याज्ञवल्क्यः (yAjJavalkyaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishयाज्ञवल्क्यः [yājñavalkyḥ], of a celebrated ancient sage, the first reputed teacher of वाजसनेयी संहिता (शुक्ल यजुर्वेद) and the author of a well-known code of laws only next in importance to that of Manu.
Apte 1890
EnglishWordnet
Sanskrit याज्ञवल्क्यः
याज्ञवल्क्यस्य वंशोद्भवाः।
"याज्ञवल्क्येण प्रोक्ता स्मृतिः याज्ञवल्क्यस्मृतिः इति नाम्ना प्रसिद्धा अभवत्।"
याज्ञवल्क्यः
हिन्दूधर्मशास्त्र-प्रयोजक-मुनिविशेषः- रामायणे निर्दिष्टः विद्वान् ऋषिः यः राजा जनकस्य राजसभाम् अलञ्चकार।
"योगीश्वरं याज्ञवल्क्यं सम्पूज्य मुनयोऽब्रुवन्। वर्णाश्रमेतराणां नो ब्रूहि धर्मान् अशेषतः। णिथीलास्थ स योगीन्द्रः क्षणं ध्यात्वा अब्रवीन् मुनीन्॥"
याज्ञवल्क्यः, ब्रह्मरात्रिः, योगेशः, योगीश्वरः
हिन्दूधर्मशास्त्र-प्रयोजक-मुनिविशेषः- यज्ञवल्कस्य पुत्रः सः सूर्यात् शुक्लयजुर्वेदं प्राप्तवान्।
"दैवात् केनापि हेतुना क्रुद्धो गुरुः वैशम्पायनः शिष्यं याज्ञवल्क्यम् अधीतवेदपरित्यागार्थम् आदिष्टवान्।"
याज्ञवल्क्य-उपनिषद्, याज्ञवल्क्यः
एका उपनिषद्।
"याज्ञवल्क्य- उपनिषद् यजुर्वेदेन सम्बन्धिता।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritयाज्ञवल्क्यः, (वल्कयतीति । वल्क + अच् ।यज्ञस्य वल्को वक्ता । तस्य गोत्रापत्यम् ।यज्ञवल्क + “गर्गादिभ्यो यञ् ।” ४ । २ । १०५ ।इति यञ् ।) धर्म्मशास्त्रप्रयोजकमुनिविशेषः ।तत्पर्य्यायः । ब्रह्मरात्रिः २ योगेशः ३ । इतिहेमचन्द्रः ॥
योगीश्वरः ४ । इति मिताक्षरा ॥
(महर्षिरयं याज्ञवल्क्यः सूर्य्यात् शुक्लयजुर्व्वेदंप्राप्तवान् । तत्रादौ ब्रह्मपरम्परया प्राप्तं वेदंवेदव्यासो मन्दमतीन् मनुष्यान् विचिन्त्य तेषुकृपापरः चतुर्धा व्यस्य ऋग्यजुःसामाथर्व्वाख्यां-श्चतुरो वेदान् पैलवैशम्पायनजैमिनिसुमन्तुभ्यःक्रमादुपदिदेश ते च स्वशिष्येभ्यः । तत्र व्यास-शिष्यो वैशम्पायनो याज्ञवल्क्यादिभ्यः स्वशि-ष्येभ्यो यजुर्व्वेदमध्यापयत् । तत्र दैवात् केनापिहेतुना क्रुद्धो गुरुः शिष्यं याज्ञवल्क्यं अधीतवेद-परित्यागार्थमादिष्टवान् । याज्ञवल्क्योऽपि योग-बलेन अधीतयजुर्विद्यां मूर्त्तिमतीं विधायोद्व-वाम । वान्तानि यजूंषि गृह्णीतेति गुरूक्ताअन्ये शिष्यास्तित्तिरयो भूत्वा यजूंष्यभक्षयन् ।तान्येव यजूंषि बुद्धिमालिन्यात् कृष्णानिजातानि । ततो वेदहीनोऽतिदुःखितो याज्ञ-वल्क्यः सूर्य्यमाराध्य शुक्लानि यजूंषि प्राप्तवान्तानि च जाबालगौधेयकाण्वमाध्यन्दिनादीन्पञ्चदशशिष्यानध्यापयामास । तथाहि भागवतेद्बादशस्कन्धे ६ अध्याये ।“तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः ।सव्याहृतिकान् सोङ्कारांश्चातुर्होत्रविवक्षया ॥
पुत्त्रानध्यापयत् तांस्तु ब्रह्मर्षीन् ब्रह्मकोविदान् ।ते तु धर्म्मोपदेष्टारः स्वपुत्त्रेभ्यः समादिशन् ॥
ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः ।चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ॥
क्षीणायुषः क्षीणसत्त्वान्दुर्म्मेधान् वीक्ष्य कालतः ।वेदान् ब्रह्मर्षयो व्यस्यन् हृदिस्थाच्युतचोदिताः ॥
अस्मिन्नप्यन्तरे ब्रह्मन् भगवान् लोकभावनः ।ब्रह्मेशाद्यैर्लोकपालैर्याचियो धर्म्मगुप्तये ॥
पराशरात् सत्यवत्यामंशांशकलया विभुः ।अवतीर्णो महाभाग वेदं चक्रे चतुर्व्विधम् ॥
ऋगथर्व्वयजुःसाम्नां राशीनुद्धृत्य वर्गशः ।चतस्रः संहिताश्चक्रे मन्त्रैर्मणिगणा इव ॥
तासां स चतुरः शिष्यानुपाहूय महामतिः ।एकैकां संहितां ब्रह्मन्नैकैकस्मै ददौ विभुः ॥
पैलाय संहितामाद्यां बह्वृचाख्यामुवाच ह ।वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् ॥
साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् ।अथर्व्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे ॥
”“वैशम्पायनशिष्या वै चरकाध्वर्य्यवोऽभवन् ।यच्चेरुर्ब्रह्महत्यांहःक्षपणं स्वगुरोर्व्रतम् ॥
याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन्कियत् ।चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ॥
इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया ।विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ॥
देवरातसुतः सोऽपि च्छर्द्दित्वा यजुषां गणम् ।ततो गतोऽथ मुनयो ददृशुस्तान् यजुर्गणान् ॥
यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाददुः ।तैत्तिरीया इति यजुःशाखा आसन् सुपेशलाः ॥
याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दांस्यधि गवेषयन् ।गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ॥
”“एवं स्तुतः स भगवान् वाजिरूपधरो रविः ।यजूंष्ययातयामानि मुनयेऽदात् प्रसादितः ॥
यजुर्भिरकरोच्छाखा दश पञ्च शतैर्विभुः ।जगृहुर्वाजसन्यस्ताः काण्वमाध्यन्दिनादयः ॥
”अयमेव महर्षिर्मिथिलास्थ एव सामश्रवःप्रभृ-तिभिः ऋषिभिर्वणाश्रमेतरधर्म्मज्ञानार्थमादिष्टआचारव्यवहारप्रायश्चित्ताख्यकाण्डत्रयात्मकंधर्म्मशास्त्रं प्रणीय तेभ्यः श्रावितवान् । यदुक्तंयाज्ञवल्क्यसंहितायां ग्रन्थारम्भे ।“योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन् ।वर्णाश्रमेतराणां नो ब्रूहि धर्म्मानशेषतः ।मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्-मुनीन् ॥
”)क्ली, उपनिषत्विशेषः । यथा, मुक्तिकोपनिषदि ।“गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
