज्ञरवयो निशि ।रविशुक्रज्ञरात्रीशशनीज्यकुजभास्कराः
दिने तूह्याः परेष्वेवं तत्राध्यक्षाश्चतुर्ग्रहाः ।पापदण्डे भवेद्रिष्टिः शुभदण्डे शुभं भवेत्
शुभग्रहस्य दण्डे तु कर्म्मारम्भाच्छुभं भवेत् ।आरम्भात् पापदण्डे तु कर्म्म निष्फलतां व्रजेत्
यस्यार्द्धयामस्तस्यैव प्राग्दण्डः समुदाहृतः ।षट् षट् परीत्य दण्डाश्च त्रयो रात्रौ मतास्तथा
यामार्द्धाधिपसंख्यातो द्बितीयस्तु तदर्द्धतः ।तदर्द्धात्तु तृतीयः स्यात्तदर्द्धात्तु तुरीयकः
अङ्काभावे तु राहुः स्यात्तदङ्को वसुसंख्यकः ।भग्नाङ्कस्य परित्यागाद्दिवादण्डाधिपा यथा
”इति ज्जोतिषतत्त्वम्