| YouTube Channel

यातयिता-त्री (yAtayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“यत निकारोपस्कारयोः”@} 2 3 ‘निराकारे’ इति दैवपाठमुपाश्रित्य पुरुषकारे व्याख्यातम्-- “… ‘निराकारः = परिभवः।’ इति क्षीरस्वामी।
उपस्कारोपसंस्कारयोः पुनः पाठकृतः 4 विप्रवदन्ते।
तथा आख्यातनिघण्टुः-- ‘यत्ने प्रैषे निराकारे यातयेदप्युपस्कृतौ।’ इति।
श्लोकधातुपाठश्च-- ‘यत उपसंस्कारनिकारार्थः निरश्च धान्यधनवाची।’ इति।” इति।
अत्रेदमवधेयम्--माधवधातु- वृत्ति-प्रौढमनोरमाप्रभृतिष्वप्येवमेव क्षीरस्वामिपाठ उद्ध्रियते।
परं तु क्षीरतरङ्गिण्यामधुना पाठोऽन्यादृश एवोपलभ्यत इत्युपर्येव प्रदर्शितम्।
प्रायः सर्वेऽप्याधुनिकाः वैयाकरणाः धातुविषये क्षीरस्वामिमतं पुरुषकारोपात्तस्थलेषु पुरुषकारवाक्यानुसारेणैवोद्धरन्ति
तु स्वयं दृष्टत्वेनेत्य पि ज्ञायते।]] ‘--खेदे च’ इति क।
क।
द्रुमे।
5 ‘यतते तु प्रयत्नार्थे, निराकारे तु यातयेत्।’ 6 इति देवः।
‘निकारः = स्वेदनम्।’ इति क्षीरस्वामी।
‘यत्नः प्रैषो वा निकारः’ इति बालमनोरमा।
‘परिभवसंस्कारौ तौ’ इति धा।
का।
व्याख्या 7।
यातकः-तिका-यियातयिषकः-षिका
यातयिता-त्री, यियातयिषिता-त्री
इत्यादिकानि रूपाणि समस्तान्यपि चौरादिककालयतिवत् 8 ज्ञेयानि।
यातना = तीव्रवेदना।
‘ण्यासश्रन्थः--’ 9 इति युचि रूपम्।
प्रासङ्गिक्यः
01
=>
(१३३६)
02
=>
(१०-चुरादिः-१७३६। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(= ग्रान्थिकाः)
05
=>
[पृष्ठम्१०६८+ ३१]
06
=>
(श्लो। ९६)
07
=>
(३-४०)
08
=>
(१७५)
09
=>
(३-३-१०७)
1 {@“यती प्रयत्ने”@} 2 ‘यतते तु प्रयत्नार्थे, निराकारे तु यातयेत्।’ 3 इति देवः।
यातकः-तिका, यातकः-तिका, यियतिषकः-षिका, यायतकः-तिका
यतिता-त्री, यातयिता-त्री, यियतिषिता-त्री, यायतिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकचेततिवत् 4 ज्ञेयानि।
5 यत्यम्, 6 यत्नः, 7 आयत्तः-आयत्तवान्, 8 यतिः, 9 यतमानः, इतीमानि रूपाण्यस्माद् भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३३७)
02
=>
(१-भ्वादिः-३०। अक। सेट्। आत्म।)
03
=>
(श्लो। ९६)
04
=>
(५२४)
05
=>
[[१। ‘तकिशसिचतियतिजनीनामुपसंख्यानम्’ (वा। ३-१-९७) इति हलन्तलक्षणण्यदप- वादतया यत्प्रत्यये रूपमेवम्।]]
06
=>
[[२। भावे, ‘यजयाचयतविच्छप्रच्छरक्षो नङ्’ (३-३-९०) इति नङ्प्रत्यये रूपम्।]]
07
=>
[[३। निष्ठायाम्, ‘श्वीदितः--’ (७-२-१४) इति इण्निषेधः।]]
08
=>
[[४। सर्वधातुभ्यो विहित औणादिके कर्तरि इन्प्रत्यये रूपमेवम्।]]
09
=>
[[५। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इत्यनेन ताच्छील्यार्थे चानश्प्र- त्यये रूपमेवम्। शानच्प्रत्ययेऽप्येवमेव। यतमानः = यमनियमाद्यङ्गविशिष्टयोगा- भ्यासकविशेषः।]]