| YouTube Channel

याप्यः (yApyaH)

 
Wordnet
Sanskrit
Synonyms:
अधम, प्रतिकृष्ट, अवमः, निकृष्ट, अर्वा, रेफः, याप्यः, कुत्सितः, अवद्यः, कुपूयः, खेटः, गर्ह्यः, अणकः, रेपः, अरमः, आणकः, अनकः
adjective
यद् अत्यन्तम् अपकृष्टम् अस्ति।
"तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।"
शब्दकल्पद्रुमः
Sanskrit
याप्यः, त्रि, (यापि + यत् ।) अधमः निन्दितः ।इत्यमरः ५४
(यथा, बृहत्संहितायाम् ।१९ २२ ।“यदशुभमशुभेऽब्दे मासजं तस्य वृद्धिःशुभफलमपि चैवं याप्यमन्योऽन्यतायाम्
”)यापनीयः (यथा, सुश्रुते निदानस्ताने प्रथमेअध्याये ।“शोणितं तदसाध्यं स्यात् याप्यं संवत्सरोत्थि-तम्
”)क्षेपणीयकालादिः इति मेदिनी ये, ४८
व्याधिविशेषः यथा, --“साध्या याप्या असाध्याश्च व्याधयस्त्रिविधाःस्मृताः ।सुखसाध्यः कष्टसाध्यो द्बिविधः साध्य उच्यते
याप्यलक्षणमाह ।यापनीयन्तु तं विद्यात् क्रियां धारयते हिताम् ।क्रियायान्तु निवृत्तायां सद्यो यश्च विनश्यति
प्राप्ता क्रिया धारयति सुखिनं याप्यमातुरम् ।प्रपतिष्यदिवागारं स्तम्भो यत्नेन योजितः
साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा ।घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम्
अक्रियावतां चिकित्सारहितानाम् ।” इतिभावप्रकाशः