| YouTube Channel

याचयिता-त्री (yAcayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“टु याचृ याच्ञायाम्”@} 2 याचकः-चिका, याचकः-चिका, यियाचिषकः-षिका, यायाचकः-चिका
याचिता-त्री, याचयिता-त्री, यियाचिषिता-त्री, यायाचिता-त्री
3 4 5 याचन्-न्ती, 6 याचमानः, इत्यादिकानि सर्वाण्यपि रूपाणि भौवादिककासतिवत् 7 ज्ञेयानि।
8 याचथुः, याचित्रिमम्, 9 याच्ञा, 10 अयाची, 11 याच्यम्, 12 याचितम्-याचितकम्, याचा, इतीमानि रूपाणि धातोरस्माद्भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३४४)
02
=>
(१-भ्वादिः-८६३। द्विक। सेट्। उभ।)
03
=>
[बलिं वसुधां]
04
=>
[पृष्ठम्१०७८+ ३२]
05
=>
[[१। ‘अकथितं च’ (१-४-५१) इत्यत्र भाष्ये ‘दुहियाचिरुधि--’ (व्याघ्नभूतिका- रिका। १-४-५१) परिगणनात् द्विकर्मकत्वम्। धातोरस्य उभयपदित्वात् शता, शान- च्चेति ज्ञेयम्।]]
06
=>
[[आ। ‘सोऽपृच्छत् लक्ष्मणं सीतां याचमानः शिवं सुरान्।’ भ। का। ६-८।]]
07
=>
(१८८)
08
=>
[[२। ‘ट्वितोऽथुच्’ (३-३-८९) इति भावेऽथुच्प्रत्ययः। क्षीरस्वाम्यादयः धातुममुं ड्वितं पठित्वा ‘ड्वितः क्त्रिः’ (३-३-८८) इति क्त्रिप्रत्यये, ‘क्त्रेर्मम्नित्यम्’ (४-४-२०) इति मप्प्रत्यये याचित्रिमम् इति रूपं साधयन्ति। “केचित् ड्वितं पठन्ति--तदपि प्रमाणम्।” इति धातुवृत्तिरिहानुसन्धेया।]]
09
=>
[[३। ‘यजयाच--’ (३-३-९०) इत्यादिना भावे नङ्प्रत्ययः। ‘नेड् वशि’ (७-२-८) इतीण्निषेधः। ‘स्तोः श्चुना--’ (८-४-४०) इति श्चुत्वम्। स्त्रीलिङ्गत्वं स्वभावात्।]]
10
=>
[[४। ‘याचृव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम्’ (ग। सू। ३-१-१३४) इति णिनि- प्रत्ययः। प्रतिषिद्धानाम् = नञ्पूर्वाणामित्यर्थः। अयाची = यः सर्वात्मना याचनं विनैव देहयात्रां करोति एवमुच्यते।]]
11
=>
[[५। ण्यति, ‘यजयाचरुचप्रवचर्चश्च’ (७-३-६६) इति कुत्वनिषेधः। ‘निष्ठायामनिटः कुत्ववचनात्’ (वा। ७-३-५२) इति वार्तिकानुसरणे तु निष्ठायामस्य धातोः सेट्- त्वात् कुत्वमेव प्रवर्तते। यथोत्तरं मुनीनां प्रामाण्यात् वार्तिकानुसरणमेव युक्तम्।]]
12
=>
[[६। निष्ठायामेवं रूपम्। निष्ठान्तात् ‘अपमित्ययाचिताभ्यां कक्कनौ’ (४-४-२१) इति निर्वृत्तार्थे तृतीयान्तात् यथासम्भवं कन्प्रत्यये याचितकम् = याचितेन निर्वृत्तम् इति।]]