| YouTube Channel

यानं (yAnaM)

 
Apte 1890
English
यानं [या-भावे ल्युट्] 1 Going, moving, walking, riding
as गजयानं, उष्ट्र°, रथ° &c.
2 A voyage, journey
मुद्रयानकुशलाः Ms. 8. 157
Y. 1. 84.
3 Marching against, attacking (one of the six Guṇas or expedients in politics)
अहितान्प्रत्यभीतस्य रणे यानं Ak.
Ms. 7. 160.
4 A procession, train.
5 A conveyance, vehicle, carriage, chariot
यानं सस्मार कौबेरं R. 15. 45, 13. 69
Ku. 6. 76
Ms. 4. 120.
6 A litter, palanquin.
नः Ved. A road, way.
Comp.
करः a carpenter.
पात्रं a ship, boat.
भंगः shipwreck.
मुखं the forepart of a carriage, the part where the yoke is fixed.
यानं driving or riding in a carriage.
शाला a coachhouse.
शब्दकल्पद्रुमः
Sanskrit
यानं,
क्ली,
(या + ल्युट् अर्द्धर्च्चादित्वात् पुंलिङ्ग-मपि ।) राज्ञां सन्ध्यादिषड्गुणान्तर्गतगुण-विशेषः तत्तु उपचितशक्तेः कृतमूलराष्ट्र-रक्षस्य शत्रोरास्कन्दनाय यात्रा इति भरतः
(यथा, देवीभागवते ११ ।“यानमप्यधुना नैव कर्त्तव्यं सहसा पुनः
”यान्त्यनेनेति या + ल्युट् ।) हस्त्यश्वरथदोलादि ।तत्पर्य्यायः वाहनम् युग्यम् पत्रम् धोर-णम् इत्यमरः ५८
विमानम् चङ्कु-रम् यापनम् गतिमित्रकम् इति शब्द-रत्नावली
*
(यथा, मनुः ६४-६५ ।“शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः ।गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया
अयाज्ययाजनैश्चैव नास्तिक्येन कर्म्मणाम् ।कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः
”)अथ चतुष्पदयानीद्देशः ।“ये ब्रह्मजात्यादिविभेदतोऽमीमया निरुक्ता इह वाजिमुख्याः ।दिशानया सर्व्वचतुष्पदानांभेदो विधेयो विदुषादरेण
तथा यथाश्वादिकपोषणेनयानेन वा दोषगुणौ भवेताम् ।तथा तथैवान्यचतुष्पदानांप्रकीर्त्तितौ दोषगुणौ बुधेन
वरमयानमपोषणमेव वावरमिवान्यशरीरमपोषणम् ।न खलु दोषयुतं चतुष्पदंस्तृशति पश्यति शोभनचेतनः
सुराविन्दुर्दूषयति पयोघटशतं यथा ।तथा सर्व्वं दूषयति दोषदुष्टश्चतुष्पदः
”इति चतुष्पदयानोद्देशः
*
अथ द्बिपदयानोद्देशः ।“मानुषैः पक्षिभिर्व्वापि तथान्यैर्द्विपदैरपि ।यानं स्याद्द्विपदं नाम तस्य भेदो ह्यनेकधा
सामान्यञ्च विशेषश्च तस्य भेदो द्विधा भवेत्
”तत्र सामान्यं यथा, --“यानं यद्द्विपदाभ्यां सत् तद्दोलादिकमुच्यते ।चतुर्भिर्युक्तिसंयुक्तैर्दण्डधातुगुणाम्बरैः ।दोलेति कथ्यते तेषां नियमोऽयं प्रदर्श्यते
”तत्र समयः ।“उपेन्द्रमूलाहिशिवाग्निवर्जंशस्तेन्दुतारातिथियोगलग्ने ।वृष्टिक्षमापुत्त्रयमाहवर्जंदोलादिकारोहणमाद्यमिष्टम्
दण्डकाष्ठस्य नियमे नियमश्छत्रदण्डवत् ।कनकं रजतं ताम्रं लौहं धातुचतुष्टयम्
चतुर्विधानामुद्दिष्टं ब्रह्मादीनां यथाक्रमम् ।सुराणामसुराणाञ्च चातुर्व्वर्ण्यमुदाहृतम्
त्रिहस्तसम्मितो मध्ये तदर्द्धं पार्श्वयोर्द्वयोः ।विजया नाम दोलेयं विजयाय महीक्षिताम्
विजया मङ्गला क्रूरा शिवा क्लेशा शुभा क्रमात् ।वितस्त्येकैकसंवृद्ध्या दोलाः षट् स्युः सुखान्नदाः
कुम्भश्च पद्मकोषश्च शङ्खः पर्व्वत एव ।चतुर्विधानां दोलासु कल्याणाय चतुष्टयम्
हंसः केकी शुको भृङ्गश्चतुष्टयमिदं क्रमात् ।कुम्भाद्यग्रे निधातव्यं चतुर्विधमहीक्षिताम्
अत्रापि वर्त्मविन्यासो विज्ञेयो नवदण्डवत्
”भोजस्तु ।“गजः प्रस्थानदोलायां रणदोलासु केशरी ।मृगो भ्रमणदोलायां क्रीडादोलासु षट्पदः
भुजङ्गमः शत्रुराज्ये वृषभो दानकर्म्मणि ।दोलोपर्य्युपरि न्यस्यो बहुभिर्मुनिशासनम्
यद्वक्रदण्डं यानं स्यात् तत् पर्य्यङ्कमिति स्मृतम् ।त्रिहस्तसम्मितो यानस्तदर्द्धपरिणाहवान् ।पर्य्यङ्कः क्षेमनामायं भर्त्तुः सर्व्वार्थसाधकः
क्षेमो मृत्युर्जयो दुःखश्चत्वारस्ते यथाक्रमम् ।वितस्त्येकैकसंवृद्ध्या यथा चाणुर्न सङ्गिनः
मणिधातुगुणादीनां नियमः पूर्व्ववन्मतः ।विशेषमथ वक्ष्यामि पर्य्यङ्कस्य यथाक्रमम्
शुक्तिश्च गजदन्तश्च मृगशृङ्गन्तथैव ।अनूपादिकजातानां पर्य्यङ्केषु न्यसेत् क्रमात्
पद्मशङ्खगजाश्वालिहंसकोकशुकान् क्रमात् ।आदित्यादिदशाजानां मणिरूपेण विन्यसेत्
महीन्द्राणां विशेषेण सिंहमानेव शस्यते ।निर्म्माणे शुक्तिदण्डाश्च राज्यभोगसुखप्रदाः
तदेवावक्रदण्डन्तु खट्टायानमिति स्मृतम् ।अस्यापि पूर्व्ववन्मानमणिधात्वादिनिर्णयः
विशेषश्चरणोच्छ्रायः परिणाहार्द्धसम्मितः ।तदेव चेन्निश्चरणं पीठयानमिति स्मृतम्
तस्य भेदो द्विधा दण्डवक्रावक्रप्रभेदतः ।मानादिकं पूर्व्वतुल्यं विशेषाच्चतुरस्रता
एवमन्यानि मिश्राणि यानानि विविधानि ।सामान्याख्यानि जानीयात् शिल्पिभिर्निर्म्मि-तानि वै
मनोहरत्वं लघुता दृढतेति गुणत्रयम् ।प्रोक्तं द्बिपदयानानां सहजं भोजभूभुजा
इति सामान्यद्विपदयानकथनम्
”इति युत्तिकल्पतरुः
*
विशेषद्विपदयानन्तुचतुर्दालशब्दे निष्पदयानोद्देशस्तु नौकाशब्देद्रष्टव्यम्
(फलप्राप्तिहेतौ, त्रि यथा, ऋग्वेदे ।१० ११० ।“तनूनपात् पथ ऋतस्य यानान्मध्वा समञ्जन् स्वदयासुजिह्व
”“यानान् फलप्राप्तिहेतून् पथो मार्गान् ।” इतितद्भाष्ये सायणः
या + भावे ल्युट् गतिः ।यथा, वाभटे शारीरस्थाने षष्ठेऽध्याये ।“यानं खरोष्ट्रमार्ज्जारकपिशार्द्दलशूकरैः ।यस्य प्रतैः शृगालैर्वा मृत्योर्वर्त्तते मुखे
”)