| YouTube Channel

यागः (yAgaH)

 
Apte
English
यागः [yāgḥ], [यज् घञ् कुत्वम्]
An offering, a sacrifice, an oblation
इष्टिर्यागः ŚB. on MS.* 6.8.7.
Any ceremony in which oblations are presented, with a direct reference to a deity
प्रत्यक्षदेवतासम्बद्धो हि त्यागो यागः ŚB. on MS.* 9.4.47
ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः पार्थिवः (अनृणत्वमुपेयिवान्)
R.*
8.3.
Presentation, grant.Comp. -ईश्वरः a certain crystal phallus of Śiva
यस्यासौ जलदेवतास्फटिकभूर्जागर्ति यागेश्वरः
N.*
12.38. कण्टकः a bad sacrificer -करणम् a sacrificial ceremony. -संतानः
N.
of Jayanta. -संप्रदानम् the recipient of a sacrifice. Kāśi. on
P.
IV.* 2.24. -सूत्रम् the sacrificial sacred thread.
Apte 1890
English
यागः [यज्-घञ् कुत्वं] 1 An offering, a sacrifice, an oblation.
2 Any ceremony in which oblations are presented
R. 8. 30.
Comp.
करणं a sacrificial ceremony.
संतानः N. of Jayanta.
Apte Hindi
Hindi
यागः
पुं*
- "यज् + घञ्, कुत्वम्"
"उपहार, यज्ञ, आहुति"
यागः
पुं*
- -
कोई भी अनुष्ठान जिसमें आहुतियाँ दी जायं @ रघु* ८/३०
यागः
पुं*
- "यज्+घञ्, कुत्वम्"
"यज्ञ, आहुति"
यागः
पुं*
- "यज्+घञ्, कुत्वम्"
"उपस्थान उपहार, प्रदान"
Wordnet
Sanskrit
Synonyms:
यज्ञः, यागः, मेधः, क्रतुः, अध्वरः, मखः, इज्या, सवः, इष्टिः, यज्ञकर्म, यजनम्, याजनम्, आहवः, सवनम्, हवः, अभिषवः, होमः, हवनम्, याज्ञिक्यम्, इष्टम्, वितानम्, मन्युः, महः, सप्ततन्तुः, दीक्षा
noun
वैदिकः विधिविशेषः यस्मिन् देवताम् उद्दिश्य वैदिकैः मन्त्रैः सह हविः प्रदीयते।
वैदिककाले यज्ञाः महत्त्वपूर्णाः आसन्। /"अफलाकाङ्क्षिभिर् यज्ञो विधिदृष्टो इज्यते। यष्टव्यम् एवेति मनः समाधाय सात्विकः॥ [भ.गी. १७।११]"
Synonyms:
यजनम्, यागः
noun
यज्ञस्य क्रिया।
"हनुमन्मन्दिरे यजनं भवति।"
शब्दकल्पद्रुमः
Sanskrit
यागः,
पुं,
(इज्यते इति यज् + घञ् ।) यज्ञः ।इत्यमरः १३
तत्र श्रौताग्निकृत्य-हविर्यज्ञाः सप्त यथा आग्न्याधानं तदेवाग्निहोत्रम् दर्शपौर्णमासौ पिण्डपितृ-यज्ञः आग्रयणम् चातुर्म्मास्यः निरूढ-पशुबन्धः सौत्रामणिः स्मार्त्ताग्निकृत्य-पाकयज्ञाः सप्त यथा औपासनम् वैश्व-देवः स्थालीपाकः आग्रयणम् सर्प-वलिः ईशानवलिः अष्टकान्यष्टका ।श्रौताग्निसप्तसंस्थाः यथा सोमयागः सएवाग्निष्टोमः अत्यग्निष्टोमः उक्थ्यः ३षोडशी वाजपेयः द्बिविधः संस्थाकुरुश्च अतिरात्रः अप्तूर्य्यामः उत्तर-क्रतवो बहवः यथा महाव्रतम् सर्व्वतो-मुखम् राजसूयः पौण्डरीकम् अभि-जित् विश्वजित् अश्वमेधः बृहस्पतिसवः८ आङ्गिरसः चयनान्यष्टादश २७ इत्यादिश्रौतसूत्रम्
*
सर्व्वदेवानां यागकालो यथा, शुक्र उवाच ।“स्वल्पेनैव तु द्रव्येण महापुण्यं यथा भदेत् ।तदहं श्रोतुमिच्छामि ग्रहयागं सुरेश्वर !
ब्रह्मोवाच ।शृणु वत्स प्रवक्ष्यामि यथा त्वं परिपृच्छसि ।अल्पकेन महापुण्यं ग्रहर्क्षतिथियौगिकम्
भृगुपूर्णाष्टमीयोगं शिवयागेषु चोत्तमम् ।मृदुवर्गञ्च भाग्यञ्च उमाया भृगुवासरे
दैवयोगात् यदा षष्ठी पुष्यर्क्षरविवासरम् ।स्कन्दयागस्तदा कार्य्यः सर्व्वकामप्रसाधकः
वारेण वा यदा सूर्य्यः सप्तमी विजया मता ।तदा तु भवते भानोर्यागः सर्व्वगुणावहः
शशिरिक्तानुसंयोगे अर्कर्क्षे सोत्तरासु ।नवम्यां मङ्गलायोगो भानुमूलदिनं यदा
अष्टम्यां वाथ चन्द्राहे श्रवणेन शुभावहम् ।अहिव्रध्ने कुजाहे तु गणेशे तस्य वाहनि
पुनर्व्वसौ गुरोर्व्वारे द्बादश्यां श्रवणेन वा ।सोमग्रस्तं यदा योगं विष्णोः सर्व्वार्थसाधकम्
द्बितीयायां यदा सौम्ये कृत्तिकर्क्षं भवेत् क्वचित् ।ग्रहयागस्तदा कार्य्यः सर्व्वशान्तिप्रदायकः
स्वातीसौमी चतुर्थी उमायागे वरा स्मृता
उत्तरासु सर्व्वासु भानुपौर्णाष्टमीषु ।शान्त्यभिषेकयागेयु सर्व्वकामार्थदाष्टमी
गुरावेकादशी पुष्ये रोहिण्या वा यदा शनिः ।सुतसौगाग्यकामाय यागो रुद्रविनायके
पूर्णिमासु सर्व्वासु अष्टमीद्वादशीषु ।चतुर्द्दश्यां तृतीयासु ग्रह ऋक्षे शुभेषु ।सर्व्वेषां भवते यागो भक्तिपूर्व्वो महामुने !
मन्त्रसाधनद्रव्यायो रुद्रयागादवाप्यते ।श्रीमेधाज्ञानवात्सल्यमुमायागाज्महामुने
योगज्ञानयशःसिद्धिं महादेवादवाप्नुयात् ।आरोग्यं सप्रतापत्वं भास्करात् प्राप्यते ध्रुवम्
गतिमिष्टां यथाकामं प्रयच्छति त्रिविक्रमः ।विघ्नो भवते तस्य यस्तु पश्येद्विनायकम्
विगतारिर्भवेत् षष्ठ्यां दृष्ट्वा स्कन्दं मखे क्षणात् ।मातृयागान्महासिद्धिः सर्व्वेषामपि जायते
भवते धनवान् पुंसः प्रथमाहे हुताशनात् ।स्वर्गापवर्गसंसिद्धिर्दुर्गायागात् प्रजायते
माघाद्यैर्मङ्गलांशोत्था ज्यैष्ठाद्यैर्ब्रह्म जायते ।ईशाद्यैः कालिकाद्यास्तु यष्टव्या विधिना मुने
”इत्याद्ये देव्यवतारे उदयतिथ्यृक्षयोगमाहात्म्य-कीर्त्तनम्
*
अथ ग्रहयागविधिः ।“प्रणम्य नव रव्यादीन् शुभाशुभफलप्रदान् ।ग्रहयागविधिं सम्यक् वक्ति श्रीरघुनन्दनः
अथ ग्रहयागप्रयोगः ।तत्र रविसोमबुधगुरुशुक्रवारेषु चित्रानुराधा-मृगशिरोरेवतीपुष्याश्विनीहस्तारोहिण्युत्तरा-त्रयेषु चन्द्रतारानुकूले शुभलग्ने यागः कार्य्यः ।अत्र बालग्रहभूतग्रहप्रबलतरनराधिपशत्र-दुःसहरोगाभिभवाद्भूतदुःस्वप्नावलोकनग्रहदौ-स्थ्यादिनिमित्तकं शान्तिकं मलमासादावपिकर्त्तव्यम् अवग्रहं विना केवलवृष्ट्यायुःपुष्टिपुत्त्र-श्रीकामादिपौष्टिकन्तु मलमासादीतरकाल एवकार्य्यम्
*
तत्र यजमानः कृतस्नानादिःगोमयोपलिप्ते देशे सदर्भासनोपविष्ट उदङ्मुखःस्वस्तिवाच्यः सूर्य्यः सोम इति पठित्वा फलपुष्प-तिलदर्भत्रयसहितजलपूर्णताम्रपात्रं गृहीत्वा, ओँ तद्विष्णोरिति विष्णुं संस्मृत्य ओँ तत् सदि-त्युच्चार्य्य ओँ अद्येतादि अमुकगोत्रः श्रीअमुक-देवशर्म्मा अमुककामो ग्रहयज्ञमहं करिष्येइति सङ्कल्प्य तज्जलमेवैशान्यां निःक्षिपेत् ।अन्यार्थत्वे गोत्रनाम्नोः षष्ठ्यन्तता करिष्येइत्यत्र करिष्यामीति विशेषः ततः श्वेतसर्षपा-नादाय ।ओँ वेतालाश्च पिशाचाश्च राक्षसाश्च सरी-सृपाः ।अपसर्पन्तु ते सर्व्वे ये चान्ये विघ्नकारकाः
ओँ विनायका विघ्नकरा महोग्रायज्ञद्बिषो ये पिशिताशनाश्च ।सिद्धार्थकैर्वज्रसमानकल्पै-र्मया निरस्ता विदिशः प्रयान्तु
इत्येताभ्यां मन्त्राभ्यां श्वेतसर्षपप्रक्षेपैर्व्विघ्नका-रकानपसारयेत् ततः सगणाधिपषोडश-मातृकापूजा वसोर्धारा आयुष्यजपं तदज्ञानेगायत्त्रीजपं वृद्धिश्राद्धञ्च कृत्वा तदशक्तौ भोज्य-मुत्सृज्य ब्राह्मणान् परितोष्य ततः स्वय-मशक्तौ कर्त्ता प्राडमुखं गुरुम् ओँ साधु भवा-नास्तामिति वदेत् ओँ साध्वहमासे इति प्रति-वचनम् ततो गन्धपुष्पवस्त्राङ्गुरीयकादिनागुरुमलङ्कृत्य दक्षिणं जानु स्पृष्ट्वा ओँ अद्ये-त्यादि मत्सङ्कल्पितग्रहयागकर्म्मणि ग्रहपूजा-होमकर्म्मकरणाय अमुकगोत्रं अमुकदेव-शर्म्माणं गन्धादिभिरभ्यर्च्य भवन्तमहं वृणे ओँवृतोऽस्मीति प्रतिवचनम् ओँ यथाविहितंपूजादिकर्म्म कुरु ओँ यथाज्ञानं करवाणीतिप्रतिवचनम्
*
ततो मण्डपोत्तरपूर्व्वभागेवितस्तिद्वयविस्तृतायां वितस्त्युच्छ्रितायां उदक्-प्लवायां वेद्यां गोमयेनोपलिप्तायां रक्तचन्दना-दिना मध्ये वर्त्तुलं सूर्य्यम् आग्नेय्यां श्वेतमर्द्ध-चन्द्राकारं सोमम् दक्षिणस्यां त्रिकोणं रक्तंमङ्गलम् ऐशान्यां पीतं धनुराकारं बुधम् ।उत्तरस्यां पीतं पद्माकारं बृहस्पतिम् प्राच्यांश्वेतं चतुष्कोणं शुक्रम् प्रतीच्यां श्यामं सर्पा-कारं शनिम् नैरृत्यां श्यामं मकराकारंराहुम् वायव्यां धूम्रवर्णान् खड्गाकारान्केतून् विलिख्य स्वगृह्योक्तविधिना अग्निस्थाप-नादिब्रह्मस्थापनपर्य्यन्तं कर्म्म कृत्वा मण्डलेग्रहानावाहयेत्
*
तत्र क्रमः मध्ये ।ओँ क्षत्त्रियं काश्यपं रक्तं कालिङ्गं द्बादशा-ङ्गुलम् ।पद्महस्तद्वयं पूर्व्वाननं सप्ताश्ववाहनम् ।शिवाधिदैवतं ध्यायेद्बह्निप्रत्यधिदैवतम्
सप्तम्यां जायमानं विशाखानक्षत्रं रक्तमाल्या-म्बरधरम् इति ध्यात्वा ओँभूर्भुवः स्वः सूर्य्यग्रहइहागच्छ इहागच्छ इह तिष्ठ इह तिष्ठ इतिशुक्लतण्डुलैरावाह्य स्थापयेत्
आग्नेये ।ओँसामुद्रं वैश्यमात्रेयं हस्तमात्रं सिताम्बरम् ।श्वेतं द्बिबाहुं वरदं दक्षिणं सगदेतरम्
दशाश्वं श्वेतपद्मस्थं विचिन्त्योमाधिदैवतम् ।जलप्रत्यधिदैवञ्च सूर्य्यास्यमाह्वयेत्तथा
चतुर्द्दश्यां जातं कृत्तिकानक्षत्रमिति ध्यात्वाओँभूर्भवः स्वः सोमग्रह इहागच्छ इहागच्छइह तिष्ठ इह तिष्ठ इति शुक्लतण्डुलैरावाह्यस्थापयेत्
दक्षिणस्याम् ।ओँ आवन्त्यं क्षत्त्रियं रक्तं मेषस्थं चतुरङ्गुलम् ।आरक्तमाल्यवसनं भारद्बाजं चतुर्भुजम्
दक्षिणोर्द्ध्वक्रमात् शक्तिवराभयगदाकरम् ।आदित्याभिमुखं देवं तद्वदेव समाह्वयेत् ।स्कन्दाधिदैवतं भौमं क्षितिप्रत्यधिदैवतम्
दशम्यां जातं पूर्व्वाषाढानक्षत्रमिति ध्यात्वाओँ भूर्भुवः स्वः मङ्गलग्रह इहागच्छ इहागच्छइह तिष्ठ इह तिष्ठ इति शुक्लतण्डलैरावाह्यस्थापयेत्
ऐशान्याम् ।ओँ मागधं द्ब्यङ्गुलात्रेयं वैश्यं पीतं चतुर्भुजम् ।वामोर्द्ध्वक्रमतश्चर्म्मगदावरदखड्गिनम्
सूर्य्यास्यं सिंहगं सौम्यं पीतवस्त्रं तथाह्वयेत् ।नारायणाधिदैवञ्च विष्णुप्रत्यधिदैवतम्
द्बादश्यां जातं धनिष्ठानक्षत्रमिति ध्यात्वाओँ भूर्भुवः स्वः बुधग्रह इहागच्छ इहागच्छइह तिष्ठ इह तिष्ठ इति शुक्लतण्डुलैरावाह्यस्थापयेत्
उत्तरस्याम् ।द्बिजमाङ्गिरसं पीतं सैन्धवञ्च षडङ्गुलम् ।ध्यात्वा पीताम्बरं जीवं सरोजस्थं चतुर्भुजम्
दक्षोर्द्ध्वादक्षवरदकरकादण्डमाह्वयेत् ।ब्रह्माधिदैवं सूर्य्यास्यमिन्द्रप्रत्यधिदैवतम्
एकादश्यां जातं उत्तरफल्गुनीनक्षत्रमिति-ध्यात्वा ओँ भूर्भुवः स्वः बृहस्पते इहागच्छइहागच्छ इह तिष्ठ इह तिष्ठ इति शुक्ल-तण्डुलैरावाह्य स्थापयेत्
ततः प्राच्याम् ।ओँ शुक्रं भोजकटं विप्रं भार्गवञ्च नवाङ्गुलम् ।पद्मस्थमाह्वयेत् सूर्य्यमुखं श्वेतं चतुर्भुजम्
सदाक्षवरकरकादण्डहस्तं सिताम्बरम् ।शक्राधिदैवतं ध्यायेत् शचीप्रत्यधिदैवतम्
नवम्यां जातं पुष्यनक्षत्रमिति ध्यात्वा ओँ भूर्भुवःस्वः शुक्र इहागच्छ इहागच्छ इह तिष्ठ इहतिष्ठ इति शुक्लतण्डुलैरावाह्य स्थापयेत्
पश्चिमायाम् ।सौराष्ट्रं काश्यपं शूद्रं सूर्य्यास्यं चतुरङ्गुलम् ।कृष्णं कृष्णाम्बरं गृध्रगतं सौरिं चतुर्भुजम्
तद्बद्वाणवरशूलधनुर्हस्तं समाह्वयेत् ।यमाधिदैवतं प्रजापतिप्रत्यधिदैवतम्
कृष्णचतुर्द्दश्यां जातं रोहिणीनक्षत्रमिति ध्यात्वाओँ भूर्भुवः स्वः शनैश्चर इहागच्छ इहागच्छइह तिष्ठ इह तिष्ठ इति शुक्लतण्डुलैरावाह्यस्थापयेत्
नैरृत्याम् ।राहुं मलयजं शूद्रं पैठीनं द्बादशाङ्गुलम् ।कृष्णं कृष्णाम्बरं सिंहासनं ध्यात्वा तथाह्वयेत्
चतुर्ब्बाहुं खड्गवरशूलचर्म्मकरं तथा ।कालाधिदैवं सूर्य्यास्यं सर्पप्रत्यधिदैवतम्
पौर्णमास्यां जातं भरणीनक्षत्रमिति ध्यात्वाओँ भूर्भुवः स्वः भगवन् राहो इहागच्छइहागच्छ इह तिष्ठ इह तिष्ठ इति शुक्लतण्डुलै-रावाह्य स्थापयेत्
वायव्याम् ।कौशद्बीपं केतुगणं जैमिनीयं षडङ्गुलम् ।धूम्रं गृध्रगतं शूद्रमाह्वयेत् विकृताननम्
सूर्य्यास्यं धूम्रवसनं वरदं गदिनं तथा ।चित्रगुप्ताधिदैवञ्च ब्रह्मप्रत्यधिदैवतम्
अमावास्यायां जातं अश्लेषानक्षत्रमिति ध्यात्वाओँ भूर्भुवः स्वः भगवन्तः केतव इहागच्छतइहागच्छत इह तिष्ठत इह तिष्ठत इतिशुक्लतण्डुलैरावाह्य स्थापयेत्
अधिदैवत-प्रत्यधिदैवतपूजनञ्च अयुतहोमादौ तत-स्तत्तद्वर्णवस्त्रतत्तद्बर्णगन्धतत्तद्बर्णपुष्पं दद्यात्
धूपे विशेषः रवये गुग्गुलुधूपम् सोमायसरलम् मङ्गलाय देवदारुम् बुधाय घृत-मिश्रितदेवदारुम् बृहस्पतये दशाङ्गम् ।शुक्राय अगुरु शणैश्चराय कालागुरु राहवेगुडत्वचम् केतुभ्यो मधुमिश्रितगुडत्वचम् ।अभावे षोडशाङ्गं वा
*
गन्धे विशेषः ।सूर्य्याय रक्तचन्दनम् सोमाय श्वेतचन्दनम् ।मङ्गलाय कुङ्कुमम् बुधाय सरलम् गुरवेरक्तचन्दनश्वेतचन्दनकुङ्कुमसरलं मिश्रितसम-भागत्वेन दद्यात् शनैश्चराय कस्तूरीम् ।राहवे पद्मकाष्ठम् केतुभ्यश्च पद्मकाष्ठम् ।अधिदेवताप्रत्यधिदेवताः पूजयेत्
*
अधि-देवता प्रत्यधिदेवता यथा सूर्य्यस्य शिववह्नी ।सोमस्य उमा जलम् मङ्गलस्य स्कन्दः क्षितिः ।बुधस्य नारायणविष्णू बृहस्पतेः ब्रह्माइन्द्रश्च शुक्रस्य शक्रः शची शनैश्चरस्य यमःप्रजापतिश्च राहोः कालः सर्पश्च केतूनांचित्रगुप्तः ब्रह्मा एतत्तु अयुतादिहोमेज्ञेयम्
*
सूर्य्याय गुडौदनबलिः एवंसोमादीनामपि सति सामर्थ्ये षोडशोपचारा-दिना वलौ तु सूर्य्याय गुडौदनम् सोमायघृतपायसम् मङ्गलाय पक्वयवचूर्णात्मकयाव-कम् बुधाय क्षीरान्नम् गुरवे दध्योदनम् ।शुक्राय घृतौदनम् शनैश्चराय कृशरम् ।राहवे छागमांसम् केतुभ्यः अजाक्षीर-साधिताजकर्णरक्तमिश्रित-यव-तिल-तण्डुलरूपंचित्रौदनम् तत्तद्द्रव्यालाभे भक्ष्यान्तरंदद्यात्
*
ततश्चरुं श्रपयेत् तत्र साम-गानां क्रमः अग्नेः पश्चिमायां दिशि प्राग-ग्रान् कुशानास्तीर्य्य तदुपरि प्रक्षालितवारुण-मुदूखलं वैणवञ्च सूर्पं वारुणचमसस्थजल-प्रोक्षितं संस्थाप्य व्रीहीन् यवान् वा अशक्तौशालितण्डुलान् सूर्पे निधाय ओँ सूर्य्याय त्वाजुष्टं निर्व्वपामि इति गृहीत्वा उदूखलेस्थापयेत् एवं सोमाय एवं मङ्गलादीनामपिनिर्व्वपणं कृत्वा उदूखले स्थापयेत् द्विस्तूष्णीम् ।ततो दक्षिणहस्तमुपरि कृत्वा मुषलेनावहत्यसूर्पेण प्रस्फोटयेत् इत्थमेव वारत्रयम् तत-श्चरुस्थाल्याममन्त्रकं कृतोत्तराग्रं पवित्रंनिःक्षिप्य तत्र प्रक्षालिततण्डुलान् निधायतदुपरि दुग्धं दत्त्वा यथा पायसचरुर्भवतितथा स्तोकं स्तोकमुदकं दत्त्वा तन्मध्ये खदिर-पलाशोडुम्बराणामन्यतमस्य प्रादेशप्रमाणंउभयथा सार्द्धाङ्गुष्ठप्रमाणं चतुष्कोणपुष्कलंमेक्षणं दक्षिणावर्त्तेन भ्रामयित्वा तथा पचेत्यथा अन्तरोष्मणा सम्यक् पाको भवति मण्ड-गालनं दाहश्च भवति सम्यक्पाके भूतेचरुमध्ये घृतस्रुवं दत्त्वा प्रागादिदिक्चिह्नितंकृत्वा चरुमवतार्य्य अग्नेरुत्तरतः कुशोपरिस्थापयित्वा पुनर्मध्ये घृतस्रुवं दद्यात् ततोभूमिजपादिस्रुवसंस्कारपर्य्यन्तं कर्म्म कृत्वाअग्नेः पश्चिमतः स्तरणकुशोपरि पूर्व्वमाज्यंपश्चाच्चरुं निधाय उदकाञ्जलिसेकं कृत्वाविरूपाक्षजपान्तां कुशण्डिकां समापयेत्
*
यजुर्व्वेदिनान्तु आज्यस्थाल्यामाज्यनिर्वपणा-नन्तरं सूर्पं पुरतो दक्षिणभागे संस्थाप्य तत्रो-दूखलं विन्यस्य व्रीह्याद्यन्यतमं तत्र निघायओँ सूर्य्याय त्वा जुष्टं गृह्णामि इत्येकां मुष्टिंगृहीत्वा ओँ सूर्य्याय त्वा जुष्टं निर्व्वपामीतिडदूखले स्थापयित्वा ओँ सूर्य्याय त्वा जुष्ठंप्रोक्षामीति प्रोक्षणीजलेन प्रोक्षयेत् एवंसोमाय त्वा इत्यादि तत ओँ अग्नये स्विष्टि-कृते त्वा इत्यादिना ग्रहणनिर्व्वपणप्रोक्षणानिकृत्वा द्बिस्तूष्णीं कुर्य्यात् ततः पूर्व्ववत्श्रपणम् पक्वं ज्ञात्वा ज्वलदग्निं गृहीत्वाचरुमध्ये दक्षिणावर्त्तेन भ्रामयित्वा तमग्निंतत्रैवाग्नौ क्षिपेत् तत आघाराज्यभागान्तंकर्म्म कुर्य्यात्
*
ऋग्वेदिनान्तु प्रोक्षणी-पात्रस्थापनानन्तरं पवित्रान्तर्हिते ओँ सूर्य्यायत्वा जुष्टं निर्व्वपामीति व्रीह्याद्यन्यतममुष्टिंप्रक्षिप्य ओँ सूर्य्याय त्वा जुष्टं प्रोक्षामीतिप्रणीताजलेन प्रोक्षयेत् एवं सोमाय त्वाइत्यादि ततः स्विष्टिकृदर्थकिञ्चिदधिकं तूष्णींतथा कृत्वा पवित्रान्तर्हितं कृत्वा पूर्व्वग्रीवोर्द्ध्व-लोमकृष्णाजिने उदूखलं निधाय तत्र सूर्पस्थ-व्रीह्याद्यन्यतमं प्रक्षिप्य मुषलेनावहत्य सूर्पेणवितुषीकृत्य प्रस्फोट्य त्रिः प्रक्षाल्य पवित्रंचरुस्थाल्यां प्रक्षिप्य तथैव श्रापयित्वा उदीच्यांदक्षिणभागे ओँ सोमाय स्वाहेति होमपर्य्यन्तंकुर्य्यात् ततः शान्तिकर्म्मणि अग्ने त्वं वरद-नामासीति नाम कृत्वा ।ओँ पिङ्गभ्रूश्मश्रुकेशाक्षः पीनाङ्गजठरोऽरुणः ।छागस्थः साक्षसूत्रोऽग्निः सप्तार्च्चिः शक्तिधा-रकः
इत्यादिपुराणीयं ध्यात्वा ओँ वरदनामन्नग्नेइहागच्छ इहागच्छ इह तिष्ठ इह तिष्ठइत्यावाह्य पाद्यादिना पूजयेत्
*
पौष्टिक-कर्म्मणि तु वलदनामाग्निः ग्रहहोमे अग्नी-नाह गोभिलः ।आदित्ये कपिलो नाम पिङ्गलः सोम उच्यते ।धूमकेतुस्तथा भौमे जठरोऽग्निर्ब्बुधे स्मृतः
बृहस्पतौ शिखी नाम शुक्रे भवति हाटकः ।शनैश्चरे महातेजा राहौ चैव हुताशनः ।केतुषु लोहितोऽग्निः स्यादिति वह्निविनिर्णयः
ततः स्वगृह्योक्तविधिनानेन चरुणा सूर्य्यादि-ग्रहेभ्यः प्रत्यकाहुतिं दद्यात्
*
अत्र मन्त्राः ।सूर्य्यस्य आकृष्णेनेतिमन्त्रस्य हिरण्यस्तूपाङ्गिराऋषिस्तृष्टुप् छन्दः सविता देवता आदित्यस्यपूजाहोमकर्म्मणि विनियोगः ओँ आकृष्णेनरजसा वर्त्तमानो निवेशयन्नमृतं मर्त्यञ्च हिर-ण्ययेन सविता रथेना देवो याति भुवनानिपश्यन् स्वाहा इदं सूर्ध्याय इति देवतोद्देशःसामगेतरैः कार्य्यः
सोमस्य इमन्देवेति-मन्त्रस्य वरुण ऋषिरग्निर्देवता सोमस्य पूजा-होमकर्म्मणि विनियोगः ओँ इमन्देवा अस-पत्नं सुवद्धं महते क्षत्त्राय महते ज्येष्ठाय ।इमममुष्य पुत्त्रममुष्यै पुत्त्रमस्यै विशे स्वाहा ।इदं सोमाय
मङ्गलस्य अग्निर्मूर्द्धेति-मन्त्रस्य अपाङ्गिरा ऋषिर्गायत्त्री च्छन्दोऽग्नि-र्देवता मङ्गलस्य पूजाहोमकर्म्मणि विनि-योगः ओँ अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्याअयमपां रेतांसि जिन्वति स्वाहा इदंमङ्गलाय
बुधस्य उद्बुध्यस्वेतिमन्त्रस्य पर-मेष्ठिरृषिस्तृष्टुप् छन्दोऽग्निर्देवता बुधस्य पूजा-होमकर्म्मणि विनियोगः ओँ उद्बुध्यस्वाग्नेप्रतिजागृहि त्वमिष्टापूर्त्ते संसृजेथामयञ्चास्मिन्सधस्ये अध्युत्तरस्मिन् विश्वेदेवा यजमानश्चसीदत स्वाहा इदं बुधाय
बृहस्पतेः बृह-स्पते अतीतिमन्त्रस्य गृत्समद ऋषिस्तृष्टुप् छन्दोब्रह्मा देवता जीवस्य पूजाहोमकर्म्मणि विनि-योगः ओँ बृहस्पते अतियदर्य्योऽर्हाद्युमद्बिभातिक्रतुमज्जनेषु यद्दीदयत्सरस ऋतु प्रजात तद-स्मासु द्रविणं धेहि चित्रं स्वाहा इदं बृह-स्पतये
शुक्रस्य अन्नात् परिश्रुत इति मन्त्रस्यप्रजापतिरृषिरतिजगतीच्छन्दोऽग्निसरस्वतीन्द्रादेवताः शुक्रस्य पूजाहोमकर्म्मणि विनियोगः ।ओँ अन्नात् परिश्रुतो रसं ब्रह्मणा व्यपिवत् क्षत्त्रंपयः सोमं प्रजापतिः ऋतेन सत्यमिन्द्रियंविपानं शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयोऽमृतंमधु स्वाहा इदं शुक्राय
शनैश्चरस्यशन्नो देवीतिमन्त्रस्य दध्यङ्गाथर्व्वण ऋषिर्गायत्त्रीच्छन्द आपो देवता शनैश्चरस्य पूजाहोम-कर्म्मणि विनियोगः ओँ शन्नो देवीरभीष्टयेआपो भवन्तु पीतये संयोरभिस्रवन्तु नः स्वाहा ।इदं शनैश्चराय
राहोः काण्डात् काण्डा-दिति मन्त्रस्य अग्निरृषिर्गायत्त्री च्छन्दो दूर्व्वे-ष्टका देवता राहोः पूजाहोमकर्म्मणि विनि-योगः ओँ काण्डात् काण्डात् प्ररोहन्ती परुषःपरुषः परि एवानो दूर्व्वे प्रतनु सहस्रेण शतेनच स्वाहा इदं राहवे
केतूनां केतुंकृण्वन्नितिमन्त्रस्य मधुच्छन्द ऋषिरनिरुद्गायत्त्री-च्छन्दोऽग्निर्देवता केतूनां पूजाहोमकर्म्मणिविनियोगः ओँ केतुं कृण्वन्न केतवे पेषो मर्य्याअपेषसे समुषद्भिरजायथा स्वाहा इदंकेतुभ्यः
ततो मधुघृताक्तां घृताक्तांक्षीराक्तां वा प्रादेशप्रमाणां साग्रामर्कसमिध-मादाय ओँ आकृष्णेन इत्यादिमन्त्रेण सूर्य्याया-ष्टोत्तरशतं अष्टाविंशतिमष्टौ वा अशक्त्या ।शक्त्या ग्रहस्यातिपीडाकरत्वाद्वा अष्टोत्तर-सहस्रं जुहुयात्
*
समिधमाह याज्ञ-वल्क्यः ।अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः ।उडुम्बरः शमी दूर्व्वा कुशाश्च समिघः क्रमात्
होमो ग्रहादिपूजायां शतमष्टोत्तरं भवेत् ।अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते ।अतिपीडाकरो यस्तु तन्तु यत्नेन पूजयेत्
ततो होमानन्तरं उदीच्यं कर्म्म कुर्य्यात् ततोगुडौदनादीन् ऋत्विजे भोजयेत् तत्तद्द्रव्या-लाभे भोज्यान्तराणि वा दद्यात् भोजना-सामर्थ्ये तत्तद्द्रव्याणि पाणिना प्रतिग्राहयेत् ।ततो मत्स्यपुराणोक्तैर्मन्त्रैर्दक्षिणां दद्यात् ।धेनुः शङ्खस्तथानड्वान् हेम वासो हयस्तथा ।कृष्णा गौरायसं छाग एता वै दक्षिणाःक्रमात्
तत्र ।कपिले सर्व्वदेवानां पूजनीयासि रीहिणी ।तीर्थदेवमयी यस्मादतः शान्तिं प्रयच्छ मे
इति पठित्वा ओँ अद्येत्यादि कृतैतत्सूर्य्यग्रह-यज्ञकर्म्मणः प्रतिष्ठार्थं दक्षिणां कपिलां धेनुंरुद्रदेवताकां अमुकगोत्राय अमुकदेवशर्म्मणेब्राह्मणाय ऋत्विजे तुभ्यमहं संप्रददे अन्यार्थ-ञ्चेत् ददानीति ब्रूयात् कपिलाभावे गोमात्रंवा तदभावे काञ्चनम् तदभावे रजतादिकंवा दद्यात् काञ्चनादिकन्तु शङ्खादि दक्षिणा-भवेऽपि दद्यात्
एवम् ।पुण्यस्त्वं शङ्खपुण्यानां मङ्गलानाञ्च मङ्गलम् ।विष्णुना विधृतो नित्यमतः शान्तिं प्रयच्छ मे
इत्युच्चार्य्य पूर्व्वोक्तक्रमेण सोमग्रहयज्ञे शङ्खंदद्यात्
ओँ धर्म्मस्त्वं वृषरूपेण जगदानन्दकारकः ।अष्टमूर्त्तेरधिष्ठानमतः शान्तिं प्रयच्छ मे
इत्युच्चार्य्य मङ्गलयज्ञे वृषं दद्यात्
ओँ हिरण्यगर्भगर्भस्त्वं हेमरूपं विभावसोः ।अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे
इत्युच्चार्य्य बुधयज्ञे काञ्चनं दद्यात्
ओँ पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभम् ।वरप्रदानात्तद्विष्णोरतः शान्तिं प्रयच्छ मे
इत्युच्चार्य्य गुरुयज्ञे पीतवस्त्रयुगं दद्यात् तद-भावेऽन्यवर्णवासोयुगमपि दद्यात्
ओँ विष्णुस्त्वमश्वरूपेण यस्मादर्णवसम्भवः ।चन्द्रार्कवाहनस्त्वं वै अतः शान्तिं प्रयच्छ मे
इत्युच्चार्य्य शुक्रयज्ञे अश्वं दद्यात्
ओँ यस्मात्त्वं पृथिवी सर्व्वा धेनुः केशवसम्भवा ।सर्व्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे
इत्युच्चार्य्य शनैश्चरयज्ञे कृष्णां धेनुं अन्यवर्णां वादद्यात्
ओँ यस्मादायुधकर्म्माणि त्वदधीनानि सर्व्वदा ।लाङ्गलाद्यायुधादीनि ततः शान्तिं प्रयच्छ मे
इत्युच्चार्य्य राहुयज्ञे लौहं दद्यात्
ओँ यस्मात्त्वं सर्व्वभूतानां मङ्गलाय व्यव-स्थितः ।यानं विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे
इत्युच्चार्य्य केतुयज्ञे छागं दद्यात्
दक्षिणाजलंशान्तिकुम्भजलेन संमिश्र्य शान्तिं कुर्य्यात् ।ततः कृताञ्जलिः ।ओँ गच्छध्वममराः सर्व्वे गृहीत्वार्च्चां स्वमा-लयम् ।सन्तुष्टा वरमस्माकं दत्त्वेदानीं सुपूजिताः
इति विष्णुधर्म्मोत्तरीयं पठित्वा ग्रहान् विस-र्जयेत् दक्षिणा प्रदातव्या ग्रहाणाञ्च विस-र्जनमिति वशिष्ठवचनात् ।” इति रघुनन्दन-भट्टाचार्य्यविरचितग्रहयागप्रयोगः समाप्तः