| YouTube Channel

यापकः-पिका (yApakaH-pikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“या प्रापणे”@} 2 प्रापणम् = गतिः।
यायकः-यिका, यापकः-पिका, यियासकः-सिका, यायायकः-यिका
याता-त्री, यापयिता-त्री, यियासिता-त्री
यायायिता-त्री, इत्यादिकानि सर्वाण्यपि रूपाणि 3 आदादिकभातिवत् 4 ज्ञेयानि।
5 प्रणियान्-ती-न्ती, 6 यानीयः, 7 येयः, 8 अध्वन्यतुरङ्गयायी, 9 अनुयायी, 10 प्रयायी-प्रतियायी, 11 सङ्ग्रामयायी, 12 13 शुभंयाः अभियाः 14, 15 यायावरः, 16 प्रयाणम्, 17 प्रयापणम्-प्रयापनम्, 18 19 अययः, 20 प्रयियासयन्तः, 21 22 अप्रयाणिः, 23 ययातिः, 24 याता, 25 इत्युप्रत्यये द्विर्वचने, ङिद्वद्भावेनाकारलोपे रूपम्।
ययुः = अश्वमेथीयः, स्वर्गमार्गश्च।]] ययुः, 26 इति कुप्रत्यये, आकारलोपे रूपाण्येतानि।
अत्रैव गणे अध्वरशब्दस्यान्तलोपश्च निपातनादेवेति ज्ञेयम्।
मृगयुः = व्याधः, देवयुः = धार्मिकः।
केवलयुः = मानी।
ग्रहयुः = ग्रहपतिः, मित्रयुः = मित्र- बत्सलः, ऋषिविशेषश्च।
मन्त्रयुः = मन्त्री, अध्वर्युः = ऋत्विग्विशेषः।
मृगम् आत्मन इच्छतीत्यर्थे ‘सुप आत्मनः क्यच्’ 27 इति क्यच्प्रत्यये, ‘सना- द्यन्ता धातवः’ 28 इति धातुसंज्ञायाम्, ‘क्याच्छन्दसि’ 29 इति उप्रत्यये रूपनिष्पत्तिरपीदृशस्थलेषु नानुपपन्नेति ज्ञेयम्।
तथाहि-- ‘मित्रयुः, संस्वेदयुः, सुम्नयुः’ इतीमानि काशिकायाम् एवमेव 30 साधितानि।]] मृगयुः-देवयुः-केवलयुः-ग्रहयुः-मित्रयुः-मन्त्रयुः-अध्वर्युः, 31 इति तुप्रत्यये रूपमेवम्।
यातुः = पावकः, मनश्च।
राक्षस इति क्षीरस्वामी।]] यातुः, 32 मन्प्रत्यये रूपम्।
यामः = कालविशेषः।]] यामः, 33 इति त्रन्प्रत्ययः।
यात्रा = गमनम्, आचारश्च।
अभ्यवहार इति केचित्।]] यात्रा।
प्रासङ्गिक्यः
01
=>
(१३४३)
02
=>
(२-अदादिः-१०४९। सक। अनि। पर।)
03
=>
[पृष्ठम्१०७६+ २९]
04
=>
(११५३)
05
=>
[[१। शतरि, अदादित्वाच्छपो लुकि, ‘नेर्गदनदपतपदघुमास्यतिहन्तियाति--’ (८-४-१७) इत्यादिना उपसर्गस्थान्निमित्तात् परस्य नेर्णत्वे रूपमेवम्। स्त्रियाम्, ‘आच्छीनद्योः--’ (७-१-८०) इति नुम्विकल्पः।]]
06
=>
[[२। ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति बाहुलकत्वाभ्यनुज्ञानादत्र करणेऽनीयर्- प्रत्ययः। यान्त्यनेनेति यानीयः = अश्वः।]]
07
=>
[[३। कर्मणि यत्प्रत्यये, ‘ईद् यति’ (६-४-६५) इतीकारे गुणे रूपमेवम्।]]
08
=>
[[४। अध्वन्यतुरङ्गेन यातीति अध्वन्यतुरङ्गयायी। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिप्रत्ययः। ‘आतो युक्--’ (७-३-३३) इति युगागमः। एवम् अनुयायी इत्यत्रापि रूपनिष्पत्तिर्ज्ञेया। उपसर्गोपपदेऽप्यनेन णिनिरिति भाष्यादौ स्पष्टम्।]]
09
=>
[[आ। ‘क्षिप्रं ततोऽध्वन्यतुरङ्गयायी यविष्ठवद् वृद्धतमोऽपि राजा।’ भ। का। २। ४४।]]
10
=>
[[५। ‘भविष्यति गम्यादयः’ (३-३-३) इत्यत्र गम्यादिगणे पाठात् औणादिके णिनि- प्रत्यये युगागमे रूपमेवम्। भविष्यत्कालेऽयं प्रत्यय इति ज्ञेयम्। आयायी इति काशिका (३-३-३) पाठः।]]
11
=>
[[६। ‘आवश्यकाधमर्ण्ययोर्णिनिः’ (३-३-१७०) इत्यावश्यकार्थे णिनिप्रत्यये रूपमेवम्।]]
12
=>
[[B। ‘स्मरन्तः पश्चिमामाज्ञां भर्तुः सङ्ग्रामयायिनः।’ रघुवंशे--१७। ८।]]
13
=>
[[७। शुभं यातीति शुभंयाः = शुभान्वितः। ‘क्विप् च’ (३-२-७६) इति क्विप्।]]
14
=>
[[C। ‘अभियाऽअतऽऽआवरं तुङ्गं भूभृतं रुचिरं पुरः।’ भ। का। १०-२१।]]
15
=>
[[८। यङन्तात्, ‘यश्च यङः’ (३-२-१७६) इति ताच्छीलिके वरचि द्विर्वचनादि- केषु रूपमेवम्। अत्र धातोरस्य गत्यर्थकत्वात् ‘नित्यं कौटिल्ये गतौ’ (३-१-२३) इति कौटिल्यार्थे = कुटिलं गच्छतीत्यर्थ एव यङ्--इति प्राञ्चः। अन्ये तु यायावरः इत्यस्य एकत्रानियतस्थानार्थकतया विवरणात्, मुनिविशेषे पद- स्यास्य रूढत्वादत्र कौटिल्यार्थकयङोऽसंम्भवात्, ‘धातोरेकाचो हलादेः--’ (३-१-२२) इत्यादिना क्रियासमभिहारे (= पौनःपुन्ये, भृशार्थो वा) यङेव इति वदन्ति।]]
16
=>
[[ड्। ‘यायावरा लाक्षणिकाः कठाश्च कौशिक्यनुब्राह्मणिपैप्पलादाः।’ वा। वि। ३। १८।]]
17
=>
[[९। ‘णेर्विभाषा’ (८-४-३०) इति णत्वविकल्पः। प्रयाणम् इत्यत्र तु ‘कृत्यचः’ (८-४-२९) इति नित्यं णत्वमिति बोध्यम्।]]
18
=>
[पृष्ठम्१०७७+ २९]
19
=>
[[१। अयः = शुभावहो विधिः, अयं यातीति अययः। ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कर्तरि कप्रत्ययः।]]
20
=>
[[आ। ‘स सासिः साससूः सासो येयायेयाययाययः।’ किरातार्जुनीये १५-५।]]
21
=>
[[B। ‘अशिश्रवन् आत्ययिकं तमेत्य दूता यदार्थं प्रयियासयन्तः।’ भ। का। ३। २५।]]
22
=>
[[२। ‘आक्रोशे नञ्यनिः’ (३-३-११२) इति नञुपपदादस्माद् अनिप्रत्ययः। आक्रोशः = शापः।]]
23
=>
[[३। “क्तिनि बाहुलकाद् द्विर्वचनम्” इत्यात्रेयः--इति मा। धा। वृत्तिः। स्त्रिया- मेव क्तिनो विधानात् क्तिचस्तु पुंंल्लिङ्गेऽपि सद्भावात् क्तिचि, बाहुलकादेव द्विर्वचन- मिति ज्ञेयम्।]]
24
=>
[[४। ताच्छीलिके, औणादिके वा तृनि, रूपमेवम्। स्त्रियाम्, ‘न षट्स्वस्रादिभ्यः’ (४-१-१०) इति ङीब्निषेधः। याता = देवरपत्नी।]]
25
=>
[[५। ‘यो द्वे च’ [द। उ। १-१०६]
26
=>
[[६। ‘मृगय्वादयश्च’ [द। उ। १-१२१]
27
=>
(३-१-८)
28
=>
(३-१-३२)
29
=>
(३-२-१७०)
30
=>
(३-१-१७०)
31
=>
[[७। ‘कमिमनिजनिगाभापाया--’ [द। उ। १-१२५]
32
=>
[[८। औणादिके [द। उ। ७-२६]
33
=>
[[९। ‘हुयामा--’ [द। उ। ८-८४]