याता-त्री (yAtA-trI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“या प्रापणे”@} 2 प्रापणम् = गतिः।
यायकः-यिका, यापकः-पिका, यियासकः-सिका, यायायकः-यिका
याता-त्री, यापयिता-त्री, यियासिता-त्री
यायायिता-त्री, इत्यादिकानि सर्वाण्यपि रूपाणि 3 आदादिकभातिवत् 4 ज्ञेयानि।
5 प्रणियान्-ती-न्ती, 6 यानीयः, 7 येयः, 8 अध्वन्यतुरङ्गयायी, 9 अनुयायी, 10 प्रयायी-प्रतियायी, 11 सङ्ग्रामयायी, 12 13 शुभंयाः अभियाः 14, 15 यायावरः, 16 प्रयाणम्, 17 प्रयापणम्-प्रयापनम्, 18 19 अययः, 20 प्रयियासयन्तः, 21 22 अप्रयाणिः, 23 ययातिः, 24 याता, 25 इत्युप्रत्यये द्विर्वचने, ङिद्वद्भावेनाकारलोपे च रूपम्।
ययुः = अश्वमेथीयः, स्वर्गमार्गश्च।]] ययुः, 26 इति कुप्रत्यये, आकारलोपे च रूपाण्येतानि।
अत्रैव गणे अध्वरशब्दस्यान्तलोपश्च निपातनादेवेति ज्ञेयम्।
मृगयुः = व्याधः, देवयुः = धार्मिकः।
केवलयुः = मानी।
ग्रहयुः = ग्रहपतिः, मित्रयुः = मित्र- बत्सलः, ऋषिविशेषश्च।
मन्त्रयुः = मन्त्री, अध्वर्युः = ऋत्विग्विशेषः।
मृगम् आत्मन इच्छतीत्यर्थे ‘सुप आत्मनः क्यच्’ 27 इति क्यच्प्रत्यये, ‘सना- द्यन्ता धातवः’ 28 इति धातुसंज्ञायाम्, ‘क्याच्छन्दसि’ 29 इति उप्रत्यये रूपनिष्पत्तिरपीदृशस्थलेषु नानुपपन्नेति ज्ञेयम्।
तथाहि-- ‘मित्रयुः, संस्वेदयुः, सुम्नयुः’ इतीमानि काशिकायाम् एवमेव 30 साधितानि।]] मृगयुः-देवयुः-केवलयुः-ग्रहयुः-मित्रयुः-मन्त्रयुः-अध्वर्युः, 31 इति तुप्रत्यये रूपमेवम्।
यातुः = पावकः, मनश्च।
राक्षस इति क्षीरस्वामी।]] यातुः, 32 मन्प्रत्यये रूपम्।
यामः = कालविशेषः।]] यामः, 33 इति त्रन्प्रत्ययः।
यात्रा = गमनम्, आचारश्च।
अभ्यवहार इति केचित्।]] यात्रा।
01 (१३४३)
02 (२-अदादिः-१०४९। सक। अनि। पर।)
03 [पृष्ठम्१०७६+ २९]
04 (११५३)
05 [[१। शतरि, अदादित्वाच्छपो लुकि, ‘नेर्गदनदपतपदघुमास्यतिहन्तियाति--’ (८-४-१७) इत्यादिना उपसर्गस्थान्निमित्तात् परस्य नेर्णत्वे रूपमेवम्। स्त्रियाम्, ‘आच्छीनद्योः--’ (७-१-८०) इति नुम्विकल्पः।]]
06 [[२। ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति बाहुलकत्वाभ्यनुज्ञानादत्र करणेऽनीयर्- प्रत्ययः। यान्त्यनेनेति यानीयः = अश्वः।]]
07 [[३। कर्मणि यत्प्रत्यये, ‘ईद् यति’ (६-४-६५) इतीकारे गुणे च रूपमेवम्।]]
08 [[४। अध्वन्यतुरङ्गेन यातीति अध्वन्यतुरङ्गयायी। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिप्रत्ययः। ‘आतो युक्--’ (७-३-३३) इति युगागमः। एवम् अनुयायी इत्यत्रापि रूपनिष्पत्तिर्ज्ञेया। उपसर्गोपपदेऽप्यनेन णिनिरिति भाष्यादौ स्पष्टम्।]]
09 [[आ। ‘क्षिप्रं ततोऽध्वन्यतुरङ्गयायी यविष्ठवद् वृद्धतमोऽपि राजा।’ भ। का। २। ४४।]]
10 [[५। ‘भविष्यति गम्यादयः’ (३-३-३) इत्यत्र गम्यादिगणे पाठात् औणादिके णिनि- प्रत्यये युगागमे च रूपमेवम्। भविष्यत्कालेऽयं प्रत्यय इति ज्ञेयम्। आयायी इति काशिका (३-३-३) पाठः।]]
11 [[६। ‘आवश्यकाधमर्ण्ययोर्णिनिः’ (३-३-१७०) इत्यावश्यकार्थे णिनिप्रत्यये रूपमेवम्।]]
12 [[B। ‘स्मरन्तः पश्चिमामाज्ञां भर्तुः सङ्ग्रामयायिनः।’ रघुवंशे--१७। ८।]]
13 [[७। शुभं यातीति शुभंयाः = शुभान्वितः। ‘क्विप् च’ (३-२-७६) इति क्विप्।]]
14 [[C। ‘अभियाऽअतऽऽआवरं तुङ्गं भूभृतं रुचिरं पुरः।’ भ। का। १०-२१।]]
15 [[८। यङन्तात्, ‘यश्च यङः’ (३-२-१७६) इति ताच्छीलिके वरचि द्विर्वचनादि- केषु रूपमेवम्। अत्र धातोरस्य गत्यर्थकत्वात् ‘नित्यं कौटिल्ये गतौ’ (३-१-२३) इति कौटिल्यार्थे = कुटिलं गच्छतीत्यर्थ एव यङ्--इति प्राञ्चः। अन्ये तु यायावरः इत्यस्य एकत्रानियतस्थानार्थकतया विवरणात्, मुनिविशेषे पद- स्यास्य रूढत्वादत्र कौटिल्यार्थकयङोऽसंम्भवात्, ‘धातोरेकाचो हलादेः--’ (३-१-२२) इत्यादिना क्रियासमभिहारे (= पौनःपुन्ये, भृशार्थो वा) यङेव इति वदन्ति।]]
16 [[ड्। ‘यायावरा लाक्षणिकाः कठाश्च कौशिक्यनुब्राह्मणिपैप्पलादाः।’ वा। वि। ३। १८।]]
17 [[९। ‘णेर्विभाषा’ (८-४-३०) इति णत्वविकल्पः। प्रयाणम् इत्यत्र तु ‘कृत्यचः’ (८-४-२९) इति नित्यं णत्वमिति बोध्यम्।]]
18 [पृष्ठम्१०७७+ २९]
19 [[१। अयः = शुभावहो विधिः, अयं यातीति अययः। ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कर्तरि कप्रत्ययः।]]
20 [[आ। ‘स सासिः साससूः सासो येयायेयाययाययः।’ किरातार्जुनीये १५-५।]]
21 [[B। ‘अशिश्रवन् आत्ययिकं तमेत्य दूता यदार्थं प्रयियासयन्तः।’ भ। का। ३। २५।]]
22 [[२। ‘आक्रोशे नञ्यनिः’ (३-३-११२) इति नञुपपदादस्माद् अनिप्रत्ययः। आक्रोशः = शापः।]]
23 [[३। “क्तिनि बाहुलकाद् द्विर्वचनम्” इत्यात्रेयः--इति मा। धा। वृत्तिः। स्त्रिया- मेव क्तिनो विधानात् क्तिचस्तु पुंंल्लिङ्गेऽपि सद्भावात् क्तिचि, बाहुलकादेव द्विर्वचन- मिति ज्ञेयम्।]]
24 [[४। ताच्छीलिके, औणादिके वा तृनि, रूपमेवम्। स्त्रियाम्, ‘न षट्स्वस्रादिभ्यः’ (४-१-१०) इति ङीब्निषेधः। याता = देवरपत्नी।]]
25 [[५। ‘यो द्वे च’ [द। उ। १-१०६]
26 [[६। ‘मृगय्वादयश्च’ [द। उ। १-१२१]
27 (३-१-८)
28 (३-१-३२)
29 (३-२-१७०)
30 (३-१-१७०)
31 [[७। ‘कमिमनिजनिगाभापाया--’ [द। उ। १-१२५]
32 [[८। औणादिके [द। उ। ७-२६]
33 [[९। ‘हुयामा--’ [द। उ। ८-८४]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
